श्री शुक उवाच
गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् । तत्राजग्मुः कुरुश्रेष्ठ! निर्घातभयशङ्किताः ।।१।।
भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ । बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ।।२।।
उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् । कस्येदं कुत आश्चर्यमुत्पात इति कातराः ।।३।।
बाला ऊचुरनेनेति तिर्यग्गतमुलूखलम् । विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि ।।४।।
न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत् । बालस्योत्पाटनं तर्वोः केचित् सन्दिग्धचेतसः ।।५।।
उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् । विलोक्य नन्दः प्रहसद्वदनो विमुमोच ह ।।६।।
गोपीभिः स्तोभितो।नृत्यद् भगवान् बालवत् क्व चित् । उग्दायति क्व चिन्मुग्धस्तद्वशो दारुयन्त्रवत् ।।७।।
बिभर्ति क्व चिदाज्ञाप्तः पीठकोन्मानपादुकम् । बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ।।८।।
दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् । व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः ।।९।।
क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः । फलार्थी धान्यमादाय ययौ सर्वफलप्रदः ।।१०।।
फलविक्रयिणी तस्य च्युतधान्यं करद्वयम् । फलैरपूरयद् रत्नैः फलभाण्डमपूरि च ।।११।।
सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् । रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम् ।।१२।।
नोपेयातां यदा।।हूतौ क्रीडासङ्गेन पुत्रकौ । यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ।।१३।।
क्रीडन्तं सा सुतं बालैरतिवेलं सहाग्रजम् । यशोदाजोहवीत् कृष्णं पुत्रस्नेह्स्नुतस्तनी ।।१४।।
कृष्ण! कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तो।सि पुत्रक! ।।१५।।
हे रामागच्छ ताताशु सानुजः कुलनन्दन! । प्रातरेव कृताहारस्तद् भवान् भोक्तुमर्हति ।।१६।।
प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः । एह्यावयोः प्रियं धेहि स्वगृहान् यात बालकाः ।।१७।।
धूलिधूसरिताङ्गस्त्वं पुत्र! मज्जनमावह । जन्मर्क्षमद्य भवतो विप्रेभ्यो देहि गाः शुचिः ।।१८।।
पश्य पश्य वयस्यांस्ते मातृमृष्टान् स्वलंकृतान् । त्वं च स्नतः कृताहारो विहरस्व स्वलंकृतः ।।१९।।
इत्थं यशोदा तमशेषशेखरं मत्वा सुतं स्नेह्निबद्धधीर्नृप! । हस्ते गृहीत्वा सहराममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम् ।।२०।।
गोपवृद्धा महोत्पाताननुभूय बृहद्वने । नन्दादयः समागम्य व्रजकार्यममन्त्रयन् ।।२१।।
तत्रोपनन्दनामा।।ह गोपो ज्ञानवयो।धिकः । देशकालार्थतत्त्वज्ञाः प्रियकृद् रामकृष्णयोः २२।।
उत्थातव्यमितो।स्माभिर्गोकुलस्य हितैषिभिः । आयान्त्यत्र महोत्पाता बालानां नाशहेतवः ।।२३।।
मुक्तः कथञ्चिद् राक्षस्या बालघ्न्या बालकोह्यसौ । हरेरनुग्रहान्नूनमनश्चोपरि नापतत् ।।२४।।
चक्रवातेन नीतो।यं दैत्येन विपदं वियत् । शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः ।।२५।।
यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालकः । असावन्यतमो वापि तदप्यच्युतरक्षणम् ।।२६।।
यावदौत्पातिको।रिष्टो व्रजं नाभिभवेदितः । तावद् बालानुपादाय यास्यामो।न्यत्र सानुगाः ।।२७।।
वनं वृन्दावनं नाम पशव्यं नवकाननम् । गोपगोपीगवां सेव्यं पुण्याद्रितृणवीरुधम् ।।२८।।
तत्तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् । गोधनान्यग्रतो यान्तु भवतां यदि रोचते ।।२९।।
तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः । व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः ।।३०।।
वृद्धान बालान् स्त्रियो राजन् सर्वोपकरणानि च । अनःस्वारोप्य गोपाला यत्ता आत्तशरासनाः ।।३१।।
गोधनानि पुरस्कृत्य शृङ्गाण्यापूर्य सर्वतः । तूर्यघोषेण महता ययुः सहपुरोहिताः ।।३२।।
गोप्यो रूढरथा नूत्नकुचकुङ्कुमकान्तयः । कृष्णलीला जगुः प्रीता निष्ककण्ठयः सुवाससः ।।३३।।
तथा यशोदारोहिण्यावेकं शकटमास्थिते । रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ।।३४।।
वृन्दावनं संप्रविश्य सर्वकालसुखावहम् । तत्र चक्रुर्व्रजावासं शकटैरर्धचन्द्रवत् ।।३५।।
वृन्दावनं गोवर्धनं यमुनापुलिनानि च । वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप! ।।३६।।
एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः । कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ।।३७।।
अविदूरे व्रजभुवः सह गोपालदारकैः । चारयामासतुर्वत्सान् नानाक्रीडापरिच्छदौ ।।३८।।
क्व चिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्व चित् । क्व चित् पादैः किङ्किणीभिः क्व चित् कृत्रिमगोवृषैः ।।३९।।
वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर्जन्तूंश्चेरतुः प्राकृतौ यथा ।।४०।।
कदाचिद् यमुनातीरे वत्सांश्चारयतो स्वकैः । वयस्यैःकृष्णबलयोर्जिघांसुर्दैत्य आगमत् ।।४१।।
तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः । दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ।।४२।।
गृहीत्वापरपादाभ्यां सहलाङ्गूलमच्युतः । भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गतजीवितम् । स कपित्थैर्महाकायः पात्यमानैः पपात ह ।।४३।।
तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति । देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः ।।४४।।
तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ । स प्रातराशौ गोवत्सांश्चारयन्तौ विचेरतुः ।।४५।।
स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ।।४६।।
ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् । तत्रसुर्वज्रनिर्भिन्नं गिरेः शृङ्गमिव च्युतम् ।।४७।।
स वै बको नाम महानसुरो बकरूपधृक् । आगत्य सहसा कृष्णं तीक्ष्णतुण्डो।ग्रसद् बली ।।४८।।
कृष्णं महाबकग्रस्तं दृा रामादयो।र्भकाः । बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ।।४९।।
तं तालुमूलं प्रदहन्तमग्निवद् गोपालसूनुं पितरं जगग्दुरोः । चच्छर्द सद्यो।तिरुषाक्षतं बकस्तुण्डेन हन्तुं पुनरभ्यपद्यत ।।५०।।
तमापतन्तं स निगृह्य तुण्डयोर्दोर्भ्यां बकं कंससखं सतां पतिः ।पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् ।।५१।।
तदा बकारिं सुरलोकवासिनः समाकिरन् नन्दनमल्लिकादिभिः । समीडिरे चानकशङ्खसंस्तवैस्तद् वीक्ष्य गोपालसुता विसिस्मिरे ।।५२।।
मुक्तं बकास्यादुपलभ्य बालका रामादयः प्राणमिवैन्द्रियो गणः । स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजमेत्य तज्जगुः ।।५३।।
श्रुत्वा तद् विस्मिता गोपा गोप्यश्चातिप्रियादृताः । प्रेत्यागतमिवौत्सुक्यादैक्षन्त तृषितेक्षणाः ।।५४।।
अहो बतास्य बालस्य बहवो मृत्यवो।भवन् । अप्यासीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ।।५५।।
अथाप्यभिभवन्त्येनं नैव ते घोरदर्शनाः जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् ।।५६।।
अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यदाह भगवानन्वभावि तथैव तत् ।।५७।।
इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ।।५८।।
एवं विहारैः कौमारैः क ौमारं जहतुर्व्रजे । निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ।।५९।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वत्सबकवधोनामैकादशो।ध्यायः ।।११।।