अक्रूर उवाच
नतो।स्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम् । यन्नाभिजातादरविंदकोशाद् ब्रह्मा।।विरासीद् यत एष लोकः ।।१।।
भूस्तोयमग्निः पवनः खमादिर्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतो।ङ्गभूताः ।।२।।
नैते स्वरूपं विदुरात्मनस्ते ह्यजादयो।नात्मतया गृहीताः । अजो।नुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ।।३।।
त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधवः ।।४।।
त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः । यजन्ते विततैर्यज्ञौर्नानारूपामराख्यया ।।५।।
एके त्वाखिलकर्माणि संन्यस्योपशमं गताः । ज्ञानिनो ज्ञानयज्ञोन यजन्ति ज्ञानविग्रहम् ।।६।।
अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते । यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ।।७।।
त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् । बह्वाचार्यविभेदेन भगवन् समुपासते ।।८।।
सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् । ये।प्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ।।९।।
यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो । विशन्ति सर्वतः सिन्धुं तद्वत्त्वां गतयो।न्ततः ।।१०।।
सत्त्वं रजस्तम इति भवतः प्रकृतेर्गुणाः । तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः ।।११।।
तुभ्यं नमस्ते।स्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहो।यमविद्यया कृतः प्रवर्तते देवनृतिर्यगात्मसु ।।१२।।
अग्निर्मुखं ते।वनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः । द्यौः कं सुरेन्द्रास्तव बाहवो।र्णवाः कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ।।१३।।
रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थिनखानि ते।द्रयः । निमेषणं रात्र्यहनी प्रजापतिर्मेढ्स्तु वृष्टिस्तव वीर्यमिष्यते ।।१४।।
त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसो।प्युदुम्बरे वा मशका मनोमये ।।१५।।
यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि । तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ।।१६।।
नमः कारणमत्स्याय प्रलयाब्धिचराय च । हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ।।१७।।
अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्युद्धारविहाराय नमः सूकरमूर्तये ।।१८।।
नमस्ते।द्बुतसिंहाय साधुलोकभयापह । वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ।।१९।।
नमो भृगूणां पतये दृप्तक्षत्रवनच्छिदे । नमस्ते रघुवर्याय रावणान्तकराय च ।।२०।।
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ।।२१।।
नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने । म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ।।२२।।
भगवञ्जीवलोको।यं मोहितस्तव मायया । अहंममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ।।२३।।
अहं चात्मात्मजागारदारार्थस्वजनादिषु । भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो ।।२४।।
अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम् । द्वन्द्वारामस्तमोविष्टो न जाने त्वा।।त्मनः प्रियम् ।।२५
यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्बवैः । अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्गमुखः ।।२६
नोत्सहे।हं कृपणधीः कामकर्महतं मनः । रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्ततः ।।२७।।
सो।हं तवाङ् घ्रयुपगतो।स्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रह ईश मन्ये । पुंसो भवेद् यर्हि संसरणापवर्गस्त्वय्यब्जनाभ सदुपासनया मतिः स्यात् ।।२८।।
नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे । पुरुषेशप्रधानाय ब्रह्मणे।नन्तशक्तये ।।२९।।
नमस्ते वासुदेवाय सर्वभूतक्षयाय च । हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ।।३०।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरस्तुतिर्नाम चत्वारिंशो।ध्यायः ।।४०।।