द्विषष्टितमोऽध्यायः

सुव्रत उवाच - 


अथैकदा तमासीनं कृतनित्यविधिं हरिम् । नत्वा पप्रच्छ गोपालानन्दो मुनिरुदारधीः ।। १ 


गोपालानन्द उवाच - 

श्रोतुमिच्छाम्यहं स्वामिन् ! साधूनां त्यागिनां हि नः । त्वदाश्रितानां सर्वेषां धर्मानिह सविस्तरम् ।। २ 


सुव्रत उवाच - 

इत्थं जिज्ञासुना धर्मांस्तेन पृष्टः स सत्पतिः । प्रसन्न कथयामास त्यागिधर्मानशेपतः ।। ३ 


श्री नारायणमुनिरुवाच - 

त्यागिनां मच्छ्रितानां ते धर्मान्वच्मि मुने ! शृणु । सम्प्रदायानुसारेण यथाशास्त्रं हिताय वः ।। ४

त्यागिनां परमो धर्मः श्रीकृष्णेऽखिलकारणे । भक्तिरेकान्तिकी नित्यं तन्माहात्म्यावबोधयुक् ।। ५

अधर्मवंश्या दोषास्तु प्रत्यूहाः सन्ति तत्र हि । धर्मवंश्यैर्गुणैर्जित्वा तान्सा कार्याऽत्र साधुभिः ।। ६

पञ्चैवावश्यजेतव्याः सन्ति दोषेषु तेष्वपि । जितेषु येषु सर्वे ते जिताः स्युर्नात्र संशयः ।। ७ 

लोभः कामो रसास्वादः स्नेहो मानश्च पञ्चमः । अन्तः शत्रव एते हि दुर्जेया विदुषामपि ।। ८ 

सर्वदोषाकारा ह्येते भवन्तीति प्रयत्नतः । विजेतव्याः सावधानैस्त्यागवद्बिर्मुमुक्षुभिः ।। ९ 

एकैकसंश्रिता दोषा दर्शयन्तेऽथ पृथक्पृथक् । जये तेषामुपाया ये साध्याः सौख्येन तेऽपि च ।। १० 

तत्राधर्मान्ववायस्था दोषा ये लोभसंश्रिताः । आदितस्ते निरूप्यन्ते हातव्या निखिला अपि ।। ११

लोभनिष्ठाः सन्ति दोषा महान्तो निरयप्रदाः । अधिष्ठानं हि पापस्य लोभश्चाघप्रवर्तकः ।। १२ 

लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते । लोभान्मोहश्च माया च मानश्च परतन्त्रता ।। १३ 

स्वकन्यादेर्विक्रयश्च नीचस्यापि गृहे नृणाम् । लोभेनैव हि वित्तादेर्मनुष्यस्य च विक्रयः ।। १४

अक्षमा हीपरित्यागः श्रीनाशो धर्मसयः । चिन्ताऽपकीर्तिर्दम्भश्च द्रोहो निन्दा च मत्सरः ।। १५

अत्यागश्चातितर्पश्च विकत्थाऽकार्यकारिता । अविश्वासस्तथा चौर्यं परदाराभिमर्शनम् ।। १६

दैन्यसाहसयोर्वेगो मृत्युवेगश्च दारुणः । ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुर्जयः ।। १७ 

रसवेगश्च दुर्वार्यः सर्वं लोभात्प्रवर्तते । तस्मात्सर्वाणि पापानि लोभमूलानि निश्चितम् ।। १८

सतां समागमेनैतान्दोषान् लोभगतान्हृदि । स्वार्थघ्नानिति निश्चित्य त्यजेल्लोभं विचक्षणः ।। १९ 

जनको युवनाश्वश्च वृषादर्भिमुखा नृपाः । लोभक्षयात्परं सौख्यं प्रापुस्तत्त्याज्य एव सः ।। २० 

लोभेनैकेन सर्वेऽपि शास्त्रज्ञात्वादयो गुणाः । दोषायन्ते हि विदुषां सुधीस्तं कथामाश्रयेत् ।। २१

ईदृग्विधोऽप्यसौ लोभो यैरुपायैः समाश्रितैः । जीयेत त्यागिभिस्तेऽथ कथ्यन्ते शिष्टसम्मताः ।। २२

क्रियते वस्तुनो यस्य लोभस्तत्खलु नश्वरम् । यदर्थं क्रियते तच्च शरीरं क्षणभंगुरम् ।। २३

देहद्रव्याद्यसत्त्वेऽपि लोभात्कर्माणि यानि तु । करोति तानि सत्यानि जायन्ते देहिनः खलु ।। २४ 

ततस्तैः कर्मभिर्नानानरकान्प्रतिपद्यते । श्वशूकरादियोनीश्च प्राप्नोत्येव पुनः पुनः ।। २५

श्रोत्रप्रियग्राम्यवार्ताश्रुतौ लुब्धोऽपि नो भवेत् । स्त्रीबालसूक्ष्मवस्त्रादिस्पर्शे लुब्धो भवेन्न च ।। २६

स्त्रीस्वर्णभूषासद्वस्त्रसौधवाटीगवादिके । चक्षुःप्रियपदार्थे च नैव लुब्धो भवेत्क्वचित् ।। २७ 

जिह्वाप्रिये च भक्ष्यादौ नानाविधरसान्विते । नैव लुब्धो भवेत्क्वापि दोषदृष्टया विचक्षणः ।। २८

सुगन्धितैलकुसुमचन्दनादौ च कर्हिचित् । घ्राणप्रिये पदार्थेऽपि लुब्धः स्यान्नैव बुद्धिमान् ।। २९ 

पञ्चेन्द्रियाणामेवं वै रमणीयेषु पञ्चसु । विषयेषु न लोब्धव्यमिन्द्रियक्षोभकर्तृषु ।। ३०

पुमानिन्द्रियवृत्तीर्यो विषयेभ्योऽपकर्षति । अनासक्तः स तु बुधैर्जितेन्द्रिय इतीर्यते ।। ३१

पञ्चेन्द्रियाण्यपि सदा मनः खल्वनुवर्तते । एतान्याश्रित्य लोभाद्याः शत्रवः पीडयन्ति च ।। ३२

अरयः स्वेन्द्रियाण्येव त्यागिनां सन्ति निश्चितम् । विजेतव्यानि यत्नेन तान्येवातो मुमुक्षुभिः ।। ३३

जितेन्द्रियाणां सङ्गेन हर्युपासनया तथा । नित्यं च सद्विचारेण जीयन्ते ते मुमुक्षुभिः ।। ३४ 

प्रारब्धनिर्मितं यत्तदवश्यं सर्वदेहिभिः । प्राप्यते तद्वृथा क्लेशो न कार्यो देहपुष्टये ।। ३५

अन्नवस्त्रादिना स्वस्य निर्वाहो यावता भवेत् । यतेत तावतः प्राप्त्यै वपुर्यद्धर्मसाधनम् ।। ३६ 

यत्नोऽपि त्यागिना कार्यो वर्त्मनानेन नान्यथा । स्वैरवृत्त्या तु नरकान्स प्राप्नोति न संशयः ।। ३७

षष्मासविधृतैर्जीर्तैर्गृहस्थाद्याचितैः सितैः । एका शीतहरा कन्था वस्त्रखण्डैर्विनिर्मिता ।। ३८

कौपीनयुगलं द्वे च तदाच्छादनवाससी ।एका च प्रच्छदपटी वस्त्रखण्डोऽम्बुगालनः ।। ३९

कर्णावधिः शिरष्टोपी चतुरस्रः शिरःपटः । एतान्ययाचितप्राप्तैर्निर्मितान्यंशुकैर्नवैः ।। ४०

पाकाय परिधानार्थमेक और्णः पटस्तथा । स्नातस्य शीतहर्त्र्येका जीर्णोर्णा नूतनाऽथवा ।। ४१ 

वस्त्रसङ्गह एतावांस्त्यागिनस्तु हितावहः । तत्रोर्णान्यानि तूक्तानि कार्पासान्यंशुकानि वै ।। ४२ 

एतान्यप्यल्पमूल्यानि स्थूलानि च सितानि च । धातुसूत्रविहीनानि ग्राह्याण्यावश्यके सति ।। ४३

सूक्ष्माणि च सधातूनि श्वेतवर्णेतराणि च । दीयमानान्यपि त्यागी न गृह्वीयात्कदाचन ।। ४४

याञ्चां विनेच्छयाऽन्येषामलाभे नूत्नवाससः । यावदर्थे जीर्णवासो याचेत्तेन न दोषभाक् ।। ४५

वस्त्राणि तान्यरुणयारञ्जितान्येव मृत्स्न्या । त्यागिना धारणीयानि न तु श्वेतानि कर्हिचित् ।। ४६ 

श्रीकृष्णार्चोपकरणं भवेदावश्यकं तु यत् । तञ्च स्न्पनपात्रादि त्यागी रक्षेदधातुकम् ।। ४७ 

सच्छास्त्रपुस्तकं तस्य लेखोपकरणानि च । यथोपयुक्तमेवासौ त्यागी रक्षेन्न चाधिकम् ।। ४८ 

काष्ठजं तुम्बिका वापि तेन पानीयपात्रकम् । तथाविधं भुक्तिपात्रमुमे ग्राह्ये अरञ्जिते ।। ४९ 

त्यागी नैव च कुर्वीत सर्वथा वित्तसंग्रहम् । स्वसत्ताकं च तत्कृत्वा परेणापि परेणापि न रक्षयेत् ।। ५० 

येन येन पदार्थेन वस्त्रपात्रगवादिना । उत्पद्येत धनं तं तं सङ्गीयान्न वै क्वचित् ।। ५१

चौर्ये कुर्यान्न च त्यागी कारयेन्नैव कर्हिचित् । चौरैः सह वसेन्नैव न रक्षेत्स्वाश्रमे च तान् ।। ५२ 

फलं पुष्पं च धान्यादि यद्यत्सखामिकं भवेत् । अयाचितं न तद्राह्यं त्यागिना पापभीरुणा ।। ५३ 

क्षेत्रं च वाटिकां वापि न कुर्यात्कारयेन्न च । निःक्षेपं च परस्यापि न रक्षेत्सर्वथा धनम् ।। ५४ 

प्रोक्तेषु नियमेष्वेषु यदि स्यात्कस्यचित्र्युतिः । तर्हि तस्य विधातव्यं त्यागिना निष्कृतं द्रुतम् ।। ५५

कृतं स्यात्स्वेन यत्किञ्चिदृष्कृतं लघु वा महत् । वाच्यं त्रिचतुराणां तत्पुरतो महतां सताम् ।। ५६

ततस्ते निषकृतं ब्रूयुः स्वपापस्य यथा तथा । आचरेत्प्रयतस्त्यागी देशकालानुसारतः ।। ५७ 

उक्ताधिकांशुकादाने नूत्नवस्त्रस्य याचने । सधातुसूक्ष्मश्वेतान्यवहुमूल्यांशुकग्रहे ।। ५८ 

सर्वश्वेतांशुकधृतावुक्ताधिकपरिग्रहे । एतेष्वन्यतमे दोषे पादकृञ्चछ्रव्रतं चरेत् ।। ५९

रक्षेद्वा रक्षयेद्दव्यं त्यागी स्वस्य परस्य वा । यावन्त्यहानि स्वर्णादि तावन्त्युपवसेच्छुचिः ।। ६०

अश्वादिवाहनं वापि गोमहिष्यादि वा मुनिः । यावन्त्यहानि संरक्षेत्तावन्त्युपवसेत्स च ।। ६१ 

चौर्यं कृतं फलादेश्चेत्तर्ह्युक्त्वा तत्सतां पुरः । तान्नमस्कृत्य साष्टाङ्गमेकं चोपवसेद्दिनम् ।। ६२

यागी यो नियमभ्रष्टः स त्वन्यैस्त्यागिभिर्द्रुतम् । बहिः स्वपेः कर्तव्यः सर्वथा तद्धितार्थिभिः ।। ६३ 

प्रायश्चित्तेन शुद्धः स्याद्यदा सन्मण्डले तदा । ग्रहीतव्यः स तु त्यागी सद्बिर्धर्मपथस्थितैः ।। ६४ 

सत्सङ्गविष्णु-भक्तिभ्यां सहैतैर्नियमैः श्रितैः । जीयते दुर्जयोऽप्येष लोभस्त्यागिभिरञ्जसा ।। ६५

जेतुं मया लोभमिमेह्युपायाः प्रोक्ताश्च दोषा अपि तत्र ये ते ।
कामस्य दोषानथ तज्जयस्य वदाम्युपायान्मुनिवर्य ! तुभ्यम् ।। ६६


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे त्यागिधर्मेषु लोभदोषतज्जयोपायनिरूपणनामा द्विषष्टितमोऽध्यायः ।। ६२ ।।