द्वादशो।ध्यायः

श्री शुक उवाच
क्वचिद्वनाशाय मनो दधद्व्रजात्प्रातः समुत्थाय वयस्यबत्सपान् । प्रबोधयन् शृंगरवेण चारुणा विनिर्गतो वत्सपुरस्सरो हरिः ।।१।।

तेनैव साकं पृथुकाः सहस्रशः स्न्ग्धिाः सुशिग्वेत्रविषाणवेणवः । स्वान् स्वान् सहस्रोपरिसंख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ।।२।।

कृष्णवत्सैरसंख्यातैर्यूथीकृत्य स्ववत्सकान् । चारयन्तो।र्भलीलाभिर्विजह्रुस्तत्र तत्र ह ।।३।।

फलप्रवालस्तबकसुमनःपिच्छधातुभिः । काचगुञ्जामणिस्वर्णभूषिता अप्यभूषयन् ।।४।।

मुष्णन्तो।न्योन्यशिक्यादीन्ज्ञातानाराच्च चिक्षिपुः । तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददुः ।।५।।

यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् । अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे ।।६।।

केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन । केचिद् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ।।७।।

विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः । बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभिः ।।८।।

विकर्षन्तः कीशबालानारोहन्तश्च तैर्द्रुमान् । विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ।।९।।

साकं भेकैर्विलङ्घन्तः सरित्प्रस्रवसम्प्लुताः । विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् ।।१०।।

इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन ।मायाश्रितानां नरदारकेण साकं विजह्रुः कृतपुण्यपुञ्जाः ।।११।।

यत्पादपांसुर्बहुजन्मकृच्छ्रतो धृतात्मभिर्योगिभिरप्यलभ्यः । स एव यद्दृग्विषयः स्वयं स्थितः किं वर्ण्यते दिष्टमतो व्रजौकसाम् ।।१२।।

अथाघनामाभ्यपतन्महासुरस्तेषां सुखक्रीडनवीक्षणाक्षमः । नित्यं यदन्तर्निजजीवितेप्सुभिः पीतामृतैरप्यमरैः प्रतीक्ष्यते ।।१३।।

दृार्भकान् कृष्णमुखानघासुरः कंसानुशिष्टः स बकीबकानुजः । अयं तु मे सोदरनाशकृत्तयोर्द्वयोर्ममैनं सबलं हनिष्ये ।।१४।।

एते यदा मत्सुहृदोस्तिलापः कृतास्तदा नष्टसमा व्रजौकसः । प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राणभूतो हि ये ते ।।१५।।

इति व्यवस्याजगरं बृहद् वपुः स योजनायाममहाद्रिपीवरम् । धृत्वाद्बुतं व्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः ।।१६।।

धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिशृङ्गदंष्ट्रः । ध्वान्तान्तरास्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः ।।१७।।

दृा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम् । व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ।।१८।।

अहो मित्राणि गदत सत्त्वकूटं पुरः स्थितम् । अस्मत्संग्रसनव्यात्तव्यालतुण्डायते न वा ।।१९।।

सत्यमर्ककरारक्तमुत्तराहनुवद् घनम् । अधराहनुवद् रोधस्तत्प्रतिच्छाययारुणम् ।।२०।।

प्रतिस्पर्धेते सृक्किभ्यां सव्यासव्ये नगोदरे । तुङ्गशृङ्गालयो।प्येतास्तद्दंष्ट्राभिश्च पश्यत ।।२१।।

आस्तृतायाममार्गो।यं रसनां प्रतिगर्जति । एषामन्तर्गतं ध्वान्तमेतदप्यन्तराननम् ।।२२।।

दावोष्णखरवातो।यं श्वासवद् भाति पश्यत । तद्दग्धसत्त्वदुर्गन्धो।प्यन्तरामिषगन्धवत् ।।२३।।

अस्मान् किमत्र ग्रसिता निविष्टानयं तथा चेद् बकवद् विनङ्क्ष्यति । क्षणादनेनेति बकार्युशन्मुखं वीक्ष्योद्धसन्तः करताडनैर्ययुः ।।२४।।

इत्थं मिथो।तथ्यमतज्ज्ञाभाषितं श्रुत्वा विचिन्त्येत्यमृषा मृषायते । रक्षो विदित्वाखिलभूतहृत्स्थितः स्वानां निरोद्धुं भगवान् मनो दधे ।।२५।।

तावत् प्रविष्टास्त्वसुरोदरान्तरं परं न गीर्णाः शिशवः सवत्साः ।प्रतीक्षमाणेन बकारिवेशनं हतस्वकान्तस्मरणेन रक्षसा ।।२६।।

तान् विक्ष्य कृष्णः सकलाभयप्रदो ह्यनन्यनाथान् स्वकरादवच्युतान् । दीनांश्च मृत्योर्जठराग्निघासान् घृणार्दितो दिष्टकृतेन विस्मितः ।।२७।।

कृत्यं किमत्रास्य खलस्य जीवनं न वा अमीषां च सतां विहिंसनम् । द्वयं कथं स्यादिति संविचिन्त्य तज्ज्ञात्वाविशत्तुण्डमशेषदृग्घरिः ।।२८।।

तदा घनच्छदा देवा भयाद्धाहेति चुक्रुशुः । जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः ।।२९।।

तच्छ्रुत्वा भगवान् कृष्णस्त्वव्ययः सार्भवत्सकम् । चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ।।३०।।

ततो।तिकायस्य निरुद्धमार्गिणो ह्युग्दीर्णदृष्टेर्भ्रमतस्त्वितस्ततः । पूर्णो।न्तरङ्गे पवनो निरुद्धो मूर्धन् विनिष्पाटय विनिर्गतो बहिः ।।३१।।

तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान् सुहृदः परेतान् । दृष्टया स्वयोत्थाप्य तदन्वितः पुनर्वक्त्रान्मुकुन्दो भगवान् विनिर्ययौ ।।३२।।

पीनाहिभोगोत्थितमद्बुतं महज्ज्योतिः स्वधाम्ना ज्वलयद् दिशो दश । प्रतीक्ष्य खे।वस्थितमीशनिर्गमं विवेश तस्मिन् मिषतां दिवौकसाम् ।।३३।।

ततो।तिहृष्टाः स्वकृतो।कृतार्हणं पुष्पैः सुरां अप्सरसश्च नर्तनैः । गीतैः सुगा वाद्यधराश्च वाद्यकैः स्तवैश्च विप्रा जयनिःस्वनैर्गणाः ।।३४।।

तदद्बुतस्तोत्रसुवाद्यगीतिकाजयादिनैकोत्सवमङ्गलस्वनान् । श्रुत्वा स्वधाम्नो।न्त्यज आगतो।चिराद् दृा महीशस्य जगाम विस्मयम् ।।३५।।

राजन्नाजगरं चर्म शुष्कं वृन्दावने।द्बुतम् । व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ।।३६।।

एतत् कौमारजं कर्म हरेरात्माहिमोक्षणम् । मृत्योः पौगण्डके बाला दृोचुर्विस्मिता व्रजे ।।३७।।

नैतद् विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः । अघो।पि यत्स्पर्शनधौतपातकः प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ।।३८।।

सकृद् यदङ्गप्रतिमान्तराहिता मनोमयी भागवतीं ददौ गतिम् । स एव नित्यात्मसुखानुभूत्यभिव्युदस्तमायो।न्तर्गतो हि किं पुनः ।।३९।।

सूत उवाच

इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम् ।पप्रच्छ भूयो।पि तदेव पुण्यं वैयासकिं यन्निगृहीतचेताः ।।४०।।

राजोवाच
ब्रह्मन्! कालान्तरकृतं तत्कालीनं कथं भवेत् । यत् कौमारे हरिकृतं जगुः पौगण्डके।र्भकाः ।।४१।।

तद् ब्रूहि मे महायोगिन् परं कौतूहलं गुरो । नूनमेतद्धरेरेव माया भवति नान्यथा ।।४२।।

वयं धन्यतमा लोके गुरो।पि क्षत्रबन्धवः । यत् पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् ।।४३।।

सूत उवाच -
इत्थं स्म पृष्टः स तु बादरायणिस्तत्स्मारितानन्तहृता।खिलेंद्रियः । कृच्छ्रात्पुनर्लब्धबहिर्दृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तम! ।।४४।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे द्वादशो।ध्यायः ।।१२।।