श्री नारायणमुनिरुवाच -
फाल्गुने मासि फल्गुन्यामर्जुनस्य तु जन्मभे । चिक्रीड रैवते कृष्णः सह तेन च यादवैः ।। १
दोलारूढं सार्जुनं तं यादवा मुदितान्तराः । सम्पूज्यान्दोलयामासुश्चिक्रीडुश्च तदग्रतः ।। २
कृष्णयोरेतयोः पूर्वं प्रादुर्भावश्च धर्मतः । नरनारायणाख्योऽभूद्योगेऽस्मिन्नेव पुत्रकौ ! ।। ३
धर्माश्रमे निबद्धायां दोलायां तं समर्च्य च । देवा आन्दोलयामासुरतः कार्योऽत्र चोत्सवः ।। ४
सूर्योदये स्यान्नक्षत्रमार्यम्णं यत्र तद्दिने । कार्यो दोलोत्सवः पूर्वे दिने तच्चेद्दिनद्वये ।। ५
वसन्तोत्सववत्कार्यं श्रीकृष्णस्यार्चनं त्विह । नरनारायणार्चायां विशेषं वच्मि कञ्चन ।। ६
प्रातः पूजां प्रकुर्वीत नरनारायणप्रभोः । उपचारैः षोडशभिर्महानीराजनेन च ।। ७
सितैः सूक्ष्मैश्च वासोभिः सितैः सुरभिचन्दनैः । सितैः सुगन्धिभिः पुष्पैः पूजयेत्तुलसीदलैः ।। ८
नैवेद्ये पायसं दयाद्बदराणि फलानि च । दोलायां दक्षिणास्यं तं संस्थाप्यान्दोलयेत्पुमान् ।। ९
मूर्तिः स्थिरा यदि भवेद्बालकृष्णं तदार्चकः । स्थापयेत्तत्र दोलायां गीतावादित्रपूर्वकम् ।। १०
वासन्तिंकैश्च पुष्पाद्यैस्तस्य कुर्वीत पूजनम् । ततो रङ्गगुलालैश्च क्रीडेयुर्भगवज्जनाः ।। ११
वसन्तोत्सववज्ज्ञोया क्रीडा मर्यादयाऽत्र च । दोलोत्सवस्य पद्यानि गापयेद्धर्मपुत्रयोः ।। १२
नीराजयित्वा दोलाया उत्तार्य स्वापयेत्प्रभुम् । भोजयित्वा हरिजनान् मुख्यो भुञ्जीत पूजकः ।। १३
ततो द्वितीयदिवसे मन्दिरं परिमार्जयेत् । यथा रङ्गगुलालादेस्तिष्ठेल्लेशोऽपि न क्वचित् ।। १४
वस्त्राणि च वितानादीन् सर्वांस्तान् क्षालयेत्तया । अन्यानि धारयेच्चेति विशेषोऽन्यत्तु पूर्ववत् ।। १५
चैत्रशुक्लतृतीयायां कृतमालानदीजले । सत्यव्रतनृपस्याग्रे मत्स्यः प्रादुरभूद्धरिः ।। १६
तृतीया मत्स्यपूजायां स्पृष्टा सूर्योदयं तु या । सा ग्राह्याऽथोभयदिने व्याप्त्यादौ पूर्वयुक् शुभा ।। १७
तस्मिन्दिने वासुदेवं मत्स्यरूपेण पूजयेत् । सौवर्णीमथवा शक्त्या मूर्तिं मत्स्यस्य कारयेत् ।। १८
वामे शङ्खं गदां दक्षे दधद्दोष्ण्यर्धमानुषः । मत्स्याकृतिरधोभागे मत्स्यः कार्योऽत्र पूजने ।। १९
नैवेद्ये दधिभक्तं च दध्यक्तान्वटकांस्तथा । अर्पयेग्दापयेद्बक्तो मत्स्यजन्मकथामिह ।। २०
एतावांस्तु विशेषोऽत्र विधिरन्यस्तु नैत्यकः । महानीराजनस्यान्ते भोजनं चात्र कीर्तितम् ।। २१
चैत्रे नवम्यां प्राक्पक्षे दिवा ऋक्षे पुनर्वसौ । उदये गुरुगौरांश्वोः स्वोच्चस्थे ग्रहपञ्चके ।। २२
मेषे पूषणि सम्प्राप्ते लग्ने कर्कटाकाह्वये । आविरासीद्दशरथात्कौसल्यायां परः पुमान् ।। २३
अष्टमीवेधरहिता मध्याह्नव्यापिनी तिथिः । नवम्येषा ग्रहीतव्या रामर्चन उपोषणे ।। २४
मध्याह्नव्यापिनी चेत्स्यान्नवमी तु दिनद्वये । अव्याप्ता वा भवेत्तर्हि ग्रहीतव्या परैव सा ।। २५
विद्धाष्टम्या सऋक्षापि त्याज्यैव नवमीतिथिः । केवलापि परोपोष्या नवमीशब्दसङ्ग्रहात् ।। २६
विद्धायास्तु क्षये प्राप्ते ग्रहीतव्यापि पूर्वयुक् । कर्तव्य उपवासोऽत्र रामचन्द्रस्य चार्चनम् ।। २७
मुकुटं धारयेदत्र भगवन्तं रमापतिम् । पीताम्बरं धनुर्बाणौ हैमं कटिपटं तथा ।। २८
नैवेद्ये कैसरं भक्तं दद्यान्मौक्तिकलड्डुकान् । शर्करां दधि दुग्धं च विधिरन्यस्तु नैत्यकः ।। २९
अस्मिन्दिनेऽथ मध्याह्ने कृष्णं रामाख्ययाऽर्चयेत् । हैमं वा कारयेद्रामं राजलक्षणलक्षितम् ।। ३०
युवा प्रसन्नवदनः सिंहस्कन्धो महाबलः । दीर्घबाहुद्वयः कार्यो रामो बाणधनुर्धरः ।। ३१
महापूजां तस्य कुर्वन् गीतवादित्रपूर्वकम् । श्रीरामजन्मपद्यानि भक्तो गायेच्च गापयेत् ।। ३२
उपवासव्रती रामं परेऽह्नयभ्यर्च्य तं पुनः । सन्तर्प्य साधून्विप्रांश्च भक्तः कुर्वीत पारणाम् ।। ३३
एकादशी मधौ शुक्ला विमलाख्या प्रकीर्तिता। महापूजां विधायात्र दोलामारोहयेत्प्रभुम् ।। ३४
सुगन्धिपुष्पमय्यां तु तस्यां तं घटिकाद्वयम् । आन्दोलयित्वा नीराज्य भक्त उत्तारयेत्ततः ।। ३५
विशेष इह चैतावानन्यस्त्वेकादशीविधिः । सामान्य एव विज्ञोयो व्रतग्रन्थनिरूपितः ।। ३६
वैशाखे शुक्लपक्षे च प्रतिपद्यब्धिमन्थने । क्रियमाणे सुरैर्दैत्यैः प्रातः कूर्मोऽभवद्धरिः ।। ३७
ग्राह्या सूर्योदयव्याप्ता प्रतिपत्कूर्मपूजने । दिनद्वये तद्वयाप्त्यादौ ग्राह्या परयुतैव हि ।। ३८
अत्र कूर्मस्वरूपेण वासुदेवं समर्चयेत् । यद्वाऽर्चकेन सौवर्णः कूर्मः कार्यः स्वशक्तितः ।। ३९
उत्तराङ्गं नराकारं पूर्वाङ्गं चास्य कूर्मवत् । कार्यं च द्वौ भुजौ तत्र कुर्याच्छङ्खं गदां तथा ।। ४०
तमर्चेत्सर्वतोभद्रे यथालब्धोपचारकैः । नैवेद्य लड्डुकान्दद्याद्विधिरन्यस्तु नैत्यकः ।। ४१
इत आरभ्य नित्यं च प्रभोर्गङ्गोत्सवावधि ।अर्पयेत्पूजने पेयं चिञ्चावारि सशर्करम् ।। ४२
नैवेद्ये चान्वहं दद्याच्छकर्रां दधि चोत्तमम् । अत्र कूर्मकथा गेया पूजनान्ते तु भोजनम् ।। ४३
वैशाखस्य सिते पक्षे तृतीयायां पुनर्वसौ । अह्नोऽष्टमे मुहूर्ते च राहौ मिथुनराशिगे ।। ४४
स्वोच्चस्थे ग्रहषट्टे च जमदग्नेस्तु योषिति । वासुदेवो रेणुकायां प्रादुरासीद्धरातले ।। ४५
तृतीयैषा ग्रहीतव्या पूर्वाव्यापिनी बुधैः । दिनद्वये तद्वयाप्त्यादौ परा रामार्चने मता ।। ४६
अत्र भार्गवरूपेण वासुदेवस्य कारयेत् । मध्याह्ने तु महापूजां ततः कुर्वीत भोजनम् ।। ४७
अथवा पूजको हैमं निजशक्तयनुसारतः । कारयेत्पर्शुरामं तु रोषस्फारित-लोचनम् ।। ४८
द्विभुजं पर्शुहस्तं तं जटामण्डलमण्डितम् । पूजयेन्मण्डपे प्राग्वग्दापयेत्तत्कथां तथा ।। ४९
इत आरभ्य नित्यं च स्नानयात्रावधि प्रभुम् । धारयेग्दन्धवासांसि वासांसि च सिताम्यपि ।। ५०
उशीरतालवृन्तैश्च नवीनैः रम्यदर्शनैः । वीजयेत्प्रत्यहं देवं काले काले च पूजकः ।। ५१
नैवेद्ये प्रत्यहं दद्याद्रसमाम्रफलोद्बवम् । शर्करां चेति विज्ञोयो विशेषोऽन्यत्तु नैत्यकम् ।। ५२
वैशास्वस्य चतुर्दश्यां सोमवारेऽनिलर्क्षके । अवतारो नृसिंहस्य जातो दैत्यवधाय हि ।। ५३
त्रयोदशीवेधहीना शुद्धा ग्राह्या चतुर्दशी । शुद्धाधिकायां पूर्वास्यां विद्धायाश्च क्षये तु सा ।। ५४
नरसिंहाभिधानेन कृष्णमत्र समर्चयेत् । सूपचारैः प्रदोषे तु पूजान्तेऽपि न पारयेत् ।। ५५
निजशक्त्यनुसारेण पूजकः पुरुषोऽथवा । सौवर्णं कारयेद्देवं नरसिंहं भयङ्करम् ।। ५६
पीनस्कन्धकटिग्रीवं कृशमध्यं कृशोदरम् । सिंहासननं नृदेहं च सर्वाभरणभूषितम् ।। ५७
ज्वालामालाकुलमुखं ललज्जिह्वोग्रदंष्ट्रकम् । हिरण्यकशिपोर्वक्षः पाटयन्तं नखैः खरैः ।। ५८
एवंविधं नृसिंहं तं पूजयेन्मण्डपोत्तमे । निवेदयेत् खाजकानि भूरीणि वटकानि च ।। ५९
नृसिंहजन्मपद्यानि गापयेत् पूजनोत्सवे । एतावान्हि विशेषोऽत्र विधिरन्यस्तु पूर्ववत् ।। ६०
इत्थं मया फाल्गुनचैत्रराधमासोत्सवा वां कथिता हि पुत्रौ ! ।
ज्येष्ठे शुचौ श्रावणिकेऽथ मासे च उत्सवास्तद्विधिमद्य वच्मि ।। ६१
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वार्षिकव्रतोत्सवविधौ फाल्गुनचैत्रवैशाखोत्सवविधिनिरूपणनामा षष्टितमोऽध्यायः ।। ६०