श्रीशुकउवाच
स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः । भूयः समाहरत् कृष्णो नटो नाटयमिवात्मनः।।१।।
सो।पि चान्तर्हितं वीक्ष्य जलादुन्मज्ज्य सत्वरः । कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् ।।२।।
तमपृच्छद्धृषीकेशः किं ते दृष्टमिहाद्बुतम् । भूमौ वियति तोये वा तथा त्वां लक्षयामहे ।।३।।
अक्रूर उवाच
अद्बुतानीह यावन्ति भूमौ वियति वा जले । त्वयि विश्वात्मके तानि किं मे।दृष्टं विपश्यतः ।।४।।
यत्राद्बुतानि सर्वाणि भूमौ वियति वा जले । तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टमिहाद्बुतम् ।।५।।
इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुतः । मथुरामनयद् रामं कृष्णं चैव दिनात्यये ।।६।।
मार्गे ग्रामजना राजंस्तत्र तत्रोपसंगताः । वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ।।७।।
तावद् व्रजौकसस्तत्र नन्दगोपादयो।ग्रतः । पुरोपवनमासाद्य प्रतीक्षन्तो।वतस्थिरे ।।८।।
तान् समेत्याह भगवानक्रूरं जगदीश्वरः । गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्निव ।।९।।
भवान् प्रविशतामग्रे सहयानः पुरीं गृहम् । वयं त्विहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ।।१०।।
अक्रूर उवाच
नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो । त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ।।११।।
आगच्छ याम गेहान् नः सनाथान् कुर्वधोक्षज । सहाग्रजः सगोपालैः सुहृद्बिश्च सुहृत्तम ।।१२।।
पुनीहि पादरजसा गृहान् नो गृहमेधिनाम् । यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ।।१३।।
अवनिज्यांघ्रियुगलमासीच्छ्लोक्यो बलिर्महान् । ऐश्वर्यमतुलं लेभे गतिं चैकान्तिनां तु या ।।१४।।
आपस्ते।ङ् घ्रयवनेजन्यस्त्रींल्लोकाञ्छुचयो।पुनन् । शिरसाधत्त याः शर्वः स्वर्याताः सगरात्मजाः ।।१५।।
देवदेव जगन्नाथ पुण्यश्रवणकीर्तन । यदूत्तमोत्तमश्लोक नारायण नमो।स्तु ते ।।१६।।
श्रीभगवानुवाच
आयास्ये भवतो गेहमहमार्यसमन्वितः । यदुचक्रद्रुहं हत्वा वितरष्ये सुहृत्प्रियम् ।।१७।।
श्रीशुक उवाच
एवमुक्तो भगवता सो।क्रूरो विमना इव । पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ ।।१८।।
अथापरो भगवान् कृष्णः सङ्कर्षणान्वितः । मथुरां प्राविशद् गोपैर्दिदृक्षुः परिवारितः ।।१९।।
ददर्श तां स्फाटिकतुङ्गगोपुरद्वारां बृहद्धेमकपाटतोरणाम् । ताम्रारकोष्ठां परिखादुरासदामुद्यानरम्योपवनोपशोभिताम् ।।२०।।
सौवर्णशृङ्गाटकहर्म्यनिष्कुटैः श्रेणीसभाभिर्भवनैरुपस्कृताम् । वैदूर्यवज्रामलनीलविद्रुमैर्मुक्ताहरिद्बिर्वलभीषु वेदिषु ।।२१।।
जुष्टेषु जालामुखरन्ध्रकुट्टिमेष्वाविष्टपारावतबर्हिनादिताम् । संसिक्तरथ्यापणमार्गचत्वरां प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् ।।२२।।
आपूर्णकुम्भैर्दधिचन्दनोक्षितैः प्रसूनदीपावलिभिः सपल्लवैः । सवृन्दरम्भाक्रमुकैः सकेतुभिः स्वलङ्कृतद्वारगृहां सपट्टिकैः ।।२३।।
तां सम्प्रविष्टौ वसुदेवनन्दनौ वृतौ वयस्यैर्नरदेववर्त्मना । द्रष्टुं समीयुस्त्वरिताः पुरस्त्रियो हर्म्याणि चैवारुरुहुर्नृपोत्सुकाः ।।२४।।
काश्चिद् विपर्यग्धृतवस्त्रभूषणा विस्मृत्य चैकं युगलेष्वथापराः । कृतैकपत्रश्रवणैकनूपुरा नाङ् क्त्वा द्वितीयं त्वपराश्च लोचनम् ।।२५।।
अश्नन्त्य एकास्तदपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः । स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्यो।र्भमपोह्य मातरः ।।२६।।
मनांसि तासामरविन्दलोचनः प्रगल्भलीलाहसितावलोकनैः । जहार मत्तद्विरदेन्द्रविक्रमो दृशां ददच्छ्रीरमणात्मनोत्सवम् ।।२ ७ ।।
दृा मुहुःश्रुतमनुद्रुतचेतसस्तं तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः । आनन्दमूर्तिमुपगृह्य दृशा।।त्मलब्धं हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम् ।।२८।।
प्रासादशिखरारुढाः प्रीत्युत्फुल्लमुखाम्बुजाः । अभ्यवर्षन् सौमनस्यै प्रमदा बलकेशवौ ।।२९।।
दध्यक्षतैः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः । तावानर्चुः प्रमुदितास्तत्र तत्र द्विजातयः ।।३०।।
ऊचुः पौरा अहो गोप्यस्तपः किमचरन् महत् । या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ ।।३१।।
रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः । दृायाचत वासांसि धौतान्यत्युत्तमानि च ।।३२।।
देह्यावयोः समुचितान्यङ्ग वासांसि चार्हतोः । भविष्यति परं श्रेयो दातुस्ते नात्र संशयः ।।३३।।
स याचितो भगवता परिपूर्णेन सर्वतः । साक्षेपं रुषितः प्राह भृत्यो राज्ञाः सुदुर्मदः ।।३४।।
ईदृशान्येव वासांसि नित्यं गिरिवनेचराः । परिधत्त किमुद्वृत्ता राजद्रव्याण्यभीप्सथ ।।३५।।
याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीविषा । बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि वै ।।३६।।
एवं विकत्थमानस्य कुपितो देवकीसुतः । रजकस्य कराग्रेण शिरः कायादपातयत् ।।३७।।
तस्यानुजीविनः सर्वे वासः कोशान् विसृज्य वै । दुद्रुवुः सर्वतो मार्गं वासांसि जगृहे।च्युतः ।।३८।।
वसित्वा।।त्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस्तथा । शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित् ।।३९।।
ततस्तु वायकः प्रीतस्तयोर्वेषमकल्पयत् । विचित्रवर्णैश्चैलेयैराकल्पैरनुरूपतः ।।४०।।
नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः । स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ ।।४१।।
तस्य प्रसन्नो भगवान् प्रादात् सारूप्यमात्मनः । श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम् ।।४२।।
ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः । तौ दृा स समुत्थाय ननाम शिरसा भुवि ।।४३।।
तयोरासनमानीय पाद्यं चार्घ्यार्हणादिभिः । पूजां सानुगयोश्चक्रे स्रक्ताम्बूलानुलेपनैः ।।४४।।
प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो । पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् ।।४५।।
भवन्तौ किल विश्वस्य जगतः कारणं परम् । अवतीर्णाविहांशेन क्षेमाय च भवाय च ।।४६।।
न हि वां विषमा दृष्टिः सुहृदोर्जगदात्मनोः । समयोः सर्वभूतेषु भजन्तं भजतोरपि ।।४७।।
तावाज्ञापयतं भृत्यं किमहं करवाणि वाम् । पुंसो।त्यनुग्रहो ह्येष भवद्बिर्यन्नियुज्यते ।।४८।।
इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः । शस्तैः सुगन्धैः कुसुमैर्माला विरचिता ददौ ।।४९।।
ताभिः स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ । प्रणताय प्रपन्नाय ददतुर्वरदौ वरान् ।।५०।।
सो।पि वव्रे।चलां भक्तिं तस्मिन्नेवाखिलात्मनि । तद्बक्तेषु च सौहार्दं भूतेषु च दयां पराम् ।।५१।।
इति तस्मै वरं दत्वा श्रियं चान्वयवर्धिनीम् । बलमायुर्यशः कांतिं निर्जगाम सहाग्रजः ।।५२।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नाम एकत्वारिंशो।ध्यायः ।।४१।।