एकोनसप्ततितमोऽध्यायः

श्रीनारायणमुनिरुवाच - 


वैकारिकादहङ्कारात्सचन्द्रं जायते मनः । कामस्य सम्भवो यस्य सङ्कल्पाञ्च विकल्पनात् ।। १ 

धैर्यं तथोपपत्तिश्च व्यक्तिर्भ्रान्तिश्च कल्पना । क्षमा सत्त्वमसत्त्वं च शीघ्रतेति मनोगुणाः ।। २

कार्योत्पत्तौ हि सर्वत्र माया कालश्च कर्म च । स्वभाव ईक्षणं पुंसो हरेरिच्छेति हेतवः ।। ३ 

देवता इन्द्रियाणां च जाता वैकारिकाद्दश । दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।। ४ 

विषयाणामिन्द्रियाणां विभागेनाभिव्यञ्जनम् । कुर्वन्ति देवता नूनं दिगाद्याश्च पृथक्पृथक् ।। ५ 

दशेन्द्रियाणि बुद्धिश्च ब्रह्मा प्राणश्च तैजसात् । कालादिभिरहङ्कारादुत्पद्यन्ते विकुर्वतः ।। ६

श्रोत्रं त्वग्दृक्रसना घ्राणं ज्ञानेन्द्रियाणि हि । कर्मेन्द्रियाणि वाक्पाणिचरणोपस्थपायवः ।। ७ 

श्रवणादिक्रियासिद्धौ करणत्वं तु लक्षणम् । श्रोत्रादीनामिन्द्रियाणां विज्ञातव्यं पृथक्पृथक् ।। ८ 

इन्द्रियानुग्रहः स्वापः संशयो निश्चयः स्मृतिः । मिथ्याज्ञानं ध्यानचिन्ता धारणेति धियो गुणाः ।। ९ 

तैजसस्य पृथक्क र्थं केचिन्नेच्छन्ति कापिलाः । सात्त्विकात्तामसाज्जातं यत्कार्यं तस्य तद्विदुः ।। १० 

तामसाच्च विकुर्वाणात्पूर्वोक्तैरेव हेतुभिः । शब्दो भवति तस्माच्च नमः शब्दगुणं किल ।। ११ 

विकुर्वतश्च खात्स्पर्शो जायते पूर्वहेतुभिः । ततो वायुः स्पर्शगुणः शब्दवांश्च परान्वयात् ।। १२ 

वायोर्विकुर्वतो रूपं तेजस्तस्माच्च जायते । स्वतो रूपगुणं शब्दस्पर्शवच्च परान्वयात् ।। १३ 

तेजसोऽथ रसस्तस्माज्जायतेऽम्भो विकुर्वतः । परान्वयाच्छब्दस्पर्शरूपवद्रसवत्स्वतः ।। १४ 

अम्भसो जायते गन्धस्ततो गन्धगुणा धरा । शब्दस्पर्शरूपरसगुणैर्युक्ता परान्वयात् ।। १५

शब्दादयो गुणाः पञ्च तन्मात्राख्या इहोदिताः । आकाशादीनि तु महाभूतान्युक्तानि पञ्च च ।।१६

एकद्वित्रिचतुः पञ्चसङ्खयाः सन्ति गुणाः क्रमात् । नभोनभस्वत्तेजोम्बुपृथ्वीनां सर्वसम्मताः ।। १७ 

शब्दस्पर्शरूपरसगन्धानामिह लक्षणम् । श्रोत्रत्वक्षिरसनाघ्राणग्राह्यात्वमुच्यते ।। १८

एषां दशानामन्येऽपि प्रोक्ता व्यासादिभिर्गुणाः । नानायुक्तीः समाश्रित्य सन्ति तानपि कीर्तये ।। १९ 

प्राणेन्द्रियात्मधिष्ण्यत्वं छिद्रता बहिरन्तरम् । आश्रयान्तरशून्यत्वमव्यक्तत्वाविकारिते ।। २० 

अप्रतिघातता चैव भूतत्वमिति तद्विदः । आकाशस्य गुणानेतानाहुर्वायुगुणान्ब्रुवे ।। २१ 

वादस्थानं स्वतन्त्रत्वं नेतृत्वं द्रव्यशब्दयोः । चालनं व्यूहनं प्राप्तिर्मोक्षः शौर्यं बलं भवः ।। २२ 

आत्मत्वमिन्द्रियाणां च गुणा वायोरुदीरिताः । दुर्घर्षता तेजनं च तापः पाकः प्रकाशनम् ।। २३

रागश्च लाघवं वैक्ष्ण्यमुग्दतिर्हिममर्दनम् । क्षुधा पिपासा शोकश्च तेजसोऽभी गुणा मताः ।। २४

शैत्यं क्लेदो द्रवत्वं च भौमानां श्रपणं तथा । तापापनोदस्तृप्तिश्च सौम्यता स्नेहमार्दवे ।। २५

आप्यायनं प्राणनं च भूयस्त्वं चाम्बुनो गुणाः । स्थैर्यं गुरुत्वं काठिन्यं सक्तिश्च प्रसवात्मता ।। २६ 

संहारो धारणं धैर्यमाकाशादेर्विशेषणम् । भावनं ब्रह्मणश्चेति पृथिव्या उदिता गुणाः ।। २७

अर्थाश्रयो द्रष्ट्टलिङ्गं शब्दः स त्वस्त्यनेकधा । पङ्गादिस्वररूपेण तत्रासौ सप्तधा मतः ।। २८ 

वाद्यानां च गजादीनां वृक्षादीनां पृथक्पृथक् । शब्दाः सन्तीति बोद्धव्यं तथा स्पर्शोऽस्त्यनेकधा ।। २९ 

उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च । तथा खरो मृदुः श्लक्ष्णो लघुर्गुरुरितीरितः ।। ३० 

रूपं षोडशधा प्राहुः शुक्लं कृष्णं तथारुणम् । नीलं पीतं कर्बुरं च स्थूलं सूक्ष्मं च वर्तुलम् ।। ३१ 

ह्रस्वं दीर्घं दारुणं च मृदु श्लक्ष्णं च चिक्क णम् । चतुरस्रमिति ज्ञोयं रसः । प्रोक्तस्तु षड्विधः ।। ३२ 

मधुरो लवणस्तिक्तः कटुरम्लः कषायकः । रस एकोऽपि संसर्गाद्द्रव्याणां बहुधा मतः ।। ३३ 

गन्धोऽपि बहुधा प्रोक्तं संसर्गिद्रव्ययोगतः ।इष्टोऽनिष्टश्च मधुरो निर्हारी संहतः कटुः ।। ३४ 

स्निग्धो रुक्षश्च विशदः शान्तः उग्रोऽम्ल इत्यपि । वदन्तीत्थं लक्षणानि मुनयोऽनेकयुक्तिभिः ।। ३५ 

भूतेन्द्रियाणि मात्राश्च मनो बुद्धिरहंकृतिः । चित्तं चेति प्राकृतोऽयं चतुर्विंशतिको गणः ।। ३६ 

अण्डं स्रष्टुमनीशानि तत्त्वान्येतानि तु स्वतः । हरेः शक्तयैव संहत्य मुने ! स्वांशैः सृजन्ति तत् ।। ३७

एतदण्डं विशेषाख्यं षड्भिभस्तोयादिभिर्वृतम् । एकैकस्माद्दशगुणैः प्रधानेनावृतैर्बहिः ।। ३८ 

अनेकाण्डाश्रये तोये महापुरुषदेहजे । अण्डमेतच्चिरं शेते स्वर्णगोलकसन्निभम् ।। ३९ 

हरीच्छावशतस्तस्मिन्कालेन पुरुषो महान् । भूत्वोत्तिष्ठति विश्वात्मा मायाविक्षेपशक्तियुक् ।। ४० 

यस्येहावयवैर्लोकान्कल्पयन्ति मनीषिणः । कटयादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ।। ४१ 

पादादिभिः स्वावयवैः पातालप्रमुखांश्च यः । धृत्वापि लोकान्पुरुषस्तत आस्ते स्वयं पृथक् ।। ४२ 

स सृात्मनिवासाय कं गर्भोदकसंज्ञिातम् । सहस्रशीर्षा पुरुषः शेते जीवात्मभिः सह ।। ४३ 

सुप्तस्याप्सु विराट्देहः सहस्रं परिवत्सरान् । सम्पूर्णाङ्गो भवत्यस्य सर्वजीवहितैषिणः ।। ४४ 

इन्द्रियायतनेष्वस्य स्पष्टीभूतेषु देवताः । इन्द्रियैः सह सङ्गत्य तिष्ठन्ति प्रकटं ततः ।। ४५ 

वैराजः पुरुषोऽप्येष आस्ते सामान्यतस्त्रिधा । आध्यात्मिकश्चाधिदेव आधिभौतिक इत्यपि ।। ४६ 

अध्यात्मस्विन्द्रियेषूक्तस्तदात्माऽध्यात्मिकः पुमान् । देवतास्वधिदैवेषु तदात्मा ह्याधिदैविकः ।। ४७ 

गोलकेघ्वधिभूतेषु तदात्मा चाधिभौतिकः । एतेष्वन्यमाभावे कर्तुं न क्षमे क्रियाः ।। ४८ 

तथा क्षेत्रज्ञारूपेण स्वयमास्ते विशेषतः । स त्वात्मा ह्यक्षरोऽरूपोऽभेद्यो न ग्राह्य इन्द्रियैः ।। ४९

महाप्राणेन सहितं धृत्वाध्यात्मिादिकं त्रयम् । स्थितः सर्वज्ञा ईशानो विराड्देहाभिमानवान् ।। ५०

चतुर्युगसहस्रं तु दिनं रात्रिश्च तावती । वैराजपुरुषस्यास्य तद्वद्वयंर्य कल्प उच्यते ।। ५१ 

कालकर्मस्वभावैश्च मायया च हरीच्छवा । पुरुषप्रेरितादस्माद्विसर्गो जायते महान् ।। ५२

इन्द्रिर्यैर्विषयैर्देवैः सहिता जीवकोटयः । आविर्भवन्ति वैराजाद्देवासुरनरादयः ।। ५३ 

वैराजपुरुषस्याङ्गादाविर्भवति राजसः । प्रतिकल्पं जगत्स्रष्टा ब्रह्मा विश्वसृजां पतिः ।। ५४ 

प्रजाः सिसृक्षुरास्थाय स समाधिं प्रजापतिः । सृजत्यङ्गेषु तस्यैव जीवांश्च भुवनानि च ।। ५५ 

यथा यथा चिन्तयति ब्रह्मा स्वस्मात्प्रयोद्बवम् । तथा तथा भवत्यस्मात्ततः स्रष्टेति स श्रुतः ।। ५६ 

वैराजाङ्घ्रयादिशक्तयैव सर्वेषामपि देहिनाम् । पातालप्रमुखा लोकाः सत्यान्ताः सन्ति संस्थिताः ।। ५७ 

क्वचिल्लोकाश्चर्यं पद्मं जन्मस्थानं स्वयंभुवः । वैराजजठरस्थायाः प्रादुर्भवति नाभितः ।। ५८

लोकाः सजीवा विधिनैव सृष्टा वसन्ति सर्वे वितते च तस्मिन् ।
पद्मे तदानीं स तु पद्मकल्पः प्रोक्तः पुराणेषु हि साधुवर्य ! ।। ५९ 


इति श्रीसत्सङ्गिजीवने नारायणचरिंत्रे धर्मशास्त्रे चतुर्थप्रकरणे ज्ञानोपदेशे आहङ्कारिकसर्गलक्षणनिरूपणनामैकोन-सप्ततितमोऽध्यायः ।। ६९