श्रीशुकउवाच
एवं चर्चितसंकल्पो भगवान् मधुसूदनः । आससादाथ चाणूरं मुष्टिकं रोहिणीसुतः ।।१।।
हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यामेव च पादयोः । विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया ।।२।।
अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी । शिरः शीर्ष्णोरसोरस्तावन्योन्यमभिजघ्नतुः ।।३।।
परिभ्रामणविक्षेपपरिरम्भावपातनैः । उत्सर्पणापसर्पणैश्चान्योन्यं प्रत्यरुन्धताम् ।।४।।
उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि । परस्परं जिगीषन्तावपचक्रतुरात्मनः ।।५।।
तद् बलाबलवद्युद्धं समेताः सर्वयोषितः । ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ।।६।।
महानयं बताधर्म एषां राजसभासदाम् । ये बलाबलवद्युद्धं राज्ञो।न्विच्छन्ति पश्यतः ।।७।।
क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ । क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ ।।८।।
धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् । यत्राधर्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित् ।।९।।
न सभां प्रविशेत् प्राज्ञाः सभ्यदोषाननुस्मरन् । अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते ।।१०।।
वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम् । वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः ।।११।।
किं न पश्यत रामस्य मुखमाताम्रलोचनम् । मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् ।।१२।।
पुण्या बत व्रजभुवो यदयं नृलिङ्गगूढः पुराणपुरुषो वनचित्रमाल्यः । गाः पालयन् सहबलः क्व णयंश्च वेणुं विक्रीडयाञ्चति गिरित्ररमार्चिताङ् घ्रः ।।१३।।
गोप्यस्तपः किमचरन् यदमुष्य रूपं लावण्यसारमसमोर्ध्वमनन्यसिद्धम् । दृग्भिः पिबन्त्यनुसवाभिनवं दुरापमेकान्तधाम यशसः श्रिय ऐश्वरस्य ।।१४।।
या दोहने।वहनने मथनोपलेपप्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ ।गायन्ति चैनमनुरक्तधियो।श्रुकण्ठयो धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ।।१५।।
प्रातर्व्रजाद् व्रजत आविशतश्च सायं गोभिः समं क्व णयतो।स्य निशम्य वेणुम् ।निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः पश्यन्ति सस्मितमुखं सदयावलोकम् ।।१६।।
एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः । शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ ।।१७।।
सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेह्शुचा।।तुरौ । पितरावन्वतप्येतां पुत्रयोरबुधौ बलम् ।।१८।।
तैस्तैर्नियुद्धविधिभिर्विविधैरच्युतेतरौ । युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ ।।१९।।
भगवग्दात्रनिष्पातैर्वज्रनिष्पेषनिष्ठुरैः । चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह ।।२०।।
स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ । भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत ।।२१।।
नाचलत्तत्प्रहारेण मालाहत इव द्विपः । बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ।।२२।।
भूपृष्ठे पोथयामास तरसा क्षीणजीवितम् । विस्रस्ताकल्पकेशस्रगिन्द्रध्वज इवापतत् ।।२३।।
तथैव मुष्टिकः पूर्वं स्वमुष्टयाभिहतेन वै । बलभद्रेण बलिना तलेनाभिहतो भृशम् ।।२४।।
प्रवेपितः स रुधिरमुद्वमन् मुखतो।र्दितः । व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः ।।२५।।
ततः कूटमनुप्राप्तं रामः प्रहरतां वरः । अवधील्लीलया राजन् सावज्ञां वाममुष्टिना ।।२६।।
तर्ह्येव हि शलः कृष्णपदापहतशीर्षकः । द्विधा विदीर्णस्तोशलक उभावपि निपेततुः ।।२७।।
चाणूरे मुष्टिके कूटे शले तोशलके हते । शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः ।।२८।।
गोपान् वयस्यानाकृष्य तैः संसृज्य विजह्रतुः । वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ ।।२९।।
जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः । ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति ।।३०।।
हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् । न्यवारयत् स्वतूर्याणि वाक्यं चेदमुवाच ह ।।३१।।
निःसारयत दुर्वृतौ वसुदेवात्मजौ पुरात् । धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ।।३२।।
वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः । उग्रसेनः पिता चापि सानुगः परपक्षगः ।।३३।।
एवं विकत्थमाने वै कंसे प्रकुपितो।व्ययः । लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत् ।।३४।।
तमाविशन्तमालोक्य मृत्युमात्मन आसनात् । मनस्वी सहसोत्थाय जगृहे सो।सिचर्मणी ।।३५।।
तं खड्गपाणिं विचरन्तमाशु श्येनं यथा दक्षिणसव्यमम्बरे । समग्रहीद् दुर्विषहोग्रतेजा यथोरगं तार्क्ष्यसुतः प्रसह्य ।।३६।।
प्रगृह्य केशेषु चलत्कि रीटं निपात्य रङ्गोपरि तुङ्गमञ्चात् । तस्योपरिष्टात् स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः ।।३७।।
तं सम्परेतं विचकर्ष भूमौ हरिर्यथेभं जगतो विपश्यतः । हाहेति शब्दः सुमहांस्तदाभूदुदीरितः सर्वजनैर्नरेन्द्र ।।३८।।
स नित्यदोद्विग्नधिया तमीश्वरं पिबन् वदन् वा विचरन् स्वपञ्छ्वसन् । ददर्श चक्रायुधमग्रतो यस्तदेव रूपं दुरवापमाप ।।३९।।
तस्यानुजा भ्रातरो।ष्टौ कङ्कन्यग्रोधकादयः । अभ्यधावन्नभिक्रुद्धा भ्रातुर्निर्वेशकारिणः ।।४०।।
तथातिरभसांस्तांस्तु संयत्तान् रोहिणीसुतः । अहन् परिघमुद्यम्य पशूनिव मृगाधिपः ।।४१।।
नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः । पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः ।।४२।।
तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः । तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः ।।४३।।
शयानान् वीरशय्यायां पतीनालिङ्ग्य शोचतीः । विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः ।।४४।।
हा नाथ प्रिय धर्मज्ञा करुणानाथवत्सल । त्वया हतेन निहता वयं ते सगृहप्रजाः ।।४५।।
त्वया विरहिता पत्या पुरीयं पुरुषर्षभ । न शोभते वयमिव निवृत्तोत्सवमङ्गला ।।४६।।
अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम् । तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम्
सर्वेषामिह भूतानामेष हि प्रभवाप्ययः । गोप्ता च तदवध्यायी न क्व चित् सुखमेधते ।।४८।।
श्रीशुक उवाच
राजयोषित आश्वास्य भगवाँल्लोकभावनः । यामाहुर्लौकिकीं संस्थां हतानां समकारयत् ।।४९।।
मातरं पितरं चैव मोचयित्वाथ बन्धनात् । कृष्णरामौ ववन्दाते शिरसा।।स्पृश्य पादयोः ।।५०।।
देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ । कृतसंवंदनौ पुत्रौ सस्वजाते न शंकितौ ।।५१।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुश्चत्वारिंशाो।ध्यायः ।।४४।।