सुव्रत उवाच -
पौराणिकं प्रापयित्वा गीतवाद्यपुरःसरम् । तद्धृहं स प्रभुर्वेद्यां निम्बाधस्तादुपाविशत् ।। १
तत्राजगाम तावत्तु सारङ्गपुरभूपतिः । जीववर्मा च तत्पुत्री देविकाख्या दृढव्रता ।। २
क्षत्रवीरस्तथा राठो मालत्या सुतया सह । तत्रागच्छञ्च पुञ्जाख्यो भक्तो भगवतो महान् ।। ३
प्रणम्य भगवन्तं ते मानितास्तेन सादरम् । निषेदुस्तस्य पुरतस्तद्दर्शनमहामुदः ।। ४
सम्पृष्टाः स्वागतं तेन प्रभुणा विनयानताः । त ऊचुस्तं नमस्कृत्य बद्धाञ्जलिपुटा वचः ।। ५
भगवन्भवबन्धघ्न ! त्वद्बक्ता वयमीश्वर ! । नेतुं सारङ्गनगरं त्वामत्र स्म उपागताः ।। ६
आढयेऽनाढयेऽपि वा भक्ते विशेषो नास्ति ते किल । समदर्शिन ईशस्य ततोऽस्मासु दयास्तु ते ।। ७
जन्माष्टम्युत्सवं नाथ ! पुरे नः कर्तुमर्हसि । अस्माकं यद्धनं किञ्चित्तत्तवैवास्ति निश्चितम् ।। ८
एतावद्याचितं स्वामिन्नस्माकं भक्तवत्सलः । दातुमर्हसि नाथ ! त्वं वयं हि त्वत्परायणाः ।। ९
इति तैः प्रार्थितः स्वामी तान्निष्कपटचेतसः । जानन्नुवाच भो भक्तास्तत्राऽयास्यामि निश्चितम् ।। १०
कुरुतोत्सवसम्भारान् यूयं गत्वाग्रतोऽनघाः ! । पञ्चम्यामागमिष्यामि तत्राहं नात्र संशयः ।। ११
इति वाक्यं प्रभोः श्रुत्वा तेऽतिसंहृष्टमानसाः । प्रोचुस्तं भगवन् ! भक्तैरागन्तव्यं सहाखिलैः ।। १२
तथेत्युक्ते भगवता जीववर्मोत्तमं नृपम् । आमन्त्रयामास भक्तानपरांश्चागमाय सः ।। १३
ततस्तदैव स्वपुरं गन्तुकामं समुत्सुकम् । उत्तमो जीववर्माणं राठादींश्चाप्यभोजयत् ।। १४
भुक्त्वा ते स्वपुरं गत्वा सम्भारांश्चक्रुरादरात् । अन्नोदपात्रास्तरणकाष्ठशाकघृतादिकान् ।। १५
भगवानपि पञ्चम्यामुत्तमेन च पार्षदैः । भक्तैश्चान्यैः परिवृतस्तत्पुरं प्रययौ ततः ।। १६
समारूढो वाहं जविनमरुणं मञ्जुलगतिं दघद्वल्गां वामे करकमलकोशेऽतिमृदुले ।
परे वेत्रं चेशः सितसकलवासाः परिवृतो हयारूढैः सोमप्रभुखनिजभक्तैश्च स ययौ ।। १७
रामप्रतापो वडवां समारुह्याशु कैसरीम् । तमन्वगाद्रोहिताश्वमिच्छारामोऽधिरुह्य च ।। १८
जयारमादयो योषा अपृात्मानमेव तम् । यान्तं दृष्ैवानुययुस्तञ्चिरस्थितिशङ्किताः ।। १९
श्रुत्वाऽयान्तं हरिं राजन् ! सारङ्गपुरवासिनः । गीतवादित्रनिर्धोषैस्तत्सन्मुखमुपाययुः ।। २०
दूरादृाहरिं प्रेम्णा स्रवदश्रव एव ते । प्रणेमुर्दण्डवद्बक्तया ततोऽभिमुवमद्रवन् ।। २१
सम्भाव्य तान् यथायोग्यं साकं तैर्भगवान् पुरम् । प्रविश्यावासमकरोज्जीववर्मालये हरिः ।। २२
राठालये निवासार्थं जयाद्याश्चादिशत्स्त्रियः । अन्येभ्योऽपि यथायोग्यं वासस्थानान्यदापयत् ।। २३
जीववर्मा च पौराश्च हरिं भागवतांश्च तान् । यथोचितेनातिथ्येन प्रीणयामासुरुत्सुकाः ।। २४
गृहिणां त्यागिनां चापि तत्र यूथानि भूरिशः । देशान्तरेभ्य आजम्मुः पौरास्तानि न्यवासयन् ।। २५
भगवद्दर्शनं कृत्वा सर्वे, ते परमां मुदम् । लेभिरे सोऽपि तान् सर्वान् यथोचितमानयत् ।। २६
तत्पुरं हरिभक्तानां यूथैः पुंसां च योषिताम् । तपस्विनां मुनीनां च बभूवातीव संकुलम् ।। २७
तत फल्गोस्तटान्नद्या धवलायास्तटावधि । कारयामास स सभां विशाले वसुधातले ।। २८
उच्चं सिंहासनं तत्र सप्तम्या निशि स प्रभुः । अध्यारुरोहाथ भक्ता निषेदुस्तस्य चाग्रतः ।। २९
तत्र ज्ञानपतोवृद्धा मुनयः पुरतः प्रभोः । निषेदुः पृष्ठस्तेषां वयोवृद्धास्तपस्विनः ।। ३०
तेषां च पृष्ठतः सर्वे मुनयस्तरुणास्तथा । तेषां पृष्ठे किशोराश्च निषेदुर्मुनयोऽखिलाः ।। ३१
रामप्रतापस्तस्यैव पुरतः सानुजः प्रभोः । सिंहासनं च निकषा न्यषीदत्पीठ उत्तमे ।। ३२
प्रभोश्च दक्षिणे भागे शास्त्रज्ञानतपोधिकाः । विप्रा निषेदुस्तत्पश्चाद्वयोवृद्धा द्विजातयः ।। ३३
वामभागे भगवतः सोमाद्या मुख्यपार्षदाः । निषेदुः पृष्ठस्तेषां जीववर्मादयो नृपाः ।। ३४
मुकुन्दानण्दमुख्याश्च नैष्ठिकब्रह्मचारिणः । प्रान्ते सिंहासनस्यैव तस्थुस्तत्सेवने रताः ।। ३५
भृगुजिन्नाञ्जभीमाद्याः क्षत्रियाः शस्त्रपाणयः । तस्थुर्भगवतः पश्चात्सर्वतः प्रसरद्दृशः ।। ३६
मुनीनां पार्षदानां च मध्येऽथ ब्रह्मचारिणः । निषेदुर्वासुदेवाद्या नैष्ठिकं व्रतमाश्रिताः ।। ३७
स्वस्तिकासनमेवैकमाश्रित्यैतेऽखिला अपि । अकुर्वन्तोऽङ्गचापल्यं निषेदुस्तत्र संसदि ।। ३८
एतेषामथ सर्वेषां पृष्ठतः क्षत्रजातयः । उपाविशंश्च तत्पश्चाद्बक्ता भगवतो विशः ।। ३९
तेषां च पृष्ठतः शूद्रास्तत्पश्चादपरे जनाः । मर्यादया निषेदुस्ते तदेकार्पितदृष्टयः ।। ४०
स्त्रीणां वृन्दानि दूरे च स्वस्वमर्यादयैव हि । निषेदुर्विक्षमाणानि प्रभुं सिंहासनस्थितम् ।। ४१
तेषूपविष्टेष्वखिलेषु राजन्नित्थं सभायां निजसंश्रितेषु ।
आनन्दयंस्तानमृतायमानं वचो जगादेत्थमृषिः पुराणः ।। ४२ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे सारङ्गपुरे जन्माष्टम्युत्सवे भगवतः सभोपवेशननिरूपणनामा दशमोऽध्यायः ।।१०।।