सप्ततितमोऽध्यायः

श्रीनारायणमुनिरुवाच - 


स्थावरा जङ्गमा जीवास्तेषां स्थानानि वृत्तयः । वैराजाद्ब्राह्मणः सर्गकाले यान्ति समुद्बवम् ।। १ 

जीवा ये यानि कर्माणि प्राक्सृष्टयां प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ।। २ 

सुकृतं दुष्कृतं वापि मिश्रं वा त्रिगुणात्मकम् । भुक्तावशिष्टं यत्कर्म तदेवादौ प्रपद्यते ।। ३ 

तत्तत्कर्मानुसारेण देहं बुद्धिं च जीविकाम् । स्थानं चाप्नोति तत्तस्य रोचते नात्र संशयः ।। ४ 

इत्थं कर्मवशा जीवाः पुनः कर्माणि कुर्वते । तेषां स्थूलास्तु ये देहास्ते ज्ञोयाः पाञ्चभौतिकाः ।। ५

भूतानि पञ्च चान्योन्यं मिलितानि हरीच्छया । तेभ्यो जातास्तु ये देहास्ते सर्वे पाञ्चभौतिकाः ।। ६ 

प्रधानं तु महाभूतमेकं सर्ववपुष्ष्वपि । चत्वार्यन्यानि भूतानि गौणानि तु भवन्ति हि ।। ७ 

पृथ्वीतत्त्वं प्रधानं च यत्र तत्रापराणि तु । सन्त्यव्यक्तानि चत्वारि जलं तेजो मरुन्नभः ।। ८ 

जलतत्त्वं प्रधानं च यत्र तत्रापराणि तु । सन्त्यव्यक्तानि चत्वारि पृथ्वी तेजो मरुन्नभः ।। ९ 

तेजस्तत्त्वं प्रधानं च यत्र तत्रापराणि तु । सन्त्यव्यक्तानि चत्वारि पृथ्वी तोयं मरुन्नभः ।। १०

वायुतत्त्वं प्रधानं च यत्र तत्रापराणि तु । सन्त्यव्यक्तानि चत्वारि पृथ्व्यम्भस्तेजसी नभः ।। ११

नभस्तत्त्वं प्रधानं च यत्र तत्रापराणि तु । सन्त्यव्यक्तानि चत्वारि पृथ्व्यम्भस्तेजसी मरुत् ।। १२ 

जीवानां यादृशा देहास्तेषां लोकाश्च तादृशाः । तादृशा एव तेषां च भोगाः सर्वेऽपि सन्ति वै ।। १३ 

मुख्यभूतधरा देहाः स्थावरा जङ्गमा इह । मुख्यभृताम्बवो देहा जीवानां सन्ति वारिणि ।। १४ 

ये देवलोके देहाश्च तेजोमुख्या भवन्ति ते । देहाः प्रधानमरुतो वायुलोके वसन्ति च ।। १५ 

देहास्तु मुख्यवियतो भ्रमन्त्याकाश एव हि । कर्मास्ति यादृशं यस्य स तादृग्लभते वपुः ।। १६ 

अन्योन्यमिश्रभूतानां विकाराः पञ्च पञ्चधा । पाञ्चभौतिकदेहेषु ज्ञोयाः सर्वत्र युक्तिभिः ।। १७ 

तत्र त्वङमां समज्जास्थिस्नय्विति क्ष्मास्ति पञ्चधा । श्लेष्मा पित्तं वसा स्वेदो रक्तं चेत्म्बु पञ्चधा ।। १८ 

चक्षू रुट् जाठरः शुक्रमूष्मा तेजो हि पञ्चधा । प्राणोऽपानो व्यानोदानौ समानः पञ्चधा मरुत् ।। १९

श्रोत्रं घ्राणो मुखं कोष्ठं हृदयं पञ्चधेति खम् । इत्थं विकारा भूतानां देहे स्युः पञ्चविंशतिः ।। २०

देहोऽयं स्थूलसंज्ञोऽस्ति मलमूत्रमयोऽशुचिः । सम्बन्धाज्जीवसत्तायास्तस्मिन्प्रेमाऽस्ति देहिनाम् ।। २१ 

स्थूलदेहस्य मध्येऽस्ति जीवस्यान्यत्कलेवरम् । प्राणेन्द्रियमनोबुद्धिसङ्घातः सूक्ष्मसंज्ञिातम् ।। २२ 

एकः प्राणो वृत्तिभेदात्प्रोक्तः पञ्चविधः किल । प्राणोऽपानो व्यानोदानौ समान इति नामभिः ।। २३ 

नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः । इत्यन्ये तस्य भेदास्तु सन्त्येतेष्वेव सङ्गताः ।। २४ 

हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ।। २५ 

प्राणः प्राग्गतिमाञ्ज्ञोयोऽपानोऽधोगतिरुच्यते । भुक्तपीतान्नतोयादेः समानः साम्यकृन्मतः ।। २६ 

उदान उत्क्रमणकृद्व्यानः सर्वाङ्गचेष्टनः । नाग उग्दारकृत्कूर्म उन्मीलनकरः स्मृतः ।। २७ 

कृकलः क्षुत्करो देवदत्तो जृम्भणकृत्तथा । धनञ्जयः पोषणकृत्प्रोक्तः साङ्खयविशारदै ।। २८ 

देवदत्तो मतः प्राणेऽपाने तु कृकलः स्मृतः । धनञ्जयः समाने च कूर्मो व्याने स्थितः खलु ।। २९ 

उदानेऽन्तर्हितो नाग इति पञ्चविधो ह्यसुः ।इन्द्रियाणि दशोक्तानि ब्रुवे तल्लक्षणान्यपि ।। ३०

श्रूयते येन तच्छ्रोत्रं सा च त्वक्त्वच्यते यया । चक्ष्यते येन तच्चक्षुर्जिह्वा लेढि यया रसम् ।। ३१

घ्रायते येन तद्घ्राणमुच्यते वाग्यया वचः । पण्यते येन पाणिः स पादो येन च पद्यते ।। ३२

तग्दुदं गूयते येन मेढ्रं मेहति येन च । करणानि दशैतानि बाह्यानि कथितानि वै ।। ३३ 

मनोऽन्तःकरणं प्रोक्तं बुद्धिश्चापि तथाविधा । अहङ्कारस्तथा चित्तमित्यपि द्वयमिष्यते ।। ३४ 

मनोबुद्धयोरभेदं च केचिदिच्छन्ति पण्डिताः । मनसा संशयं जीवो बुद्धया चाप्नोति निश्चयम् ।। ३५ 

अन्तर्गते मनोबुद्धयोर्ज्ञोयेऽहंकृतिचेतसी । अहन्तां चेतनां चाहङ्कारेणाप्नोति चेतसा ।। ३६ 

एतत्सूक्ष्मं वपुः प्रोक्तं वपुषोः स्थूलसूक्ष्मयोः । अन्योन्याश्रय एवास्ति सूक्ष्मस्यान्तश्च कारणम् ।। ३७ 

तच्चाविद्यामयं प्रोक्तं युक्तं सच्चितकर्मभिः । बन्धेनानादिना तेन जीवस्त्वग्बीजवद्वृतः ।। ३८

यथा भूमेश्च गन्धस्य न भावो व्यतिरेकतः । तथा कारणदेहस्य जीवस्य न पृथक्स्थितिः ।। ३९ 

जाग्रत्स्वप्नं सुषुप्तिश्च तिस्रोऽमिश्रगुणात्मिकाः । अवस्था गुणसाङ्कर्यात्सन्ति मिश्राः परस्परम् ।। ४०

वैराजस्थित्यवस्थायाः कार्यं सत्त्वगुणात्मिका । नेत्रस्थानकृतावासाऽवस्था जाग्रदितीरिता ।। ४१ 

स्थूलदेहाभिमानेन विश्वसंज्ञास्य चात्मनः । बाह्यान्तःकरणैर्यत्र सविवेकं यथार्थतः ।। ४२ 

शब्दादिबाह्यविषयभोगः स्यात्पूर्वकर्मणाम् । अनुसारेण तत्सत्त्वप्रधानं जाग्रदुच्यते ।। ४३ 

अत्र चेद्विषयान्भ्रान्त्या भुे जीवोऽयथार्थतः । रजःप्रधानसत्त्वात्मजाग्रत्स्वप्नः स उच्यते ।। ४४ 

भुञ्जान एव विषयाञ्छब्दादीनपि जाग्रति । शोकश्रमादिना विद्याद्विवेकाभावतो न चेत् ।। ४५ 

तमःप्रधानसत्त्वात्मजाग्रत्सुप्तं तदुच्यते । वैश्वानरस्तु फलदो मुने ! जाग्रति कर्मणाम् ।। ४६ 

ब्रह्मविद्याभ्यासतोऽस्य सत्सच्छास्त्रप्रसङ्गतः । एतद्बेदत्रयज्ञानं येन तुर्यं हि तत्पदम् ।। ४७ 

त्रित्रिभेदास्ववस्थासु गुणानां या प्रधानता । उक्ता च चक्ष्यते सा तु तादृक् कर्मानुसारतः ।। ४८

हिरण्यगर्भस्योत्पत्त्यवस्थाकार्यं गलस्थितिः । रजोगुणात्मिकावस्था प्रोच्यते स्वप्नसंज्ञाया ।। ४९ 

सूक्ष्मदेहाभिमानेन तैजसाख्यस्य चात्मनः । विनाश्यस्थिरभोगाप्तिः पूर्वकर्मानुसारतः ।। ५० 

इन्द्रियैर्मनसा बुद्धया यत्र स्याच्च प्रियाप्रिया । रजोगुणप्रधानं तत्स्वप्नमित्युच्यते पदम् ।। ५१ 

जाग्रतीव यदा स्वप्ने शबदादीन्विषयानपि । भु जीवो विवेकेन जानन्स प्रोच्यते तदा ।। ५२ 

सत्त्वप्रधानकरजाआत्मकस्वप्नजागरः । भुञ्जानोऽपि स्वाप्नभोगान्वेत्ति जाडयेन तान्न सा ।। ५३ 

तमःप्रधानकरजआत्मकस्वप्नसुप्तिका । हिरण्यगर्भः फलदः स्वप्ने भवति कर्मणाम् ।। ५४ 

एतद्बेदत्रयज्ञानं प्रबुद्धस्य यतो भवेत् । तुरीयं तत्पदं प्रोक्तं यत्प्रकाशात्मकं सदा ।। ५५ 

ईश्वरप्रलयावस्थाकार्यं च तमआत्मिका । हृदयस्थानगावस्था सुषुप्तिरिति कथ्यते ।। ५६ 

बाह्यान्तःकरणानां च वृत्तयो भोग्यवासनाः । लीनाः कारणदेहे स्युर्ज्ञातृता कर्तृता तथा ।। ५७ 

तस्याभिमन्तुः प्राज्ञास्य सगुणब्रह्मणो मुने ! । सुखलेशेऽतिलीनत्वं यत्सा सुप्तिस्तमोमयी ।। ५८ 

कर्मसंस्कारतः कर्तृवृत्तेरुत्थानमत्र यत् । स्वप्नोरजोमुख्यतमोमयसुप्तौ हि स स्मृतः ।। ५९ 

जाग्रत्स्वप्नव्यथातापाद्विशन्त्यास्तत्र वै पुनः । प्रातिलोम्यं कर्तृवृत्तेः सुप्तौ ज्ञानं तु तस्य यत् ।। ६० 

सत्त्वमुख्यतमोमय्यां सुप्तौ तज्जाग्रदुच्यते । कर्मणां फलदातात्र सुषुप्तावीश्वरो मतः ।। ६१ 

एतद्बेदत्रयज्ञानं प्रबुद्धस्य यतो भवेत् । तुरीयं तत्पदं प्रोक्तं ज्ञातव्यं सूक्ष्मया दृशा ।। ६२ 

तिसृणामप्यवस्थानां मूलभूता गुणास्त्रयः । सत्त्वं रजस्तम इति ज्ञातव्यास्तेऽपि लक्षणैः ।। ६३ 

सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च । सुखसङ्गित्वमारोग्यं सन्तोषः श्रद्दधानता ।। ६४ 

अकार्पण्य संरम्भः क्षमा धृतिरहिंसनम् ।समता सत्यमानृण्यं मार्दवं हीरचापलम् ।। ६५ 

शौचमार्जवमाचारो ह्यलौल्यं हृद्यसम्भ्रमः । इष्टानिष्टविमिश्राणां कृतानामविकत्थनम् ।। ६६ 

दानेन चानुग्रहणमस्पृहत्वं परार्थता । सर्वभूतदया चैव सत्वस्यैते गुणाः स्मृताः ।। ६७ 

नानारसेच्छा चास्थैर्यं रूपमैश्वर्यविग्रहौ । अत्यागि त्वमकारुण्यं सुखदुःखोपसेवनम् ।। ६८ 

परापवादेषु रतिर्विवादानां च सेवने । अहङ्कारोह्यसत्कारश्चिन्ता वैरोपसेवनम् ।। ६९ 

परितापोऽभिहरणं हीनाशोऽनार्जवं तथा । भेदः परुषता हिंसा कामः क्रोधो मदस्तथा ।। ७० 

अक्षमा परिहासश्चासन्तोषो हर्ष एव च । एते गुणा राजसा हि तामसानथ कीर्तये ।। ७१ 

तामिस्रमन्धतामिस्रं तमो मोहो महातमः । कार्याकार्याविवेकश्च प्रमादोऽथ व्यथा भयम् ।। ७२ 

असमृद्धिस्तथा दैन्यं शोकस्तन्द्रा विषादनम् । गन्धवासोविहारेषु पुष्पेषु शयनेषु च ।। ७३ 

दिवास्वप्नेऽतिनिद्रायां निर्वादेऽभिरुचिस्तथा । नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता ।। ७४ 

द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः । एवं त्रयो गुणा ज्ञोया लक्षणैस्तु पृथक्पृथक् ।। ७५

स्थूलादिदेहत्रितयं सहाध्यात्मधिदैवतम् । गुणास्त्रयस्तथावस्था एतत्क्षेत्रमितीरितम् ।। ७६ 

य एतद्वेत्ति सत्त्वात्मा क्षेत्रज्ञा इति कथ्यते । सामान्यसत्तया देहं स सर्वं व्याप्य वर्तते ।। ७७ 

विशेषसत्तया त्वास्ते हृदि क्षेत्रज्ञा एष च । रत्नदीपप्रतीकाशो ज्ञाता सूक्ष्मोऽणुवध्रुवः ।। ७८ 

क्षेत्रज्ञात्वेनेत्थमुक्तो मयात्मा सम्यग्वेत्तुं तत्स्वरूपं पुनस्ते ।
अध्यात्मादिं मोक्षधर्मप्रणीतं भेदं वच्मि श्रूयतां शुद्धबुद्धे ! ।। ७९ 


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे ज्ञानोपदेशे प्राणेन्द्रियावस्थागुणलक्षणनिरूपणनामा सप्ततितमोऽध्यायः ।। ७०