त्रिषष्टितमोऽध्यायः

श्रीनारायणमुनिरुवाच - 


यथा जलानां सर्वेषां निधानं वारिधिर्मतः। तथैव सर्वदोषाणामाश्रयः काम उच्यते ।। १ 

ज्ञानशास्त्रातिविज्ञानां ब्रह्म-स्थितिमतामपि । ब्रह्मानन्दादपि सुखं स्त्रैणं कामाद्विशिष्यते ।। २

कामेन स्त्रीसुखं लब्धुं पण्डिता अपि दम्भतः । भक्तयाटोपं ज्ञानवार्तां स्त्रीणां संसदि कुर्वते ।। ३

कामादेव हि नार्योऽपि पुंसः सङ्गसुखाप्तये । कृष्णाभेदेन तद्बक्तसेवां प्रीत्यैव कुर्वते ।। ४

स्त्रीसुखप्राप्तये कामाच्छिष्यं गुरुरपि स्वयम् । वञ्चयत्यथ शिष्योऽपि तदर्थे च निजं गुरुम् ।। ५ 

कामात्सगोत्रागमनं गुरुस्त्रीगमनं तथा । जायते मातृगामित्वं पुत्र्यादिगमनं तथा ।। ६

जायते कामतः पुंसां गमनं विधवास्वपि । कुलजानां चोत्तमानां यवनीश्वपचीष्वपि ।। ७

मैथुनार्थे प्रवृत्तिश्च पुंसां पुंस्वपि जायते । पशुजातिषु वा क्क पि गर्दभीप्रमुखासु च ।। ८ 

कीश्वद्धैर्यहीनस्य त्यागिनो महतोऽपि च । करमन्थेन कामाद्वै जायते वीर्यपातनम् ।। ९

कामाद्धिवर्णसाङ्कर्य सर्वथा जायते भुवि । चतुर्णामाश्रमाणां च वर्णानां धर्मनाशनम् ।। १०

पतिपित्रा-दिघाते च कामात् स्त्रीणां प्रवर्तनम् । अवध्यानामपि स्त्रीणां घाते पुंसस्तथैव च ।। ११ 

अभक्ष्यमत्स्यमांसादिभक्षणेऽपि प्रवर्तनम् । कामाझ्वत्युत्तमानां सुरापाने तथाऽनृते ।। १२

काममाश्रित्य वर्तन्ते क्रोधश्च मदमत्सरौ । मानेर्ष्यादर्पदम्भाश्च निर्लज्जत्वं च पैशुनम् ।। १३ 

अपकीर्तिश्च सम्मोहः स्मृतिभ्रंशो मतिक्षयः । अपमृत्युर्महारोगाः काममेव समाश्रिताः ।। १४ 

श्वादिनीचतनुप्राप्तिर्नानानरकयातनाः । कामाद्बवन्त्यसद्बुद्धिः संसृतिश्च पुनः पुनः ।। १५ 

इत्यादयो बहुविधा दोषाः कामस्य सन्ति वै । अथ तस्य जयोपायाः कीर्त्यन्ते गुणसंज्ञाकाः ।। १६

कामो हि बलवाञ्छत्रुर्यौवने नंश्च योषितः । पीडयत्येव नितरां जेयोऽसौ सद्व्रतादिभिः ।। १७ 

धारणापारणासंज्ञां चातुर्मास्ये व्रतं शुभम् । प्रतिवर्षं विधातव्यं यथोक्तविधिनैव तत् ।। १८ 

चान्द्रायणं पराकं वा देशकालानुसारतः । कुर्वीत चतुरो मासान्कामोन्मूलनकृ द्व्रतम् ।। १९

कृच्छ्रातिकृछ्राख्यव्रतं व्रतं सान्तपनं तथा । उद्दालकं यावकं वा सौम्यकृच्छ्राभिघं व्रतम् ।। २० 

फलकृच्छ्रं पर्णकृच्छ्रं मूलकृछ्राम्बुकृच्छ्रके । मासोपवासाख्यव्रतं कुर्यात्त्यागी पुमान्मुने ! ।। २१ 

व्रतैरेव विनश्यन्ति मनसः कामवासनाः । प्रत्यब्दं तानि तत्कुर्याद्यावत्स्यात्कामसयः ।। २२ 

तथा वस्तुविचारेण महतां सङ्गमेन च । त्यागिभिर्जीयते नूनमेष कामोऽपि दुर्जयः ।। २३ 

यां तु कामविलासात्र्यै पुमानमिलषेत् स्त्रियम् । मांसास्थिस्नायुमज्जासृक्श्लेष्मविष्ठामयी हि सा ।। २४ 

उद्दिश्याप्यसतीं योषां कामेन विवशः पुमान् । यानि कर्माणि कुरुते जायन्ते तान्यृतानि हि ।। २५ 

तैः कर्मभिस्ततो याति नरकान्विविधान्नरः । योनीः श्वखरकीशाद्या लभते च पुनः पुनः ।। २६ 

इत्थं विचार्य तत्सङ्गं त्यक्त्वा दूरत एव हि । एतेषु नियमेष्वेव वर्तितव्यं मुमुक्षुभिः ।। २७

कथा वार्ताः कचिन्नैव स्त्रीणां श्रव्या असत्प्रियाः । त्यागिभिः पुरुषैस्तासां कर्तव्यं कीर्तनं न च ।। २८ 

स्त्रीभिः सह न च क्रीडां न च तासां निरीक्षणम् । न गुह्यभाषणं ताभिः सह कुर्यात्कदाचन ।। २९ 

सङ्कल्पो निश्चयश्चापि न कर्तव्यस्तदाप्तये । स्पर्शस्तु नैव कर्तव्यो दारव्या अपि योषितः ।। ३० 

ज्वलद्वह्नौ वरं पातो वरं वा विषभक्षणम् । कूपे वा पतनं श्रेष्ठं न तु स्त्रीगमनं क्वचित् ।। ३१ 

तथा स्त्रीजातिमात्रस्य गुह्यमङ्गं कदाचन । द्रष्टव्यं त्यागिभिर्नैव स्पृश्यं स्त्रीवसनं न च ।। ३२

धौतार्द्राद्धौतशुष्काद्वा नवीनाद्योषितोंऽशुकात् । इतरस्य तु संस्पर्शे जाते दोषो न चान्यथा ।। ३३

नारीणां सम्मुखं तैश्च नोपवेश्यं कदाचन । तासां चित्रं न कर्तव्यं नावलोक्यं तथैव तत् ।। ३४

धनुर्मात्रान्तरं त्यक्त्वा गन्तव्यं दूरतः स्त्रियाः । हर्युत्सवेषु बहुले जनौघे मिलिते सति ।। ३५ 

देवालये चाज्ञाशिशौ तथा सङ्कीर्णवर्त्मनि । भिक्षाटने च संरक्ष्यं स्त्रीस्पर्शात्स्वाङ्गमेव हि ।। ३६

यत्र वा स्यात्क्रिया स्त्रीणां तत्र कार्या न सा तथा । स्त्रीवेषधारी च पुमान्नेक्ष्यः स्पृश्यो न च क्वाचित् ।। ३७

सम्भाषणं न कर्तव्यं स्त्रीभिः सह कदाचन । न वर्णनीयाश्च गुणास्तासां नैवागुणा अपि ।। ३८

स्त्रियमुद्दिश्य कर्तव्यं न विष्णोर्गुणकीर्तनम् । स्त्रिया मुखादपि तथा नैव श्रव्या कथा हरेः ।। ३९ 

शालग्रामस्य यस्य स्यात्स्वयं योषैव पूजिका । दर्शनार्थं न वै तस्य गन्तव्यं त्यागिभिः क्वाचित् ।। ४० 

भिक्षां सभाप्रसङ्गं वा विना न गृहिणां गृहान् । गच्छेयुस्त्यागिपुरुषा गच्छेयुः क्वापि नैकलाः ।। ४१ 

ब्रह्मचर्यं न हातव्यमपि प्राणात्यये निजम् । तत्त्यागबोधकं वाक्यं न ग्राह्यं स्वगुरोरपि ।। ४२ 

नैव कारयितव्यं च स्वस्थाने स्त्रीप्रवेशनम् । अन्नोदकादि पुरुषैरानाय्यं न स्त्रिया क्वचित् ।। ४३

सम्मार्जनोपलेपादि स्वकुटयामाचरेत्स्वयम् । पुंसा वा कारयेत्त्यागी न तु तत्क्वापि योषया ।। ४४

यत्र स्त्रियाः पादचारो भूतपूर्वो भवेत्स्थले । तल्लेपयित्वा वस्तव्यं पुंसा वा प्रोक्ष्य वारिणा ।। ४५ 

सङ्गो नैव च कर्तव्यः शिश्नोदरसुखैषिणाम् । स्त्रीसङ्गवत्स्त्रैणसङ्गो दूराद्धेयो मुमुक्षुभिः ।। ४६ 

स्त्रीणां स्त्रैणनराणां च सङ्गात्पुंसोऽत्र बन्धनम् । यथा दृढं भवति वै न तथान्यप्रसङ्गतः ।। ४७

स्त्रैणसङ्गात्साधुताया ऐश्वर्याण्यखिलान्यपि । नाशमायान्ति सहसा मुक्तानां च मुमुक्षताम् ।। ४८

ह्मचर्यमहिंसा चानीर्ष्या शौचं क्षमा दया । सत्यं मौनं यशो बुद्धिर्हीत्ररस्तेयं शमो दमः ।। ४९

इत्यादयो गुणाः सङ्गात्स्त्रैणानां यान्ति हि क्षयम् । तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु सर्वथा ।। ५० 

भक्तया विष्णौ सतां सङ्गादेतैश्च नियमैः सह । त्यागिनो दुर्जयं कामं जित्वा यान्ति परं सुखम् ।। ५१ 

ययातिरैलमुख्याश्च पुरापि धरणीश्वराः । कामत्यागात्परं सौख्यं स्वाभीष्टं ननु लेभिरे ।। ५२

एतेषु नियमेषु स्याद्यस्य यस्य च्युतिः क्वचित् । कर्तव्यं तस्य तस्याशु प्रायश्चित्तं हितैषिभिः ।। ५३ 

अज्ञानात्स्त्रीकथायास्तु श्रवणे कीर्तने तथा । स्त्रीणां वा विहरन्तीनां क्रीडास्थाने क्षणं स्थितौ ।। ५४ 

स्त्रिया दृष्टया दृशं बध्वा स्वस्य तत्प्रेक्षणे कृते । पुमुदृशेन वा नार्या बोधेऽप्यज्ञानतः कृते ।। ५५ 

पुंसा च कारिते गुह्यभाषणेऽपि स्त्रियं प्रति । जाते स्त्रीसङ्गसङ्कल्पे मनसा कामतः क्वचित् ।। ५६ 

तत्सङ्कल्पवशत्वे च स्वस्य जाते क्षणं क्वाचित् । स्त्रयङ्गस्थवस्त्रस्पर्शे च जातेऽप्यज्ञानतस्तथा ।। ५७ 

धनुर्मानान्तरगतिच्यवने चाप्यनापदि । सम्भाषणे स्त्रिया जाते स्त्रीगुह्याङ्गस्य चेक्षणे ।। ५८ 

भङ्गेऽन्येषां व्रतानां च प्रमादादपि कर्हिचित् । उपवासो विधातव्यो विष्णुनामजपान्वितः ।। ५९ 

बुद्धिपूर्वं क्वचित्दृृष्टे पशुपक्ष्यादिमैथुने । उपवासो विधातव्यस्त्यागिना चैकवासरम् ।। ६० 

दीक्षाग्रहीतृपुरुषसम्बन्धिजनप्रच्छने । भिक्षानिमित्ते कार्ये च तथा पुस्तकलेखने ।। ६१ 

उचितावासदाने च हरीक्षागतयोषिताम् । ईदृशावश्यके कार्ये सम्प्राप्ते सति कर्हिचित् ।। ६२ 

स्त्रीसम्बन्धि वचः श्रव्यं कथितं पुरुषेण चेत् । स्वस्वमण्डलमुख्येन न सर्वैस्त्यागिभिस्तु तत् ।। ६३

शृणुयादुत्तरं ब्रूयादितरो यदि तद्वचः । सद्यः स्नत्वा जपेत्तर्हि मनुं त्रिर्वसुवर्णकम् ।। ६४

नरनारायणीयां च ततः स प्रणमेद्दिशम् । एवं कृते विशुद्धिः स्यात्त्यागिनस्तस्य निश्चितम् ।। ६५ 

असाक्षिकं न वक्तव्यं मुख्येनापि तदुत्तरम् । उक्ते सति तु तस्यापि प्रायश्चित्तं तदेव हि ।। ६६ 

आवश्यकाधिकं ब्रूयाद्यदि वार्ताप्रसङ्गतः । तर्हि स्नत्वा ह्युपवसेद्दिनमेकं हरिं स्मरन् ।। ६७ 

करमन्थेन तु कृते त्यागना वीर्यपातने । उपवासास्तेन कार्या दिवसानां चतुष्टयम् ।। ६८ 

वीर्यस्रावो भवेत्स्वप्ने यदि वैवश्यतस्तदा । प्रातः स्नात्वैव कुर्वीत दिनमेकमुपोषणम् ।। ६९ 

भिक्षाटनेऽध्वनि स्नने पानीयाहरणादिषु । वियुक्तौ त्यागिनौ यर्हि न पश्येतां परस्परम् ।। ७० 

ताभ्यां द्वाभ्यामपि तदा कार्यमेकमुपोषणम् । मलमूत्रोत्सर्जनेऽत्र नोपवासस्तथाऽपदि ।। ७१

त्यागिना च स्त्रिया साकं स्थितौ रहसि वाध्वनि । याने तया सह कृतेऽप्युपोष्येत दिनत्रयम् ।। ७२ 

त्यागिनः कामवैवश्यद्ब्रह्मचर्यं यदष्टमम् । च्युतं भवेत्तदानीं यत्प्रायश्चित्तं तदुच्यते ।। ७३ 

धर्मशास्त्रेषु तु महत्प्रायश्चित्तमिहोदितम् । अशक्यं तत्कलौ कर्तुं तत्कुर्याद्वार्षिकं व्रतम् ।। ७४ 

दिवसेऽनशनं कुर्यादेकस्मिंश्चापरेऽहनि । पिबेन्निर्लवणान्सक्तून्मौनेनैव सकृद्दिवा ।। ७५ 

सक्तून्पातुमशक्तोऽन्नमद्याल्लवणयुक्पुमान् । अन्नद्वयं सलवणं तत्राशक्तोऽपि भक्षयेत् ।। ७६ 

रोगेणोपद्रुतो यः स्यात्कयाचिद्वाऽपदा क्वचित् । उपवासविहीनं स त्यागी कुर्यादिदं व्रतम् ।। ७७ 

रोगे चापदि नष्टायां जपित्वाऽष्टाक्षरं मनुम् । सहस्रसङ्खयं कुर्वीत यथापूर्वं निजं व्रतम् ।। ७८

वर्षव्रते त्वशक्तस्तु पादोनं व्रतमाचरेत् । अर्धं वाप्यत्यशक्तस्तु कुर्यान्मासत्रयं शुचिः ।। ७९

नियमैः सहितं कार्यं व्रतमेकान्तराशनम् । एतत्पवित्रं परमं मनःकायविशोधनम् ।। ८० 

व्रतं कर्तुमशक्तो यः पुमान्स तु समाचरेत् । बदर्याश्रमयात्रां वै ततः शुद्धयति स ध्रुवम् ।। ८१ 

अथवा विदधीतासौ मासमेकं समाहितः । व्रतं चान्द्रायणं नाम सर्वपातकनाशनम् ।। ८२ 

अविज्ञाते जनैरस्मिन्पापे तु चतुरक्षरम् । मनुं जपेद्वर्षमेकं लक्षार्धं प्रतिवासरम् ।। ८३

मौनी दृढासनो मन्त्रं त्रिभिः कालैर्यथाबलम् । उपविश्य जपेद्बक्तया ततः शुद्धिमवाप्नुयात् ।। ८४ 

एवं व्रतेन संशुद्धः सद्बिः सन्मण्डले पुमान् । ग्रहीतव्योऽथ तद्दोषः पुनर्वाच्यो न तैः क्वचित् ।। ८५ 

मैथुनार्थं प्रवृत्तौ च पुंसि वा पशुजातिषु । तप्तकृच्छ्रं व्रतं कार्यं त्यागिना स्वस्य शुद्धये ।। ८६

कृत्वा यो दुष्कृतं तस्य नैव कुर्वीत निष्कृतिम् । स तु सन्मण्डलात्सद्यो निष्कास्यो ह्यन्त्यजादिवत् ।। ८७ 

कामस्य दोषा इति कीर्तितास्ते तथा गुणास्तज्जयसाधनानि ।
अथो रसस्यापि वदामि दोषांस्तुभ्यं मुने ! तज्जयनान् गुणांश्च ।। ८८ 


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे त्यागिधर्मेषु कामदोषतज्जयोपायनिरूपणनामा त्रिषष्टितमोऽध्यायः ।। ६३