सुव्रत उवाच -
इति श्रुत्वा भगवतो वाक्यं राजा स उत्तमः । प्रहृष्टमानसो भूप ! प्रणनाम तमीश्वरम् ।। १
देशकालानुकूल्ये च पुरश्चर्यां द्विजोत्तमैः । स्वयमैच्छत्कारयितुं श्रीमद्बागवतस्य सः ।। २
ततः स भगवांस्तत्र कारयामास मण्डपम् । विचित्रवर्णैर्वसनै रम्भास्तम्भैश्च शोभितम् ।। ३
ततो द्वितीये दिवसे विधाय प्रातराह्निकम् । तस्मिन्च्यासासनं रम्यं कारयामास मण्डपे ।। ४
पौराणिकं समाहूय पूर्वोक्तविधिनैव तम् । उपवेश्यासने चार्चत्पुस्तकार्चनपूर्वकम् ।। ५
तस्मै वासांसि नूत्नानि बहुमूल्यानि स प्रभुः । कौशेयानि च सूक्ष्माणि प्रारम्भसमये ददौ ।। ६
कुण्डले कटके हैमे प्रादाद्धैमोर्मिकाः शुभाः । ततः पुराणप्रारम्भं कारयामास स प्रभुः ।। ७
रामप्रतापेच्छारामौ हरेरन्तिक आसने । निषेदतुरुभौ बन्धू श्रोतृधर्मस्थितौ नृप ! ।। ८
यथोचितं सभायां च निषेदुस्तत्र पार्षदाः । उत्तमप्रमुखा भूषा मुकुन्दाद्याश्च वर्णिनः ।। ९
मुक्तानन्दाद्या मुनयो निषेदुस्तत्र संसदि । जयारमादयो योषा निषेदुश्चैकतोऽखिलाः ।। १०
सर्वेऽपि तत्र श्रोतारः सात्त्विकैर्लक्षणैर्युताः । आसन्सुशिक्षितास्ते वै प्रागेव हरिणा निजाः ।। ११
सर्वज्ञोऽपि हरिस्तत्र नृनाटयमनुशीलयन् । सुश्रावेतरवत्साक्षात्स्वयं धर्मप्रवर्तकः ।। १२
अध्यात्मभागं कठिनं तत्र स्वानुभवेन सः । क्वचित्क्वचिद्विशदयन् वक्तृश्रोतृनमूमुदत् ।। १३
कथान्ते कीर्तनं कृत्वा श्रोतृभिः सह स प्रभुः । नाम्नां भगवतोऽथाह तं पौराणिकमुत्तमम् ।। १४
अस्मन्मोदिवणिग्गेहादामान्नं स्वेप्सितं त्वया । ग्रहीतव्यं द्विजश्रेष्ठ घृतं सितशर्करा ।। १५
नित्यं च लडुकाद्येव यथेष्टं भोजनं त्वया । कर्तव्यं हि श्रमो यस्मात्कर्तव्योऽस्ति तवान्वहम् ।। १६
प्रातः कर्तुं पयःपानं धेनुद्वन्द्वं गृहाण च । इत्युक्त्वा स पयस्विन्यौ धेनू तस्मै ददादुभे ।। १७
ततः पौराणिकः प्राह स्वामिन्नाज्ञां तवान्वहम् । एवमेव कृपानाथ ! पालयिष्ये न संशयः ।। १८
किञ्चिद्वयञ्जनसामग्रया आनुकूल्यं भवेद्यदि । तदा तु सम्यगाज्ञायाः पालनं स्यात्तव प्रभो ! ।। १९
तदान्तिकस्थं स प्राह प्रहसन्वृद्धमालिकम् । अस्येप्सितं त्वया शाकं नित्यं देयमिति प्रभुः ।। २०
तदा स ब्राह्मणो हृष्टो जातं जातं प्रभोऽखिलम् । वदन्नित्थं तमानम्य जगाम स्वालयं ततः ।। २१
कथां स प्रत्यहं शृण्वन्भक्तानान्दयन् हरिः । समाप्ते श्रीभागवते प्रागुक्तमकरोद्विधिम् ।। २२
वस्त्रदाने वाचकाय हेममुद्रार्पणे च सः । स्वयं स्वसदृशो नूनमुल्लङ्घयैव विधि बभौ ।। २३
कृतं भगवता तेन सन्मानं वाचकस्य तु । श्रुत्वाऽपुर्विस्मयं सर्वे भुवि भूपतयोऽपि च ।। २४
अन्यानपि द्विजांस्तत्र समायातान् स ईश्वरः । कामवर्षीव पर्जन्यो दक्षिणाभिरतोषयत् ।। २५
श्रीमद्बागवतं श्रुत्वा मासेनैकेन स प्रभुः । शुश्राव दशमं स्कन्धं पञ्चमं च विशेषतः ।। २६
मासद्वयेन तौ श्रुत्वा ततः फाल्गुनमासि सः । सम्भारेणैव महता चक्रे दोलोत्सवं हरिः ।। २७
ततः स भगवग्दीतां भाष्योपेतां नृपाशृणोत् । तावच्च नवमी प्राप्ता चैत्रशुक्लातिपावनी ।। २८
देशान्तरेभ्यो बहवस्तत्राजग्मुस्तदुत्सवे । पुरुषाः सस्त्रियो भक्ता मुनयश्च सहस्रशः ।। २९
महद्बिरेव सम्भारैरुत्सवं प्रीतये प्रभोः । उत्तमः कारयामास राजा निष्कपटान्तरः ।। ३०
समाप्तेऽथोत्सवे तस्मिन्स्वदेशान्प्रति प्रभुः । भक्तान्प्रस्थाप्य च पुनः कथारम्भमचीकरत् ।। ३१
विष्णोः सहसनामाख्यं स्तोत्रं भाष्योपबृंहितम् । शुश्रावाथ त्रयोदश्यां कृष्णायां तत्समापयत् ।। ३२
वैशाखाद्यप्रतिपदि कूर्मजन्ममहोत्सवम् । कृत्वा पुनर्द्वितीयायां कथारम्भमचीकरत् ।। ३३
स्कान्दवैष्णवखण्डस्थं शुश्राव सकलं मुदा । श्रीवासुदेवमाहात्म्यं मासेनैकेन स प्रभुः ।। ३४
आद्यज्येष्ठद्वितीयातो मासेनैकेन सांघ्रिणा । शुश्राव सामवेदस्य पारायणमसौ हरिः ।। ३५
ज्येष्ठशुक्लदशम्यां स कृत्वा गङ्गार्चनोत्सवम् । मध्याह्नेऽथापरोऽस्य समापनमकारयत् ।। ३६
एकादश्यां निर्जलायां प्रारम्भन्मिताक्षराम् । शृण्वंस्तां च नभःशुक्लतृतीयायां समापयत् ।। ३७
चतुर्थ्यो श्रीवराहस्य प्रादुर्भावमहोत्सवम् । कृत्वा मध्याह्नसमये साधून्विप्रानभोजयत् ।। ३८
ततश्च नागपञ्चभ्यां नयं वैदुरिकं हरिः । श्रोतुमारम्भयामास भक्तानानन्दयन्नृप ! ।। ३९
श्रावण्यां पौर्णमास्यां तं रक्षाबन्धोत्तरं हरिः । समाप्य वस्त्रभूषाद्यैस्तोषयामास वाचकम् ।। ४०
इत्थं श्री वासुदेवो निजजननयनानन्दपूर्णेन्दुवक्त्रो,
मानुष्यं नाटयन्स्वं सकलमपि भुवि स्थापयन्नेव धर्मम् ।
स्वीयानां हृद्दरीभ्यः कलिबलसहितं दुर्जयं चाप्यधर्मं,
मूलादुत्पाटयंश्चाप्रथत मुनिगुरुः स्वामिनारायणाख्यः ।। ४१ ।।
इति श्री सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पुराणश्रवणोत्सवे श्रीमद्बागवतादिसच्छास्त्रश्रवणावाचकसन्माननिरूपणनामा नवमोऽध्यायः ।। ९ ।।