श्रीशुक उवाच -
गर्गः पुरोहितो राजन्! यदूनां सुमहातपाः । व्रजं जगाम नन्दस्य वसुदेवप्रचोदितः ।।१।।
तं दृा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः । आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् ।।२।।
सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् । नन्दयित्वा।ब्रवीद् ब्रह्मन्! पूर्णस्य करवाम किम् ।।३।।
महद्विचलनं नणां गृहिणां दीनचेतसाम् । निःश्रेयसाय भगवन् ! कल्पते नान्यथा क्वचित् ।।४।।
ज्योतिषामयनं साक्षाद् यत्तज्ज्ञानमतीन्द्रियम् । प्रणीतं भवता येन पुमान् वेद परावरम् ।।५।।
त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि । बालयोरनयोर्नणां जन्मना ब्राह्मणो गुरुः ।।६।।
गर्ग उवाच -
यदूनामहमाचार्यः ख्यातश्च भुवि सर्वतः । सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ।।७।।
कंसः पापमतिः सख्यं तव चानकदुन्दुभेः । देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ।।८।।
इति सञ्चिन्तयञ्छ्रुत्वा देवक्या दारिकावचः । अपि हन्ता।।गताशङ्कस्तर्हि तन्नो।नयो भवेत् ।।९।।
नन्द उवाच -
अलक्षितो।स्मिन् रहसि मामकैरपि गोव्रजे । कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ।।१०।।
श्रीशुक उवाच -
एवं सम्प्रार्थितो विप्रः स्वचिकीर्षितमेव तत् । चकार नामकरणं गूढो रहसि बालयोः ।।११।।
गर्ग उवाच -
अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः । आख्यास्यते राम इति बलाधिक्याद्बलं विदुः ।
यदूनामपृथग्भावात् सङ्कर्षणमुशन्त्युत ।।१२।।
आसन् वर्णास्त्रयो ह्यस्य गृतो।नुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ।।१३।।
प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः । वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ।।१४।।
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ।।१५।।
एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः । अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ।।१६।।
पुरानेन व्रजपते! साधवो दस्युपीडिताः । अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ।।१७।।
य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः । नारयो।भिवन्त्येतान् विष्णुपक्षानिवासुराः ।।१८।।
तस्मान्नन्दात्मजो।यं ते नारायणसमो गुणैः । श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ।।१९।।
इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते । नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ।।२०।।
कालेन व्रजताल्पेन गोकुले रामकेशवौ । जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ।।२१।।
तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ घोषप्रघोषरुचिरं व्रजकर्दमेषु । तन्नादहृष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ।।२२।।
तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ पङ्काङ्गरागरुचिरावुपगुह्य दोर्भ्याम् । दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ।।२३।।
यर्ह्यङ्गनादर्शनीयकुमारलीलावन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः । वत्सैरितस्तत उभावनुकृष्यमाणौ प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ।।२४।।
शृङ्गयग्निदंष्ट्रयसिजलद्विजकण्टकेभ्यः क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् । गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसो।नवस्थाम् ।।२५।।
कालेनाल्पेन राजर्षे! रामः कृष्णश्च गोकुले । अघृष्टजानुभिः पद्बिर्विचक्रमतुरञ्जसा ।।२६।।
ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः । सहरामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ।।२७।।
कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् । शृण्वत्याः किल तन्मातुरिति होचुः समागताः ।।२८।।
वत्सान् मुञ्चन् क्वचिदसमये क्रोशसंजातहासः । स्तेयं स्वाद्वत्त्यथ दधि पयः कल्पितैः स्तेययोगैः ।।
मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिनत्ति । द्रव्यालाभे स गृहकुपितो यात्युपक्रोश्य तोकान् ।।२९।।
हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यै । श्छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् ।।
ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं । काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः ।।३०।।
एवं धाष्टर्यन्युशति कुरुते मेहनादीनिवास्तौ । स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथा।।स्ते ।।
इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनीभि- । र्व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् ।।३१।।
एकदा क्रीडमानास्ते रामाद्या गोपदारकाः । कृष्णो मुदं भक्षितवानिति मात्रे न्यवेदयन् ।।३२।।
सो गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी । यशोदा भयसम्भ्रान्तप्रेक्षणाक्षमभाषत ।।३३।।
कस्मान्मृदमदान्तात्मन् भवान् भक्षितवान् रहः । वदन्ति तावका ह्येते कुमारास्ते।ग्रजो।प्ययम् ।।३४।।
श्रीकृष्ण उवाच -
नाहं भक्षितवानम्ब ! सर्वे मिथ्याभिशंसिनः । यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ।।३५।।
यद्येवं तर्हि व्यादेहीत्युक्तः स भगवान् हरिः । व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ।।३६।।
सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः । साद्रिद्वीपाब्धिभूगोलं सवाय्वग्नीन्दुतारकम् ।।३७।।
ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च । वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ।।३८।।
एतद् विचित्रं सह जीवकालस्वभावकर्माशयलिङ्गभेदम् । सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानमवाप शङ्काम् ।।३९।।
किं स्वप्न एतदुत देवमाया किं वा मदीयो बत बुद्धिमोहः । अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ।।४०।।
अथो यथावन्न वितर्कगोचरं चेतोमनःकर्मवचोभिरञ्जसा । यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ।।४१।।
अहं ममासौ पतिरेष मे सुतो व्रजेश्वरस्याखिलवित्तपा सती । गोप्यश्च गोपाः सहगोधनाश्च मे यन्माययेत्थं कुमतिः स मे गतिः ।।४२।।
इत्थं विदिततत्त्वायां गोपिकायां स ईश्वरः । वैष्णवीं व्यतनोन्मायां पुत्रस्नेह्मयीं विभुः ।।४३।।
सद्यो नष्टस्मृतिर्गोपी सा।।रोप्यारोहमात्मजम् । प्रवृद्धस्नेह्कलिलहृदया।।सीद् यथा पुरा ।।४४।।
त्रय्या चोपनिषद्बिश्च सांख्ययोगैश्च सात्वतैः । उपगीयमानमाहात्म्यं हरिं सा।मन्यतात्मजम् ।।४५।।
राजोवाच -
नन्दः किमकरोद् ब्रह्मन् ! श्रेय एवं महोदयम् । यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ।।४६।।
पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ।।४७।।
श्रीशुक उवाच -
द्रोणो वसूनां प्रवरो धरया सह भार्यया । करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ।।४८।।
जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात् परमा लोके ययाञ्जो दुर्गतिं तरेत् ।।४९।।
अस्त्वित्युक्तः स भगवान् व्रजे द्रोणो महायशाः । जज्ञो नन्द इति ख्यातो यशोदा सा धरा।भवत् ।।५०।।
ततो भक्तिर्भगवति पुत्रीभूते जनार्दने । दम्पत्योर्नितरामासीद् गोपगोपीषु भारत! ।।५१।।
कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः । सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ।।५२।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे विश्वरूपदर्शने।ष्टमो।ध्यायः ।।८।।