श्रीशुकउवाच
अथ कृष्णश्च रामश्च कृतशौचौ परंतप । मल्लदुंदुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः ।।१।।
रङ्गद्वारं समासाद्य तस्मिन् नागमवस्थितम् । अपश्यत् कुवलयापीडं कृष्णो।म्बष्ठप्रचोदितम् ।।२।।
बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् । उवाच हस्तिपं वाचा मेघनादगभीरया ।।३।।
अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम् । नो चेत् सकुञ्जरं त्वाद्य नयामि यमसादनम् ।।४।।
एवं निर्भर्त्सितो।म्बष्ठः कुपितः कोपितं गजम् । चोदयामास कृष्णाय कालान्तकयमोपमम् ।।५।।
करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत् । कराद् विगलितः सो।मुंनिहत्याङ्घ्रिष्वलीयत ।।६।।
संक्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम् । परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ।।७।।
पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् । विचकर्ष यथा नागं सुपर्ण इव लीलया ।।८।।
स पर्यावर्तमानेन सव्यदक्षिणतो।च्युतः । बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ।।९।।
ततो।भिमुखमभ्येत्य पाणिना।।हत्य वारणम् । प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे ।।१०।।
स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः । तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सो।हनत्क्षितिम् ।।११।।
स्वविक्रमे प्रतिहते कुञ्जरेन्द्रो।त्यमर्षितः । चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद् रुषा ।।१२।।
तमापतन्तमासाद्य भगवान् मधुसूदनः । निगृह्य पाणिना हस्तं पातयामास भूतले ।।१३।।
पतितस्य पदा।।क्रम्य मृगेन्द्र इव लीलया । दन्तमुत्पाटय तेनेभं हस्तिपांश्चाहनद्धरिः ।।१४।।
मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत् । अंसन्यस्तविषाणो।सृङ् मदबिन्दुभिरङ्कितः । विरूढस्वेदकणिकावदनाम्बुरुहो बभौ ।।१५।।
वृतौ गोपैः कतिपयैर्बलदेवजनार्दनौ । रङ्गं विविशतू राजन् गजदन्तवरायुधौ ।।१६।।
मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् । गोपानां स्वजनो।सतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः ।
मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां ।वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ।।१७।।
हतं कुवलयापीडं दृा तावपि दुर्जयौ । कंसो मनस्व्यपि तदा भृशमुद्विविजे नृप ।।१८।।
तौ रेजतू रङ्गगतौ महाभुजौ विचित्रवेषाभरणस्रगम्बरौ । यथा नटावुत्तमवेषधारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् ।।१९।।
निरीक्ष्य तावुत्तमपूरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप । प्रहर्षवेगोत्कलितेक्षणाननाः पपुर्न तृप्ता नयनैस्तदाननम् ।।२०।।
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया । जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ।।२१।।
ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् । तद्रूपगुणमाधुर्यप्रागल्भ्यस्मारिता इव ।।२२।।
एतौ भगवतः साक्षाद्धरेर्नारायणस्य हि । अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ।।२३।।
एष वै किल देवक्यां जातो नीतश्च गोकुलम् । कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि ।।२४।।
पूतनानेन नीतान्तं चक्रवातश्च दानवः । अर्जुनौ गुह्यकः केशी धेनुको।न्ये च तद्विधाः ।।२५।।
गावः सपाला एतेन दावाग्नेः परिमोचिताः । कालियो दमितः सर्प इन्द्रश्च विमदः कृतः ।।२६।।
सप्ताहमेकहस्तेन धृतो।द्रिप्रवरो।मुना । वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् ।।२ ७।।
गोप्यो।स्य नित्यमुदितहसितप्रेक्षणं मुखम् । पश्यन्त्यो विविधांस्तापांस्तरन्ति स्माश्रमं मुदा ।।२८।।
वदन्त्यनेन वंशो।यं यदोः सुबहुविश्रुतः । श्रियं यशो महत्त्वं च लप्स्यते परिरक्षितः ।।२९।।
अयं चास्याग्रजः श्रीमान् रामः कमललोचनः । प्रलम्बो निहतो येन वत्सको ये बकादयः ।।३०।।
जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च । कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ।।३१।।
हे नन्दसूनो हे राम भवन्तौ वीरसंमतौ । नियुद्धकुशलौ श्रुत्वा राज्ञा।।हूतौ दिदृक्षुणा ।।३२।।
प्रियं राज्ञाः प्रकुर्वन्त्यः श्रेयो विन्दन्ति वै प्रजाः । मनसा कर्मणा वाचा विपरीतमतो।न्यथा ।।३३।।
नित्यं प्रमुदिता गोपा वत्सपाला यथा स्फुटम् । वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः ।।३४।।
तस्माद् राज्ञाः प्रियं यूयं वयं च करवामहे । भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ।।३५।।
तन्निशम्याब्रवीत् कृष्णो देशकालोचितं वचः । नियुद्धमात्मनो।भीष्टं मन्यमानो।भिनन्द्य च
प्रजा भोजपतेरस्य वयं चापि वनेचराः । करवाम प्रियं नित्यं तन्नः परमनुग्रहः ।।३७।।
बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् । भवेन्नियुद्धं माधर्मः स्पृशेन्मल्ल सभासदः ।।३८।।
चाणूर उवाच
न बालो न किशोरस्त्वं बलश्च बलिनां वरः । लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ।।३९।।
तस्माद्बवद्बयां बलिभिर्योद्धव्यं नानयो।त्रवै । मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ।।४०।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम त्रिचत्वारिंशो।ध्यायः ।।४३।।