पञ्चषष्टितमोऽध्यायः

श्रीनारायणमुनिरुवाच -


वासुदेवं तदीयांश्च विनान्यत्र तु यो भवेत् । स्नेहः स हि महाञ्छत्रुर्भूरिदोषाकरोऽस्ति वै ।। १ 

त्यक्तगृहाश्रमस्यापि त्यागिनः संसृतिप्रदा । पुनः पुत्रकलत्रादिस्मृतिः स्नेहात्प्रजायते ।। २ 

अन्तकाले तथा स्नेहात्स्त्रीपुत्रधनधामसु । पशुपक्षिद्रुमादौ वा प्रेतत्वं जायते नृणाम् ।। ३ 

पुंसोऽप्युत्कृत्तशिश्नस्य स्नेहाद्योषाप्रियाय हि । विमैथुनोऽपि स्पर्शादौ प्रवृत्तिर्जायते ध्रुवम् ।। ४ 

दैहिकं मृत्युपर्यन्तमपि दुःखं न चेतसि । कृत्वा पुंसः कुटुम्बस्य पोषे स्नेहात्प्रवर्तनम् ।। ५

अस्वज्ञातावपि स्नेहात्स्वपित्रादीन्विहाय च । पुंसः स्त्रिया स्त्रियाः पुंसा सह देशान्तरे गतिः ।। ६

तिरस्कृतस्यापि पुंसः स्वसम्बन्धिजनैर्मुहुः । अवैराग्यमतत्त्यागः स्नेहाद्बवति निश्चितम् ।। ७ 

स्नेहादेवानुमरणं स्त्रीणां पतिसुतान्मृतान् । प्राणिनां हिंसया पुंसः पोषः स्यात्स्वजनस्य च ।। ८ 

स्नेहात्स्वयं क्षुधां सोढ्वा नृणां च पशुपक्षिणाम् । इतस्ततोऽद्यमानीय प्रवृत्तिः स्वार्भपोषणे ।। ९ 

स्तेयाब्धिपारयानादौ मृत्युहेतावपि ध्रुवम् । स्नेहात्कुटुम्बपोषार्थं प्रवृत्तिर्जायते नृणाम् ।। १०

अनृतेनातिकष्टेन श्ववृत्त्येतस्ततो धनम् । आनीय स्वीयपोषश्च स्नेहाद्बवति देहिनाम् ।। ११ 

स्वजातेरितरत्रापि पश्वादौ स्नेहतस्तथा । आसक्तिर्जायते पुंसां स्वपुत्रादाविवार्तिदा ।। १२

जरत्यपि शरीरे स्वं स्नेहादाशास्ति जीवने । अधर्मिणामपि स्वानां पक्षपातश्च जायते ।। १३

अन्याये न्यायबुद्धिश्च पापे पुण्यमतिर्नृणाम् । अनात्मन्यात्मधीः स्नेहाज्जायतेऽसति सन्मतिः ।। १४

दोषधीर्भवति स्नेहाद्गुणेषु गुणिनामपि । गुणबुद्धिश्च दोषेषु पुंसो दोषवतां तथा ।। १५

कामः क्रोधस्तथा लोभ ईर्ष्याद्या अपि भूरिशः । दोषाः स्नेहाद्बवन्त्येव स स्नेहस्त्यागिनां रिपुः ।। १६

अथ स्नेहजयोपायाः कथ्यन्ते त्यागिनां हिताः । यैरसौ जीयते नूनं दुर्जयोऽपि मुमुक्षुभिः ।। १७ 

देहे च दैहिके त्यागी निःस्नेहः सर्वदा भवेत् । यतः स्यात्परमं सौख्यं प्रीतिश्च परमात्मनि ।। १८

प्रियव्रतादयो भूषा दधीचिप्रमुखा द्विजाः । स्नेहं विहाय देहादौ परं सौख्यं हि लेभिरे ।। १९ 

स्वदेहजन्म यत्राभूत्तद्ग्रामं न पुनर्व्रजेत् । आवश्यकेन गच्छेच्चेन्न व्रजेत्स्वजनालयम् ।। २० 

वस्त्रपुस्तकभक्ष्यादि स्वजनान्नाददीत च । तस्मै न दापयेत्किञ्चिद्वस्त्वन्येनापि चापदि ।। २१

धनपुत्रादिलाभे वा तन्नाशे स्वजनस्य च । न हृष्येन्नैव शोचेच्च तदन्यस्येव तुल्यधीः ।। २२

देहोत्पत्तिनिमित्तस्तु स्नेहः स्यात्स्वजनेषु चेत् । एतत्प्राक्तनदेहानां तं कुर्यात्स्वजनेष्विव ।। २३ 

जरायुजाण्डजोद्बिज्जस्वेदजा बहवः किल । देहाः स्वस्याभवंस्तेषां स्वजनाश्चाप्यनेकशः ।। २४ 

प्रीतिर्हि यादृशी तेषु देहेनानेन साम्प्रतम् । दया कुलाभिमानश्च कर्तव्यात्रापि तादृशी ।। २५ 

आदौ त्यक्तेषु च स्वेषु त्यागी सज्जेत यः पुनः । कुर्यादेव हि शास्त्रेण निषिद्धमपि कर्म सः ।। २६ 

इत्थं यः स्वैरवर्ती स्यात्त्यागी भूत्वापि वैष्णवः । स पञ्चभिर्महापापैर्युक्तो ज्ञोयो हि नित्यदा ।। २७ 

तस्मादात्मस्वरूपं हि देहत्रयपृथक्स्थितम् । निश्चित्य तच्च ब्रह्मैव निःस्नेहः सर्वतो भवेत् ।। २८

शयीत भूतले नित्यं खट्वायां न त्वनापदि । स्त्रीप्रावृतां तूलपटीं त्यागी प्रावृणुयान्न च ।। २९ 

एकस्मिन्मास्यतिक्रान्ते कारयेत्क्षौरकर्म च । कक्षोपस्थशिखावर्जं मासात्प्राङ्नतु कर्हिचित् ।। ३० 

व्रतोपवासदिवसे तथासौ भोजनोत्तरम् । न कारयेत् क्षौरकर्म त्यागिधर्मानुपाश्रितः ।। ३१

पापिनास्तिकसंस्पर्शे दुःस्वप्ने क्षुरकर्मणि । यवनान्त्यजनस्पर्शे त्यागी स्नानं समाचरेत् ।। ३२

मातापित्रोर्गुरोः स्वस्य मरणे तु श्रुते सति । त्यागी स्नायात्सवासाश्च नेतरस्य तु कर्हिचित् ।। ३३

न विष्णोर्नवधा भक्तिं विना चैकमपि क्षणम् । व्यर्थं क्वापि नयेत्त्यागी दूरे जह्यात्त्वसत्कथाः ।। ३४

वृत्तिग्रामक्षेत्रमन्त्रं शृणुयान्न च कस्यचित् । माध्यस्थ्यं नैव कुर्याच्च द्रव्यादानप्रदानयोः ।। ३५ 

राजकार्यस्य वार्ता च जयाजयकथा तथा । वस्त्रालङ्कारनगरशोभायाश्चाथ वर्णनम् ।। ३६ 

अन्नस्य भक्ष्यभोज्यादे रसास्वादाश्रिता कथा । कृषिवाणिज्यशिल्पादेर्वाहनानां च वर्णनम् ।। ३७

गोमहिष्यजवृक्षादेर्वर्णनं चायुधस्य च । इत्याद्या ग्राम्यवार्तास्तु न कुर्याच्छृणुयान्न च ।। ३८ 

एतेषु नियमेषु स्याद्यस्य यस्य च्युतिः क्वचित् । त्यागी कुर्यात्तस्य तस्य प्रायश्चित्तं यथोचितम् ।। ३९ 

दिनानि यावन्त्यज्ञानात्स्वसम्बन्धिगृहे वसेत् । उपवासान्स कुर्वीत तावतो दिवसान्मुनिः ।। ४० 

पित्रादीनां गृहे भुक्तौ तेभ्यश्चान्नादिदापने । तद्दत्तवस्त्राद्यादाने खट्वास्वापेऽप्यनापदि ।। ४१

तूलपटयाः प्रावरणे प्रावृतायाः स्त्रिया तथा । एकैक उपवासोऽत्र प्रायश्चितं पृथक्पृथक् ।। ४२

कथने ग्राम्यवार्तायाः श्रवणे च तथादरात् । सहस्राणि जपेत्पञ्च कृष्णमन्त्रं षडक्षरम् ।। ४३ 

एते स्नेहजयोपायाः प्रोक्ता धार्या मुमुक्षुभिः । सत्सङ्गविष्णुभक्तिभ्यां सहैते फलदा मताः ।। ४४ 

स्नेहस्य दोषा इति ते सुबुद्धे ! प्रोक्ता उपायाश्च जयाय तस्य ।
मयाथ मानस्य वदामि दोषान् गुणांश्च तान् जेतुमहं समर्थान् ।। ४५


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे त्यागिधर्मेषु स्नेहदोषतज्जयोपायनिरूपणनामा पञ्चषष्टितमोऽध्यायः ।। ६५