एकोनषष्टितमोऽध्यायः

श्रीनारायणमुनिरुवाच- 


धनूराशिं गते सूर्ये धनुर्लग्ने रमापतिम् । विधायाभ्यङ्गमुष्णेन स्रपयेद्वारिणा पुमान् ।। १ 

परिधाप्य च वासांसि तदग्रेऽग्रिष्टिकामपि । निधाय नैत्यकं कुर्याच्छृङ्गारं सश्रियः प्रभोः ।। २

नैवेद्ये मोदकान् दद्यान्नवनीतं तथा दधि । आज्यं भर्जितवृन्ताकं तरलां च समर्पयेत् ।। ३

उपर्यधः श्वेततिलं बर्जरीरोटकं तथा । निवेदयेच्च पद्यानि तद्गुणान्येव गापयेत् ।। ४

चत्वारिंशत्तु घटिका मकरे सङ्क्रमाद्रवेः । स्नानार्चापुण्यकर्मादौ ग्राह्याः प्रोक्ताः महर्षिभिः ।। ५

अस्तं गते यदा सूर्ये झषं यायाद्दिवाकरः । प्रदोषे वार्धरात्रे वा तदा ग्राह्यं परं दिनम् ।। ६

मृगराशिं गते भानौ नैवेद्ये तिललड्डुकान् । श्राणां दद्याद्विशेषेण विधिरन्यस्तु नैत्यकः ।। ७

माघमासे शुक्लपक्षे पञ्चम्यां द्वारिकेश्वरः । रैवताद्रिमुपेयाय प्रत्यूषे रथामास्थितः ।। ८ 

लक्ष्मीभामादिभिः स्त्रीभिः सहितः पार्षदैस्तथा ।युयुधानोद्धवमुखैः सह सङ्कर्षणेन च ।। ९

मुनिभिर्नारदाद्यैश्च सख्या बीभत्सुना सह । अन्यैश्च यादवैस्तत्र चिक्रीड बहुधा प्रभुः ।। १०

अबीरेण गुलालेन रङ्गैः पीतैस्तथाऽरुणैः । रेमे स जलयन्त्रैश्च जलकेलिं चकार च ।। ११

तेषां विक्रीडतां दोर्भ्यो गुलालं तु तथोद्वतम् । सवृक्षोऽपि यथा सोऽद्रिः सर्वोऽप्यरुणतां ययौ ।। १२ 

ग्राह्या सूर्योदयव्याप्ता पञ्चमी तु मधूत्सवे । आधिक्ये प्रथमा हासे पूर्वविद्धा प्रशस्यते ।। १३

तस्मिन् दिने तु वासांसि प्रभुं श्वेतानि धारयेत् । उल्लोचास्तरणादीनि श्वेतान्येव च कारयेत् ।। १४

रङ्गं च रुक्मिणीकृष्णवासस्सु प्रक्षिपेत्ततः । गुलालं स्थलपद्माम्बु निक्षिपेच्च पुनः पुनः ।। १५

शेखरं चाम्रपुष्पस्य धारयेच्चे निवेदयेत् । शष्कुलीप्रमुखान्येव पक्वान्नानि विशेषतः ।। १६ 

क्षेपो रङ्गगुलालादेस्तत आरभ्य चान्वहम् । होलिकावधि कर्तव्यः कैसराण्यंशुकानि च ।। १७

वासन्ती भगवत्क्रीडा गातव्या पूर्णिमावधि । मासमेकं ततो नित्यं गेया लीला च फाल्गुनी ।। १८

तस्मिन्दिने तु कर्तव्यो गोधूमैः शालिभिश्च वा । रैवताद्रिर्यथाशक्ति छाद्यः पीतेन वाससा ।। १९

द्रुमांश्च परितस्तस्य कुर्यादाम्रादिपल्लवैः । नदीं गोमुखगङ्गां च पयसाऽज्येन तत्र वा ।। २०

 रुक्मिणीकृष्णमूर्तिं च तन्मध्यशिखरे ततः । सौवर्णी स्थापयेत्तस्य परितश्चाङ्गदेवताः ।। २१

तत्र कृष्णो द्विबाहुश्च कर्तव्यश्चक्रशङ्खधृत् । लक्ष्मीश्च द्विभुजा कार्या पद्मभृङ्गारधारिणी ।। २२

सत्यभामादयो योषा रामश्चार्जुनसात्यकी । उद्धवाद्याः पार्षदाश्च नारदाद्या महर्षयः ।। २३

सस्त्रीका यादवाश्चान्ये स्थाप्याः पूगीफलादिषु । आवाह्य पूजयेत्कृष्णं ततः साङ्गं यथाविधि ।। २४ 

नैवेद्यऽत्र तु दातव्यं खर्जूरं खारिकास्तथा । नालिकेरं शर्करां च लाजाश्च चणकैः सह ।। २५

द्राक्षाश्च पीतसाराणि पिण्डकांश्च निवेदयेत् ।तस्मिन् रङ्गं गुलालं च क्षिपेन्नीराजनोत्तरम् ।। २६

भक्ताः परस्परं रङ्गगुलालैः क्रीडनं नराः । ततः कुर्युर्योषितश्च क्रीडामेव परस्परम् ।। २७

विधवाभिस्तु नारिभिः साधुभिर्वर्णिभिस्तथा । गुलालरङ्गक्रीडैषा न कर्तव्या कदाचन ।। २८ 

यदि तेषु क्षिपेत्कश्चिद्गुलालं रङ्गमेव वा ।तर्हि स्नात्वा सचैलं तैर्जप्यं नाम्नां शतं हरेः ।। २९ 

प्रमादाच्चेत्स्वयं क्रीडां कुर्युस्ते तर्हि तद्दिने । स्नात्वोपवासं कुर्वीरन्स्मरन्तो हृदये हरिम् ।। ३०

क्रीडित्वाऽथ हरेर्भक्ताः स्नात्वा मध्याह्नतः परम् । कुर्वीरन्भोजनं सर्वे विधिरन्यस्तु नैत्यकः ।। ३१

निशीथव्यापिनी ग्राह्या माघे शिवचतुर्दशी । दिनद्वये तद्वयात्र्यादौ ग्रहीतव्या तु सा परा ।। ३२

तस्मिन्दिने वासुदेवं चित्रवासांसि धारयेत् । श्रियं च कर्बुरां शाटीं हैमान्याभरणानि च ।। ३३ 

महाभिषेकविधिना रुद्रसूक्तेन शङ्करम् । निशीथे पूजयेत्प्रीत्या सगणं श्रीफलच्छदैः ।। ३४

मल्लिकाकुन्दपुष्पैश्च कनकैः करवीरकैः ।नैवेद्ये क्षैरवटकान्दद्यात्तत उपावसेत् ।। ३५

एकात्म्यपद्यानि तदा गापयेद्धरिरुद्रयोः । एतावान्हि विशेषोऽत्र विधिरन्यस्तु नैत्यकः ।। ३६

मार्गपौषतपसां मयोत्सवाः कीर्तिताः सविधयः सुतौ ! युवाम् ।
कीर्तयाम्यथ तपस्यचैत्रयो राधामासि च भवन्ति ये च तान् ।। ३७


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वार्षिकव्रतोत्सवविधौ मार्गशीर्षपोषमाघमासोत्सव विधिनिरूपणनामौकोनषष्टितमोऽध्यायः ।। ५९