श्रीनारायणमुनिरुवाच -
दशम्यां शुक्लापक्षे तु ज्येष्ठे मासि कुजेऽहनि ।
अवतीर्णा भुवि स्वर्गाद्धस्तर्क्षे च सरिद्वरा ।। १
हरते दश पापानि तस्माद्दशहरा स्मृता ।
इयं योगवशात्पूर्वा ग्राह्या वापि परा तिथिः ।। २
मलमासे त्वियं कार्या पूर्वस्मिन्नेव नोत्तरे ।
उपचारैर्महद्बिस्तां लक्ष्मीमूर्ताविहार्चयेत् ।। ३
पूष्पैर्गन्धैश्च नैवैद्येः फलैश्च दशसङ्खया ।
तथा दीपैश्च ताम्बूलैः पूजयेच्छ्रद्धयार्चकः ।। ४
लक्ष्म्या मूर्तिर्न चेत्तर्हि हैमीं चारुचतुर्भुजाम् ।
चन्द्रश्वेतां च दधतीं कुम्भाम्भोजे वराभये ।। ५
सितवस्त्रां सिताभूषां प्रसन्नरुचिराननाम् ।
गङ्गा मूर्तिं विधायैव मध्याह्ने तां प्रपूजयेत् ।। ६
गङ्गाविर्भावपद्यानि गेयान्यत्र महोत्सवे ।
पूजनान्ते च भुञ्जीत विधिरन्यस्तु नैत्यकः ।। ७
ज्येष्ठे मासि भवेज्ज्येष्ठा यस्मिन्नर्कोदये दिने ।
तत्राभिषेकविधिना स्नपनीयो रमापतिः ।। ८
जलैरुज्जवलपात्रस्थैर्निर्मलैश्च सचन्दनैः ।
शङ्खेन स्नपयेत्कृष्णं मन्त्रैर्वेदपुराणगैः ।। ९
ततः पीतानि वासांसि धारयेद्रुक्मिणीपतिम् ।
उष्णीषं पाटलं चैव भूषा नानाविधा अपि ।। १०
सूपं भक्तं पोलिकां च वटिकां क्वथिकां तथा ।
व्यञ्जनानि च नैवेद्ये यथालब्धान्युपाहरेत् ।। ११
जलक्रीडनपद्यानि कृष्णस्यात्र च गापयेत् ।
भुञ्जीत पूजनान्ते च विधिरन्यस्तु नैत्यकः ।। १२
आषाढशुक्ले नक्षत्रं पुष्यः सूर्योदये यदा ।
तदा साश्वो रथःस्थाप्यः कृष्णस्याग्रे स्वलंकृतः ।। १३
वासांसि पीतरक्तानि धारयेद्बूषणानि च ।
परिमेयानि हेतीस्तु श्रीपतिं हेमनिर्मिताः ।। १४
नैवेद्ये दधि भक्तं च शर्करां गुडलड्डुकान् ।
दधान्नीराजयित्वाथ बालकृष्णं रथे न्यसेत् ।। १५
धृत्वा भोगांश्चतुर्वारं नीराज्योत्तारयेच्च तम् ।
गापयेद्रथयात्रां च विधिरन्यस्तु नैत्यकः ।। १६
शुचौ मासि प्रतिपदि द्वितीयायां च वा तिथौ ।
वृषराशेश्चन्द्रबले स्थाप्या दोला स्वलंकृता ।। १७
सायाह्ने प्रत्यहं कृष्णं बालं तत्र निधारयेत् ।
नीराजयित्वा द्वे नाडयौ भक्त आन्दोलयेत्ततः ।। १८
नभःकृष्णतृतीयायां नीराज्योत्तारयेच्च तम् ।
दोलाक्रीडान्वहं गेया विधिरन्यस्तु नैत्यकः ।। १९
श्रावणे शुक्लपक्षे तु चतुर्थ्यां भौमवासरे ।
मध्याह्ने ब्रह्मणो नस्तो वराहो जज्ञा ईश्वरः ।। २०
दिनद्वये तद्वयाप्त्यादौ चतुर्थ्येषा परा मता ।
वासुदेवं तत्र चार्चेद्वराहाभिधयाऽर्चकः ।। २१
धारयेत्तत्र वासांसि कौसुम्भानि रमापतिम् ।
नैवेद्ये पायसं दद्याद्वटकांश्च विशेषतः ।। २२
वराहजन्मपद्यानि गापयेदत्र तूत्सवे ।
पूजापि महती कार्या पूजनान्ते च भोजनम् ।। २३
अथवा कारयेद्धैमं वराहं शक्तितः पुमान् ।
नराङ्गं सूकरास्यं च मानक्पीनं सुभीषणम् ।। २४
चतुर्बाहुं गदाचक्रशङ्खपद्मविराजितम् ।
स्तूयमानं मुनिगणैर्बद्धाञ्जलिभिरानतैः ।। २५
श्रीर्वामकूर्परस्थाऽस्य धरानन्तौ पदानुगौ ।
कर्तव्यौ च ततः पूजां मध्याह्नेऽस्य समाचारेत् ।। २६
श्रावणे शुक्लपक्षे तु स्वव्रतैकादशीदिने ।
द्वादश्यां वा भगवते पवित्रं तु समर्पयेत् ।। २७
हैमं रौप्यं च वा क्षौमं कौशं कौशेयजं च वा ।
ब्राह्मण्या कर्तितैः सूत्रैर्निर्मितं वापि तच्छुभम् ।। २८
तत्रोत्तमं पवित्रं तु षष्टया सह शतैस्त्रिभिः ।
सप्तस्या सहितं द्वाभ्यां शताभ्यां मध्यमं स्मृतम् ।। २९
साशीतिना शतेनापि कनिष्ठं तत्समाचरेत् ।
साधारणपवित्राणि त्रिभिः सूत्रैः समाचरेत् ।। ३०
उत्तमं तु शतग्रन्थि पञ्चाशद्ग्रन्थि मध्यमम् ।
कनिष्ठं तु पवित्रं स्यात्षड्त्रिंशद्ग्रन्थि शोभनम् ।। ३१
अधमं नाभिमात्रं स्यादूरुमात्रं तु मध्यमम् ।
श्रेष्ठं तु तज्जानुमात्रं प्रतिमाया निगद्यते ।। ३२
विशेष इह चैतावान्विधिरन्यत्तु नित्यवत् ।
पूजनादि प्रकुर्वीत कमलाराधिकापतेः ।। ३३
कृष्णाष्टम्यां नभोमासे सुमत्यामजयात्प्रगे ।
उद्धवस्वामिनः साक्षात्प्रादुर्भावोऽभवद्बुवि ।। ३४
अतोऽत्र स्वामिनो मूर्तिं हैमीं शक्तया विनिर्मिताम् ।
पूजयेत्सर्वतोभद्रे महापूजाविधानतः ।। ३५
मूर्तिः सा पीवरी कार्या द्विभुजा च सदंशुका ।
विशालचारुनयना प्रसन्नमुखपङ्कजा ।। ३६
भक्तानुग्रहकृच्छान्ता करात्तजपमालिका ।
भक्तैश्चन्दनपुष्पाद्यैः पूजितातिमनोहरा ।। ३७
स्वामिनो जन्मकर्माणि पूजाकाले तु गापयेत् ।
जन्माष्टम्युत्सवं कुर्यात्ततः स तु पुरोदितः ।। ३८
इत्येते वार्षिकाः प्रोक्ताः श्रीविष्णोरुत्सवा मया ।
आवश्यकाः सुतौ ! नृणामुद्धवाध्वनि तिष्ठताम् ।। ३९
एतेषु तत्तत्समये भूषानैवेद्यवाससाम् ।
भेदः पृथक्पृथक् प्रोक्तः स ज्ञोयः सति वैभवे ।। ४०
देशकालधनादीमानुकूल्यं न यस्य तु ।
पुंसो भवेत्स तु स्वस्य कुर्याच्छक्तयनुसारतः ।। ४१
सति वित्ते तु न क्वापि शाठयं कुर्वीत् पूरुषः ।
श्रीविष्णोरुत्सवेष्वेषु तत्प्रसन्नत्वहेतुषु ।। ४२
उत्सवार्थं भगवत ऋणं कुर्वीत न क्वचित् ।
यतो भक्त्यर्पितेनासौ पत्रेणापि प्रतुष्यति ।। ४३
स्थिरा वापि चला यस्य समीपे प्रतिमा भवेत् ।
स पूजयेत्स्वशक्त्या तां धर्मान्प्रोक्तान् समाचरन् ।। ४४
अत्र या कथिता पूजा श्रीविष्णोरुत्सवेष्विह ।
तत्र मन्त्रास्तु विज्ञोयाः स्वाधिकारानुसारिणः ।। ४५
कार्या द्विजातिभिः पूजा मन्त्रैर्वेदपुराणगैः ।
शूद्रैः स्त्रीभिश्च सा कार्या नाममन्त्रै रमापतेः ।। ४६
अहिंसाब्रह्मचर्याद्याः पालनीयाः प्रयत्नतः ।
व्रताङ्गभूता नियमाः सर्वेष्वपि व्रतेष्विह ।। ४७
इत्थं भुवि करिष्यन्ति वैष्णवा ये तु मानवाः ।
तेऽतिप्रिया रमाभर्तुः प्राप्स्यन्त्येव हि तत्पदम् ।। ४८
सुव्रत उवाच -
इत्थं निशम्य भगवग्ददितं यथावत्संवत्सरोत्सवविधिं विदिताखिलार्थौ ।
तौ भ्रातरौ नरपते ! मुदितावभूतां तद्वच्च तं विदधतुः स्म तथाऽहतुः स्वान् ।। ४९
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वार्षिकव्रतोत्सवविधौ ज्येष्ठाषाढश्रावणोत्सवविधि निरूपणनामैकषष्टितमोऽध्यायः ।। ६१