श्रीनारायणमुनिरुवाच -
सर्वेषामिन्द्रियाणां हि क्षोभहेतू रसो मतः । तन्मूलाः सकला दोषाः प्रवर्तन्तेऽघहेतवः ।। १
साङ्गः कामो रसादेव सद्यः प्रभवतीति तु । प्रसिद्धमस्ति लोकेषु क्षुत्क्षामे तददर्शनात् ।। २
महतां भूमिपालानां ब्राह्मणानामपि क्वचित् । धर्मिष्ठानामपि रसात्सक्तिर्मांशासने ह्यभूत् ।। ३
देवानां च नृपादीनां रसादेव प्रवर्तते । हिंसायज्ञापरो वेदः सर्व इत्यपभाषणम् ।। ४
अहिंसयज्ञात्तपसः स्वाद्धर्माच्च सनातनात् । उञ्छादिवृत्तेर्विप्राणां भ्रष्टत्वं च रसादभूत् ।। ५
साम्प्रतं ब्राह्मणादेश्च मद्यमांसाशने भुवि । प्रवृत्तिरस्त्येव रसाद्देव्याद्युद्देशतः किल ।। ६
चतुर्षु वर्णेषु नृणां चतुर्ष्वप्याश्रमेषु च । वेदोक्तधर्मसाङ्कर्यं रसादेव प्रवर्तते ।। ७
पशुपक्ष्यादिहिंसायामुत्तमानां नृणामपि । प्रवृत्ती रक्षसां तुल्या रसात्स्तैन्तयेऽपि जायते ।। ८
पभिेदो रसादेव जायते विदुषामपि । विहायान्यान्स्वादुभक्ष्ये पुंसश्चेकाकिनो रुचिः ।। ९
अपेयपाने चाभक्ष्यभक्षणे मादकाशने । प्रवृत्तिरुत्तमानां वै रसाद्बवति निश्चितम् ।। १०
हरिकीर्तनसच्छास्त्रकथानां च भवच्छिदाम् । जीविकात्वं रसादेव हर्यर्चापूजनस्य च ।। ११
रसाच्छत्रुवशत्वं च ततो मृत्युर्भवत्यपि । अत्याहारेण मृत्युश्च रसाद्रोगा भवन्ति च ।। १२
क्रोधलोभमदेर्ष्याद्या अपि दोषा रसान्नृणाम् । महान्तः प्रभवन्त्येव बहवः पापहेतवः ।। १३
इत्येते कथिता दोषा रसमाश्रित्य ये स्थिताः । ब्रुवे रसजयोपायानथ त्यागिहितावहान् ।। १४
सुस्वादुभोजनासक्तिर्न कार्या त्यागिभिः क्वचित् । योगैः सिद्धा अपि यया लभन्ते श्वादितुल्यताम् ।। १५
अनासक्तो रसास्वादे त्यागी वैष्णव आत्मवित् । निर्वाहार्थं स्वदेहस्य भिक्षावृत्तिमुपाश्रयेत् ।। १६
अल्पमल्पं शुचीन् याचेद्धृहस्थानन्नमन्वहम् । रसं यथा मधुकरः प्रत्यब्जं तान्यपीडयन् ।। १७
चातुर्वर्ण्यगृहस्थाश्च त्यागिभि-र्मैक्षचारिभिः । अपक्वान्नं याचितव्याः शुद्धं नान्ये त्वनापदि ।। १८
सदन्नं तच्च बहुलं प्राप्नुयाद्यस्य वेश्मनः । तमेव रसलोभेन नार्थयेत्प्रतिवासरम् ।। १९
नारायण ! हरे ! सच्चिदानन्दादिप्रभो ! इति । उच्चैर्वदेदङ्गणस्थो गृहिणां भैक्षमर्थयन् ।। २०
यत्पिष्टतण्डुलाद्याप्तं भिक्षयान्नं फलादि वा । स्वयं शुचिः पाचयित्वा हरये तन्निवेदयेत् ।। २१
तदन्नं तुलसीमिश्रं विष्णोः पादाम्बुना पुमान् । प्रासादिकेनाम्बुना वा भुजिकाले विमिश्रयेत् ।। २२
यदि भोजनवेलायां कश्चिद्याचेत भिक्षुकः । तर्हि दद्यादात्मबुद्धया तस्मा अन्नमविक्लवः ।। २३
गृहस्थो वैष्णवो विप्रः स्वधर्मपरिनिष्ठितः । लोकगर्हापापकर्मसूतकादिविवर्जितः ।। २४
भोक्तुं निमन्त्रयेत्स्वस्य गेहे तर्हि तदालयम् । गच्छेयुस्तत्र भुञ्जीरन् प्राग्वद्विष्णुनिवेदितम् ।। २५
तग्देहे प्रतिमा न स्याद्यदि विष्णोः कदाचन । स्वेज्यमूर्तिं तदा तत्र नीत्वा कुर्युर्निवेदनम् ।। २६
यदि तस्य गृहे मूर्तिर्भवेत्तर्हि निजाश्रमे । स्वयं पक्त्वा प्रस्थमन्नं कुर्युर्विष्णोर्निवेदनम् ।। २७
ततो गृहिगृहे भोक्तुं गच्छेद्वै त्यागिमण्डलम् । सेवाधर्मः सदोषः स्यादन्यथा तु कृते सति ।। २८
अशक्तः पाककरणे ब्राह्मणो वैष्णवोऽपि चेत् । अन्यो वाऽग्राह्या पक्वान्नः सतो भोक्तुं निमन्त्रयेत् ।। २९
तर्ह्यपक्वान्नमानाय्य स्वाश्रमे वातदालये । पाकं कुर्युस्त्यागिनस्तु कारयेयुर्द्विजेन वा ।। ३०
पाकं कर्तुं गृहिगृहे पञ्चोनैस्त्यागिभिः क्वचित् । कर्तुं च भोजनं तद्वन्न गन्तव्यमिति स्थितिः ।। ३१
सम्पदं गृहिणो दृा भोक्तुं यायुस्तदालयम् । न त्वल्पवित्तं गृहिणं क्लेशयेयुः कदाचन ।। ३२
गृही स्वगेहेऽनुदिनं देशकालानुसारतः । शाल्यादि वा कोद्रवादि प्राश्नीयादन्नमत्र यत् ।। ३३
तस्य गेहे तदेवान्नं ग्रहीतव्यं न चेतरत् । रोगाद्यापदमाप्तस्य न दोषो जरतस्तथा ।। ३४
पर्वोत्सवादौ गृहिणो विशेषो यदि नैत्यकात् । स्वस्मै च तादृशं दद्यादन्नं ग्राह्यं तदा तु तत् ।। ३५
यत्र स्याद्गृहिणो गेहे पुरुषः परिवेषकः । तत्रैव भोक्तुं गन्तव्यं नान्यत्र त्यागिभिः क्वचित् ।। ३६
प्रासादिकं विना त्यागी चन्दनं सुमनःस्रजम् । न धारयेद्बगवतो बृहद्व्रतमुपाश्रितः ।। ३७
सुगन्धितैलताम्बूलपूगैलाजातिजादि तु । प्रासादिकमपि त्यागी स्वीकुर्यान्न विनापदम् ।। ३८
एकादशीप्रभृतिषु व्रताहेषु तु योगिभिः । अन्नं फलादि वा प्राप्तं निवेद्यं हरये मुने ! ।। ३९
कर्तव्यं स्वेन तु व्रतं तथा निष्कृत्युपोषणे । निवेद्य हरये त्वन्नं स्वेन कार्यमुपोषणम् ।। ४०
बहुषु त्यागिवृन्देषु मिलितेषूत्सवादिषु । नैवेद्यस्य विधिः कार्यो देशकालानुसारतः ।। ४१
पाकेनैकेन वा द्वाभ्यां बहुभिर्वा यथात्मनः । स्यादेकान्तिकधर्मस्य रक्षा कार्यं तथा बुधैः ।। ४२
स्वच्छे देशे सावकाशे सति त्वन्नं चतुर्विधम् । निवेद्यं विष्णवे सर्वं सद्बिस्तैरन्नकूटवत् ।। ४३
आल्प्ये तु स्थानपात्रादेरन्नं तदनुसारतः । निवेद्य विष्णवे तत्तद्राशौ तच्च विमिश्रयेत् ।। ४४
विष्णुप्रसादमाहात्म्यं वर्णयन् येन केनचित् । दत्तं न भक्षयेदन्नं त्यागवान्नसलौल्यतः ।। ४५
हरेः प्रासादिकं चान्नं चरणाम्ब्वप्यनर्हते ।न दद्यादेव सद्बक्तो गृीयान्न त्वनर्हतः ।। ४६
आहारशुद्धिः सत्त्वस्य शुद्धिहेतुर्भवत्यतः । अन्नं शुचिगृहप्राप्तमद्यं विष्णुनिवेदितम् ।। ४७
सकृद्बुञ्जीत च त्यागी प्रतिघस्रमनापदि । वर्तेत परिचर्यायामहोरात्रं रमापतेः ।। ४८
ग्राह्यान्नेनापि दत्तं चेदन्नं प्रासादिकं प्रभोः । भुक्तेरनन्तरं तर्हि सद्बिर्भक्ष्यं न सर्वथा ।। ४९
तद्बक्षणे सकृद्बुक्तिव्रतभङ्गो भवेत्किल । अनाचारप्रवृत्तिश्च सत्सु स्यान्नात्र संशयः ।। ५०
उपवासदिने प्राप्तं भक्ष्यं प्रासादिकं हरेः । विसर्जयेन्नमस्कृत्य नान्नं भक्षेत्तु सर्वथा ।। ५१
अपि भोजनवेलायां प्राप्ते प्रासादिके यदि । भक्ष्यार्हं स्वस्य न स्याद्यत्सर्वथा तन्न भक्षयेत् ।। ५२
त्यक्तं यत्स्वेन नियमाद्देहपीडाकरं च यत् । भक्षयेन्नैव तत्त्यागी प्रासादिकमपि प्रभोः ।। ५३
स्वस्य भोजनपात्रेण नैवेद्यं न समाचरेत् । विष्णोः पूजाम्बुपात्रेण न च शौचविधिं सुधीः ।। ५४
अगालितं जलं क्षीरं विष्णवे न निवेदयेत् । प्रसादीकृत्य दत्तं चेदज्ञापुंसा न तत्पिबेत् ।। ५५
धातुप्रकोपजननं प्रायस्त्यागी न भक्षयेत् । अशुचेर्मद्यमांसादेः संसर्गमपि सन्त्यजेत् ।। ५६
भङ्गां गञ्जं चाहिफेनं मादकं वस्तु यच्च तत् । तमालं त्रिविधं चापि जह्यात्त्यागी तु दूरतः ।। ५७
रोगार्तेनौषधं भक्ष्यं मद्यादिस्पर्शवर्जितम् । शयितव्यं मञ्चके च प्रावार्यं गुप्तदोरकम् ।। ५८
न रोगिणः सकृद्बुक्तेर्नियमः स्थविरस्य च। भुञ्जीयातां यथेष्टं तौ स्मरन्तौ हृदये हरिम् ।। ५९
सत्सङ्गेन हरेर्भक्तया सहैतैर्नियमैः शुभैः । हर्यर्पितेतरत्यागाज्जीयते दुर्जयो रसः ।। ६०
उञ्छवृत्तिर्मुग्दलाख्यो रन्तिदेवादयो नृपाः । रसास्वादपरित्यागाल्लेभिरे परमं सुखम् ।। ६१
एतेषु नियमेषु स्याद्यस्य कस्यापि चेच्च्युतिः । कर्तव्यं विष्कृतं तर्हि त्यागिभिस्तस्य सत्वरम् ।। ६२
अन्नस्य वह्निपक्वस्य श्रीकृष्णाय निवेदनम् । अकृत्वा भोजनकृतावेकं दिनमभोजनम् ।। ६३
प्रासादिकान्यगन्धस्रग्धृतावेकमुपोषणम् । प्रासादिकस्य तैलादैः स्वीकृतौ च तथा मतम् ।। ६४
विष्णोः प्रासादिकान्नस्य पादोदस्याप्यनर्हते । दाने वा तत आदाने कार्यं चान्द्रायणं व्रतम् ।। ६५
पञ्चोना यदि गच्छेयुः सन्तः कर्तुं च भोजनम् । पाकं वा गृहिगृहे तत्कुर्युरेकमपोषणम् ।। ६६
अज्ञानान्मद्यपाने वा कृते मांसस्य भक्षणे । मासमेकं पिबेत्सक्तूनुष्णोदकविमिश्रितान् ।। ६७
भङ्गारसाद्यपेयस्य क्वचित्पानेऽप्यबुद्धितः । कृते त्यागी न कुर्वीत दिनमेकं तु भोजनम् ।। ६८
एतैरन्यैरुपायैश्च हर्येकान्तिककीर्तितैः । सर्वथा त्यागिना जेयं दुर्जयं रसनेन्द्रियम् ।। ६९
यावद्रसो न विजितस्तावत्कोऽपि जितेन्द्रियः । पुमान्नैव भवेन्नूनं जितं सर्वं जिते रसे ।। ७०
आहारनियमेनैव पूर्वैरपि जितो रसः । तेनैवात स जेतव्यस्त्यागिना पुरुषेण च ।। ७१
सरसेऽल्पे सकृद्बुक्तेऽप्यन्ने स तु न जीयते । नीरसे च मुहुर्भुक्ते सकृद्बुक्ते च भूयसि ।। ७२
युक्त एव ततः कार्य आहारो देहरक्षकः । युक्ताहारविहारस्येत्युक्तं भगवता स्वयम् ।। ७३
रसाश्रितास्ते कथिता मयेत्थं दोषा उपायाश्च जयेऽपि तस्य ।
स्नेहस्य तांस्तेऽथ मुने ! वदामि हिताय हि त्यागवतां नराणाम् ।। ७४
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे त्यागिधर्मेषु रसास्वाददोषतज्जयोपायनिरूपणनामा चतुःषष्टितमोऽध्यायः ।। ६४