श्रीशुक उवाच
पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूदिति निजां मायां ततान जनमोहिनीम् ।।१।।
उवाच पितरावेत्य साग्रजः सात्वतर्षभः । प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ।।२।।
नास्मत्तो युवयोस्तात नित्योत्क ण्ठितयोरपि । बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन् क्व चित् ।।३।।
न लब्धो दैवहतयोर्वासो नौ भवदन्तिके । यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ।।४।।
सर्वार्थसम्भवो देहो जनितः पोषितो यतः । न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ।।५।।
यस्तयोरात्मजः कल्प आत्मना च धनेन च । वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि ।।६।।
मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् । गुरुं विप्रं प्रपन्नं च कल्पो।बिभ्रच्छ्वसन् मृतः ।।७।।
तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः । मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ।।८।।
तत् क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः । अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम् ।।९।।
इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा । मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् । ।।१०।।
सिञ्चन्तावश्रुधाराभिः स्नेह्पाशेन चावृतौ । न किञ्चिदूचतू राजन् बाष्पकण्ठौ विमोहितौ ।।११।।
एवमाश्वास्य पितरौ भगवान् देवकीसुतः । मातामहं तूग्रसेनं यदूनामकरोन्नृपम् ।।१२।।
आह चास्मान् महाराज प्रजाश्चाज्ञाप्तुमर्हसि । ययातिशापाद् यदुभिर्नासितव्यं नृपासने ।।१३।।
मयि भृत्य उपासीने भवतो विबुधादयः । बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः ।।१४।।
सर्वान् स्वाञ्ज्ञातिसंबन्धान् दिग्भ्यः कंसभयाकुलान् । यदुवृष्ण्यन्धकमधुदाशार्हकुकुरादिकान् ।।१५।।
सभाजितान् समाश्वास्य विदेशावासकर्शितान् । न्यवासयत् स्वगेहेषु वित्तैः संतर्प्य विश्वकृत् ।।१६।।
कृष्णसंकर्षणभुजैर्गुप्ता लब्धमनोरथाः । गृहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः ।।१७।।
वीक्षन्तो।हरहः प्रीता मुकुन्दवदनाम्बुजम् । नित्यं प्रमुदितं श्रीमत् सदयस्मितवीक्षणम् ।।१८।।
तत्र प्रवयसो।प्यासन् युवानो।तिबलौजसः । पिबन्तो।क्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः ।।१९।।
अथ नन्दं समासाद्य भगवान् देवकीसुतः । संकर्षणश्च राजेन्द्र परिष्वज्येदमूचतुः ।।२०।।
पितर्युवाभ्यां स्न्ग्धिाभ्यां पोषितौ लालितौ भृशम् । पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनो।पि हि ।।२१।।
स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत् । शिशून् बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे ।।२२।।
यात युयं व्रजं तात वयं च स्नेह्दुःखितान् । ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ।।२३।।
एवं सान्त्वय्य भगवान् नन्दं सव्रजमच्युतः । वासो।लङ्कारकुप्याद्यैरर्हयामास सादरम् ।।२४।।
इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः । पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ ।।२५।।
अथ शूरसुतो राजन् पुत्रयोः समकारयत् । पुरोधसा ब्राह्मणैश्च यथावद् द्विजसंस्कृतिम् ।।२६।।
तेभ्यो।दाद्दक्षिणा गावो रुक्ममालाः स्वलङ्कृताः । स्वलङ्कृतेभ्यः संपूज्य सवत्साः क्षौममालिनीः ।।२७।।
याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः । ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः ।।२८।।
ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ । गर्गाद् यदुकुलाचार्याद् गायत्रं व्रतमास्थितौ ।।२९।।
प्रभवौ सर्वविद्यानां सर्वज्ञाौ जगदीश्वरौ । नान्यसिद्धामलज्ञानं गूहमानौ नरेहितैः ।।३०।।
अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः । काश्यं सान्दीपनिं नाम ह्यवन्तीपुरवासिनम् ।।३१।।
यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम् । ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ ।।३२।।
तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः । प्रोवाच वेदानखिलान् साङ्गोपनिषदो गुरुः ।।३३।।
सरहस्यं धनुर्वेदं धर्मान् न्यायपथांस्तथा । तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम् ।।३४।।
सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ । सकृन्निगदमात्रेण तौ संजगृहतुर्नृप ।।३५।।
अहोरात्रैश्चतुःषष्टया संयत्तौ तावतीः कलाः । गुरुदक्षिणया।।चार्यं छन्दयामासतुर्नृप ।।३६।।
द्विजस्तयोस्तं महिमानमद्बुतं संलक्ष्य राजन्नतिमानुषीं मतिम् ।सम्मन्त्र्य पत्न्या स महार्णवे मृतं बालं प्रभासे वरयाम्बभूव ह ।।३७।।
तथेत्यथारुह्य महारथौ रथं प्रभासमासाद्य दुरन्तविक्रमौ ।वेलामुपव्रज्य निषीदतुः क्षणं सिन्धुर्विदित्वार्हणमाहरत्तयोः ।।३८।।
तमाह भगवानाशु गुरुपुत्रः प्रदीयताम् । यो।साविह त्वया ग्रस्तो बालको महतोर्मिणा ।।३९।।
समुद्र उवाच
नैवाहार्षमहं देव दैत्यः पञ्चजनो महान् । अन्तर्जलचरः कृष्ण शङ्खरूपधरो।सुरः ।।४०।।
आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभुः । जलमाविश्य तं हत्वा नापश्यदुदरे।र्भकम् ।।४१।।
तदङ्गप्रभवं शङ्खमादाय रथमागमत् । ततः संयमनीं नाम यमस्य दयितां पुरीम् ।।४२।।
गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः । शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः ।।४३।।
तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहिताम् । उवाचावनतः कृष्णं सर्वभूताशयालयम् । लीलामनुष्य हे विष्णो युवयोः करवाम किम् ।।४४।।
श्रीभगवानुवाच
गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम् । आनयस्व महाराज मच्छासनपुरस्कृतः ।।४५।।
तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ । दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतुः ।।४६।।
गुरुरुवाच
सम्यक् संपादितो वत्स भवद्भ्यां गुरुनिष्क्रियः । को नु युष्मद्विधगुरोः कामानामवशिष्यते ।।४७।।
गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी । छन्दांस्ययातयामानि भवन्त्विह परत्र च ।।४८।।
गुरुणैवमनुज्ञातौ रथेनानिलरंहसा । आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ।।४९।।
समनंदन् प्रजाः सर्वा दृा रामजनार्दनौ । अपश्यंत्यो बह्वहानि नष्टलब्धधना इव ।।५०।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गुरुपुत्रानयनं नाम पञ्चचत्वारिंशो।ध्यायः ।।४५।।