अष्टमोऽध्यायः

श्रीनारायणमुनिरुवाच -

श्रीमद्बागवतस्याथ पुरश्चर्याविधिं ब्रुवे । यया सिद्धयति राजर्षे ! पुरुषार्थचतुष्टयम् ।। १

श्लोकार्धे श्लोकपादं वा नित्यं भागवतं पठेत् । यः पुमान्सोऽपि संसारान्मुच्यते किमुताखिलम् ।। २

एषा बुद्धिमतां बुद्धिर्यद्बागवतमादरात् । नित्यं पठेद्यथाशक्ति यतः स्यात्संसृतिक्षयः ।। ३

अशक्तो नित्यपठने मासे वर्षेऽपि वैकदा । पालयन्नियमान्भक्तय श्रीमद्बागवतं पठेत् ।। ४

एकाहेनैव शक्तस्तु द्वयहेनाथ त्र्यहेण वा । पञ्चभिर्दिवसैः षड्भिसप्तभिर्वा पठेत्पुमान् ।। ५

दशाहेनाथ पक्षेण मासेन ऋतुनापि वा । पठेद्बागवतं यस्तु भुक्तिं मुक्तिं स विन्दति ।। ६

एतेष्वप्युत्तमः पक्षः सप्ताहो बहुसम्मतः । सकामैर्वापि निष्कामैः श्रयणीयः स एव हि ।। ७

तत्रापि पठनीयानामध्यायानां दिनेदिने । जमदग्निप्रणीतां ते सङ्खयां वच्मि सुखावहाम् ।। ८

अष्टचत्वारिंशदुक्ताः प्रथमेऽह्नि द्वितीयके । एकपञ्चाशदेकोनपञ्चाशच्च तृतीयके ।। ९

अध्यायाश्च चतुर्थेऽहि त्रिपञ्चारादुदीरिताः । ततश्चैकोनपञ्चाशत् पठनीया हि पञ्चमे ।। १०

एकचत्वारिंशदुक्ताः षष्ठेऽध्यायाश्च सप्तमे । चतुश्चत्वारिंशदित्थं वाचनीयाः क्रमेण वै ।। ११

सर्वे मासा विना पौषं पुरश्चरणकर्मणि । मताः सन्ति तथा वाराः शनिभौमौ विनाऽखिलाः ।। १२

आद्याचतुर्थ्यष्टमीश्च विहाय च चतुर्दशीम् । श्रीमद्बागवतारम्भे तिथयोऽप्यखिलाः शुभाः ।। १३

अश्विनी रेवती हस्तः पुष्यो मृगपुनर्वसू । अनुराधाभिजित्स्वाती रोहिणी श्रवणात्त्रयम् ।। १४

ऋक्षाण्येतानि पुण्यानि ग्राह्याण्यत्रोदितानि वै । पुरश्चर्यासमारम्भः कर्तव्यस्तेषु भूपते ! ।। १५

शुभे मुहूर्ते वरयेत्पूर्वोक्तैर्वक्तृलक्षणैः । सम्पन्नान्ब्राह्मणान्पञ्च चतुर्वर्गस्य सिद्धये ।। १६

श्वेतानि नित्यधार्याणि तेभ्यो वस्त्राणि चोर्मिकाः । हैमीर्दद्याञ्चासनानि जलपात्राणि कम्बलान् ।। १७

शुश्रूषायां नियुञ्जीत तेषामन्यान्द्विजांस्ततः । उष्णोदकं च पाकादि कुर्युस्ते चाङ्गमर्दनम् ।। १८

देवालये प्रसिद्धे वा पुण्यक्षेत्रे पुरातने । पुरश्चरणस्यारम्भः कर्तव्यो हरिमन्दिरे ।। १९

स्थापयित्वाथ वा हैमीं श्रीकृष्णप्रतिमां गृहे । कुर्युः पारायणं विप्रा यथानियतमन्वहम् ।। २०

अष्टाधिकशतेनैव पुरश्चरणमीरितम् । पारायणानां नृपते ! श्रीमद्बागवतस्य हि ।। २१

पूर्वोक्ताध्यायपूर्तौ च कार्यैव विरतिश्च तैः । स्पष्टाक्षरं वाचनयं भाषणीयं न केनचित् ।। २२

न वृतैर्ब्राणैर्ग्राह्या दक्षिणान्यस्य कस्यचित् । न चान्नवस्त्राद्यपि वा ग्रहीतव्यं कदाचन ।। २३

एकैकस्मिंश्च सप्ताहे समाप्ते सति दक्षिणाम् । सुवर्णसप्तकं दद्यादेकैकस्मै पृथक् पृथक् ।। २४

नियतानां संहितानां पाठान्ते वाखिला अपि । एकीकृत्यैव दद्यात्ता दक्षिणास्तु पृथक् पृथक् ।। २५

सुवर्णसप्तकं दातुमसमर्थस्तु पूरुषः । दद्यात्तदर्धं विप्रेभ्यस्तदर्धं वाल्पवित्तवान् ।। २६

कनिष्ठां दक्षिणां दातुमपि शक्तो न यो भवेत् । स विप्राच्छ्रमयेन्नैव कुर्यादन्यत्स्वशक्तितः ।। २७

विष्णोर्नामसहस्रस्य पुरश्चरणमादरात् । स्वयमेव प्रकुर्वीत तेनाऽपच्छान्तिमाप्नुयात् ।। २८

पुरश्चरणकर्ताथ दिने यस्मिन्द्विजोत्तमान् । वृणुयात्तद्दिने चासौ गायत्र्यादिजपाय च ।। २९

पूर्ववद्वृणुयाद्विप्रान् जपस्य च दशांशतः । होमं कुर्याद्ब्राह्मणांश्च भोजयेत्तद्दशांशतः ।। ३०

कृतो मन्त्रविभागोऽस्ति श्रीमद्बागवतस्य तु । कश्यपेनैव मुनिना जपहोमादिसिद्धये ।। ३१

तैरेव मन्त्रैर्होतव्यं कर्तुः शक्तिर्भवेद्यदि । दशमस्कन्धमन्त्रैर्वा विभक्तैस्तेन भूपते ! ।। ३२

होमं केचित्तु गायत्र्या मन्त्रेणैवर्षयोऽवदन् । द्वादशाक्षरमन्त्रेण वासुदेवस्य केऽपि च ।। ३३

पायसं च घृतं ज्ञोयं होमद्रव्यमिहाधन ! । होमानुकूल्याभावे तु तावान्मन्त्रजपो मतः ।। ३४

पारायणानि कुर्वीरन् श्रीमद्बागवतस्य वा । होमार्थानि द्वादशैव त एव ब्राह्मणा वृताः ।। ३५

पुरश्चर्यारम्भदिनात्समाप्तिदिवसावधि । पालनीयं ब्रह्मचर्यं विप्रैः सयजमानकैः ।। ३६

यथोक्तं तु फलं न स्यादन्यथेत्यस्ति निश्चयः । तस्मिंस्तु पालिते सर्वे सिद्धयन्त्येव मनोरथाः ।। ३७

इति संक्षेपतः प्रोक्तः पुरश्चर्याविधिर्मया । राजन् ! स्कन्दपुराणोक्तो भुक्तिमुक्तिफलप्रदः ।। ३८

इति भागवतस्य ते मया निखिलं भूमिपते ! विधानमुक्तम् ।
त्वमपि श्रवणादि तस्य कुर्याः सह तेनैव यदा तदानुकूल्यम् ।। ३९ ।।

इति श्री सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पुराणश्रवणोत्सवे श्रीमद्बागवतपुरश्चरणविधिनिरूपणनामाष्टमोऽध्यायः ।। ८ ।।