सप्तमो।ध्यायः

राजोवाच
येन येनावतारेण भगवान् हरिरीश्वरः । करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो! ।।१।।

यच्छृण्वतो।पैत्यरतिर्वितृष्णा सत्वं च शुद्ध्यत्यचिरेण पुंसः । भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत् ।।२।।

अथान्यदपि कृष्णस्य तोकाचरितमद्बुतम् । मानुषं लोकमासाद्य तज्जातिमनुरुन्धतः ।।३।।

श्रीशुक उवाच -
कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम् । वादित्रगीतद्विजमन्त्रवाचकैश्चकार सूनोरभिषेचनं सती ।।४।। 

नन्दस्य पत्नी कृतमज्जनादिकं विप्रैः कृतस्वस्त्ययनं सुपूजितैः ।अन्नाद्यवासःस्रगभीष्टधेनुभिः संजातनिद्राक्षमशीशयच्छनैः ।।५।।

औत्थानिकौत्सुक्यमना मनस्विनी समागतान् पूजयती व्रजौकसः । नैवाशृणोद् वै रुदितं सुतस्य सा रुदन् स्तनार्थी चरणावुदक्षिपत् ।।६।।

अधः शयानस्य शिशोरनो।ल्पकप्रवालमृद्वङ्घ्रिहतं व्यवर्तत । विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूबरम् ।।७।।

दृा यशोदाप्रमुखा व्रजस्त्रिय औत्थानिके कर्मणि याः समागताः । नन्दादयश्चाद्बुतदर्शनाकुलाः कथं स्वयं वै शकटं विपर्यगात् ।।

इति ब्रुवन्तो।तिविवादमोहिता जनाः समन्तात् परिवव्रुरार्तवत् ।।८।।

ऊचुरव्यवसितमतीन् गोपान् गोपीश्च बालकाः । रुदतानेन पादेन क्षिप्तमेतन्न संशयः ।।९।।

न ते श्रद्दधिरे गोपा बालभाषितमित्युत । अप्रमेयं बलं तस्य बालकस्य न ते विदुः ।।१०।।

रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता । कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनमपाययत् ।।११।।

पूर्ववत् स्थापितं गोपैर्बलिभिः सपरिच्छदम् । विप्रा हुत्वा।र्चयाञ्चक्रुर्दध्यक्षतकुशाम्बुभिः।।१२।।

ये।सूयानृतदम्भेर्ष्याहिंसामानविवर्जिताः । न तेषां सत्यशीलानामाशिषो विफलाः कृताः ।।१३।।

इति बालकमादाय सामर्ग्यजुरुपाकृतैः । जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः ।।१४।।

वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः । हुत्वा चाग्निं द्विजातिभ्यः प्रादादन्नं महागुणम् ।।१५।।

गावः सर्वगुणोपेता वासः स्रग्रुक्ममालिनीः । आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत ।।१६।।

विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथा।।शिषः । ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम् ।।१७।।

एकदा।।रोहमारूढं लालयन्ती सुतं सती । गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् ।।१८।।

भूमौ निधाय तं गोपी विस्मिता भारपीडिता । महापुरुषमादध्यौ जगतामास कर्मसु ।।१९।।

दैत्यो नाम्ना तृणावर्तः कंसभृत्यः प्रणोदितः । चक्रवातस्वरूपेण जहारासीनमर्भकम् ।।२०।।

गोकुलं सर्वमावृण्वन् मुष्णंश्चक्षूंषि रेणुभिः । ईरयन् सुमहाघोरशब्देन प्रदिशो दिशः ।।२१।।

मुहूर्तमभवद् गोष्ठं रजसा तमसा।।वृतम् । सुतं यशोदा नापश्यत्तस्मिन् न्यस्तवती यतः ।।२२।।

नापश्यत् कश्चनात्मानं परं चापि विमोहितः । तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः ।।२३।।

इति खरपवनचक्रपांसुवर्षे सुतपदवीमबला।विलक्ष्य माता । अतिकरुणमनुस्मरन्त्यशोचद् भुवि पतिता मृतवत्सका यथा गौः ।।२४।।

रुदितमनुनिशम्य तत्र गोप्यो भृशमनुतप्तधियो।श्रुपूर्णमुख्यः । रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारतपांसुवर्षवेगे ।।२५।।

तृणावर्तः शान्तरयो वात्यारूपधरो हरन् । कृष्णं नभोगतो गन्तुं नाशक्नोद् भूरिभारभृत् ।।२६।।

तमश्मानं मन्यमान आत्मनो गुरुमत्तया । गले गृहीत उत्स्रष्टुं नाशक्नोदद्बुतार्भकम् ।।२७।।

गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः । अव्यक्तरावो न्यपतत् सहबालो व्यसुर्व्रजे ।।२८।।

तमन्तरिक्षात् पतितं शिलायां विशीर्णसर्वावयवं करालम् । पुरं यथा रुद्रशरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः ।।२९।।

प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् । तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात् प्रमुक्तम् । 
गोप्यश्च गोपाः किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् ।।३०।।

अहो बतात्यद्बुतमेष रक्षसा बालो निवृत्तिं गमितो।भ्यगात् पुनः । हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद् विमुच्यते ।।३१।।

किं नस्तपश्चीर्णमधोक्षजार्चनं पूर्तेष्टदत्तमुत भूतसौहृदम् । यत्संपरेतः पुनरेव बालको दिष्टया स्वबन्धून् प्रणयन्नुपस्थितः ।।३२।।

दृा।द्बुतानि बहुशो नन्दगोपो बृहद्वने । वसुदेववचो भूयो मानयामास विस्मितः ।।३३।।

एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी । प्रस्न्तुं पाययामास स्तनं स्नेहपरिप्लुता ।।३४।।

पीतप्रायस्य जननी सा तस्य रुचिरस्मितम् । मुखं लालयती राजञ्जृम्भतो ददृशे इदम् ।।३५।।

खं रोदसी ज्योतिरनीकमाशाः सूर्येन्दुवह्निश्वसनाम्बुधींश्च । द्वीपान् नगांस्तद्दुहितर्वनानि भूतानि यानि स्थिरजङ्गमानि ।।३६।।

सा वीक्ष्य विश्वं सहसा राजन्! सञ्जातवेपथुः । सम्मील्य मृगशावाक्षी नेत्रे आसीत् सुविस्मिता ।।३७।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमो ।ध्यायः ।।७।।