श्रीशुकउवाच
अथ व्रजन् राजपथेन माधवः स्त्रियं गृहीतांगविलेपभाजनाम् । विलोक्य कुब्जां युवतिं वराननां प्रपच्छ यांतीं प्रहसन् रसप्रदः ।।१।।
का त्वं वरोर्वेतदुहानुलेपनं कस्याङ्गने वा कथयस्व साधु नः । देह्यावयोरङ्गविलेपमुत्तमं श्रेयस्ततस्ते न चिराद् भविष्यति ।।२।।
सैरन्ध्रयुवाच
दास्यस्म्यहं सुन्दर कंससम्मता त्रिवक्रनामा ह्यनुलेपकर्मणि । मद्बावितं भोजपतेरतिप्रियं विना युवां को।न्यतमस्तदर्हति ।।३।।
रूपपेशलमाधुर्यहसितालापवीक्षितैः । धर्षितात्मा ददौ सान्द्रमुभयोरनुलेपनम् ।।४।।
ततस्तावङ्गरागेण स्ववर्णेतरशोभिना । सम्प्राप्तपरभागेन शुशुभाते।नुरञ्जितौ ।।५।।
प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ।।६।।
पद्भ्यामाक्रम्य प्रपदे द्वयङ्गुल्युत्तानपाणिना । प्रगृह्य चुबुके।ध्यात्ममुदनीनमदच्युतः ।।७।।
सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा । मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा ।।८।।
ततो रूपगुणौदार्यसम्पन्ना प्राह केशवम् । उत्तरीयान्तमाकृष्य स्मयन्ती जातहृच्छया ।।९।।
एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे । त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ।।१०।।
एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः । मुखं वीक्ष्यानुगानां च प्रहसंस्तामुवाच ह ।।११।।
एष्यामि ते गृहं सुभ्रूः पुंसामाधिविकर्शनम् । साधितार्थो।गृहाणां नः पान्थानां त्वं परायणम् ।।१२।।
विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वर्णिक्पथैः । नानोपायनताम्बुलस्रग्गन्धैः साग्रजो।र्चितः ।।१३।।
तद्दर्शनस्मरक्षोभादात्मानं नाविदन् स्त्रियः । विस्रस्तवासःकबरवलयालेख्यमूर्तयः ।।१४।।
ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः । तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रमिवाद्बुतम् ।।१५।।
पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्द्धिमत् । वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ।।१६।।
करेण वामेन सलीलमुद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् । नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षुदण्डं मदकर्युरुक्रमः ।।१७।।
धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः । पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ।।१८।।
तद्रक्षिणः सानुचराः कुपिता आततायिनः । ग्रहीतुकामा आवव्रुर्गृह्यतां बध्यतामिति ।।१९।।
अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ । क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः ।।२०।।
बलं च कंसप्रहितं हत्वा शालामुखात्ततः । निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः ।।२१।।
तयोस्तदद्बुतं वीर्यं निशाम्य पुरवासिनः । तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधौत्तमौ ।।२२।।
तयोर्विचरतोः स्वैरमादित्यो।स्तमुपेयिवान् । कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः ।।२३।।
गोप्यो मुकुन्दविगमे विरहातुरा या आशासताशिष ऋता मधुपुर्यभूवन् । सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान् नु भजतश्चकमे।यनं श्रीः ।।२४।।
अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ।।२५।।
कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च । वधं निशम्य गोविन्दरामविक्रीडितं परम् ।।२६।।
दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः । बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ।।२७।।
अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि । असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ।।२८।।
छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः । स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ।।२९।।
स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम् । यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बरः ।।३०।।
अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च । पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ।।३१।।
व्युष्टायां निशि कौरव्य सूर्ये चाद्बयः समुत्थिते । कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ।।३२।।
आनर्चुः पुरुषा रङ्गं तूर्यभेर्यश्च जघ्निरे । मञ्चाश्चालङ् कृताः स्रग्भिः पताकाचैलतोरणैः।।३३।।
तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः । यथोपजोषं विविशू राजानश्च कृतासनाः ।।३४।।
कंसः परिवृतो।मात्यै राजमञ्च उपाविशत् । मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ।।३५।।
वाद्यमानेषु तूर्येषु मल्लतालोत्तरेषु च । मल्लाः स्वलङ्कृता दृप्ताः सोपाध्यायाः समाविशन् ।।३६।।
चाणूरो मुष्टिकः कूटः शलस्तोशल एव च । त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः ।।३७ ।।
नंदगोपादयो गोपा भोजराजसमाहूताः । निवेदितोपायनास्ते एकस्मिन्मञ्च आविशन् ।।३८।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे मल्लरङ्गोपवर्णनं नाम द्विचत्वारिंशो।ध्यायः ।।४२।।