अष्टपञ्चाशत्तमोऽध्यायः

श्री नारायणमुनिरुवाच -


सायाह्नव्यापिनी ग्राह्या प्रतिपत्कार्तिके सिता । पूर्वविद्धैव सुखदा प्रोक्ता गोवर्धनोत्सवे ।। १ 

गवां क्रीडादिने यत्र रात्रौ दृश्येत् चन्द्रमाः । सोमो राजा पशून् हन्ति सुरभिपूजकांस्तथा ।। २

संलग्नमेव कर्तव्यं दीपावल्या दिनत्रयम् चतुर्दशी ह्यमावास्या प्रतिपञ्चेति नान्यथा ।। ३

पीताम्बरं तदा कृष्णं धारयेद्रक्तपल्लवम् । मयूरपिच्छमुकुटं कर्णिकारावतंसकौ ।। ४

पञ्चवर्णैश्च कुसुमैर्मालां विरचितां शुभाम् ।वैजयन्तीं शेखरांश्च धारयेन्मुरलीं तथा ।। ५

भूषणानि विचित्राणि तुलसीमालिकां तथा । प्रावारं द्विपटं तिर्यग्धारयेत् स्कन्धलम्बितम् ।। ६

अन्नकूटं विरचयेत्स्वस्य वित्तानुसारतः । नानाविधानि शाकानि भज्यानि विविधानि च ।। ७

घृतपक्व विशेषांश्च कृतान्नानाविधानपि । ओदनादीनि भोज्यानि श्रीकृष्णाय निवेदयेत् ।। ८

ताम्बूलवीटिका दत्त्वा महानीराजनं हरेः । कृत्वा विप्रान्वैष्णवांश्च साधून्प्रीत्यैव भोजयेत् ।। ९

अस्मिन्नेव दिने प्रातः पूजयेग्दाश्च वत्सकान् । वृषान्वत्सतरीश्चापि हरिद्राकुंकुमादिभिः ।।१०

पौष्पैर्हारैः शृङ्गरङ्गैर्नूतनैश्च तृणादिभिः । सम्पूज्य खेलयेत्तांश्च मन्दिरस्याग्रतो हरेः ।। ११

गोवर्धनं गोमयेन कृत्वाऽर्चेच्च ततः परम् । अन्नकूटं तु मध्याह्ने विदधीत हरेः पुरः ।। १२

गोवर्धनोत्सवकथापद्यानि रुचिराणि च । गापयेत्कीर्तयेदत्र वाद्यघोषं च कारयेत् ।। १३

भोजनान्ते वैष्णवानां भुञ्जीत स च सेवकः । एतावान् हि विशेषोऽत्र विधिरन्यस्तु नैत्यकः ।। १४

शुक्लाष्टम्यामूर्जमासे कृष्णो वृन्दावने पुरा । प्रथमं चारयामास प्रातर्गाः सह गोपकैः ।। १५

सूर्योदये भवेद्या सा ग्राह्या गोपाष्टमी तिथिः । तिथेर्वृद्धौ क्षये पूर्वा विद्धा ग्राह्या न चान्यथा ।। १६

तस्मिन्दिने गोपवेषं धारयेत्कृष्णमुत्तमम् । कच्छनीं बर्हमुकुटं धारयेत्पीतमम्बरम् ।। १७

चर्चयेच्चन्दनेनाङ्गं पौष्पीर्भूषास्तु भूरिशः । धारयेच्च करे यष्टिं मुरलीं च मनोहराम् ।। १८

नैवेद्ये दधि भक्तं च दधात्पेषितशर्कराम् । कृष्णगोचारणकथापद्यानीह च गापयेत् ।। १९

एकादश्यामूर्जशुक्ले शेषशायी जगत्प्रभुः । योगेश्वरो जजागार तेनोक्तैषा प्रबोधनी ।। २०

दशमीवेधरहिता तिथिरेकादशी व्रते । उत्सवे च ग्रहीतव्या न तु विद्धा कदाचन ।। २१

दशमी पञ्चपञ्चाशद्धटिका यावदस्ति च । न तावद्दशमीवेधस्तत ऊर्ध्वं स वै मतः ।। २२

एकादशी द्वादशी वाधिका चेत्त्यज्यतां दिनम् । पूर्वे ग्राह्यं तूत्तरं स्यादिति वैष्णवनिर्णयः ।। २३

नवमी पलमेकं स्याद्दशमी परतो यदि । द्वादश्येव तदा ग्राह्या व्रतेष्वप्युत्सवेषु च ।। २४ 

निशः क्षण उपान्त्येऽत्र समुत्थायाशु वैष्णवः । स्नात्वा सन्ध्याविधिं कृत्वा पूजाद्रव्याण्युपाहरेत् ।। २५

योगेश्वराख्याभ्यर्चेच्छ्रीकृष्णं पुरुषोऽर्चकः । योगेश्वरार्चां हैमीं वा कारयेन्निजशक्तितः ।। २६

पद्मासनसमासीनः किञ्चिन्मीलितलोचनः । घ्राणाग्रे दत्तदृष्टिश्च श्वेतपद्मोपरि स्थितः ।। २७

वामदक्षिणगौ हस्तावुत्तानावङ्कभागगौ । तत्करद्वयपार्श्वस्थे पङ्केरुहमहागदे ।। २८ 

ऊर्ध्वे करद्वये तस्य पाञ्चजन्यसुदर्शने । कारयेद्वामभागे च तस्य लक्ष्मीमवस्थिताम् ।। २९

इत्थं योगेश्वरं कृत्वा महत्या पूजयार्चयेत् । उपचारैः षोडशभिर्गीतवादित्रपूर्वकम् ।। ३०

नैवेद्ये तस्य दद्याञ्च शर्करासहितं पयः । ओदनं चातिमृदुलं द्राक्षादीनि फलानि च ।। ३१

अत्र मध्याह्नसमये कार्यो धर्मार्चनोत्सवः । धर्मस्यार्चा न चेत्तर्हि हैमं धर्मे तु कारयेत् ।। ३२

भगवन्मदिरस्याग्रे मण्डपं पूर्ववच्छुभम् । कृत्वा च सर्वतोभद्रे यथाशास्त्रं तमर्चयेत् ।। ३३

चतुर्वक्त्रश्चतुर्बाहुश्चतुष्पाच्च सिताम्बरः। सर्वाभरणवाञ्छ्वेतो धर्मः कार्यः सुलक्षणः ।। ३४

दक्षिणे चाक्षमालाऽस्य करे वामे तु पुस्तकम् । मूर्तिमान्व्यवसायश्च कार्यो दक्षिणभागगः ।। ३५

वामभागगतः कार्यः सुखः परमरूपवान् । कार्यौ पद्मकरौ मूर्ध्नि विन्यस्तौ च तथा तयोः ।। ३६

अथवा धर्म एषोऽपि कर्तव्यो मनुजाकृतिः । एकवक्त्रो द्विबाहुश्च द्विपात्सुवसनादिमान् ।। ३७

वामे धर्मस्य कर्तव्या भक्तिः परमरूपिणी । द्विभुजा भूरिभूषाढया कौसुम्भविमलाम्बरा ।। ३८ 

हैमं भृङ्गारकं वामे दक्षिणे बिभ्रती करे । पूजापात्रं भृतं मुक्तास्रग्गन्धकुसुमादिभिः ।। ३९

मूर्तिमित्थं तयोः कृत्वा स्वशक्तया कनकादिभिः । सप्तर्षिभिररुन्धत्या सह कार्यं तदर्चनम् ।। ४०

दर्भपिञ्जूलकैः कार्या ऋषयः कश्यपादयः । सप्त चारुन्धती वा ते कर्तव्याश्चन्दनादिना ।। ४१

श्रद्धामैत्रीदया शान्तिप्रमुखा इतरा अपि । पूजनीयास्तदानीं च धर्मस्य द्वादश स्त्रियः ।। ४२

तस्मिन्दिने तु सकले कारयेदुन्दुभिध्वनिम् । नामसङ्कीर्तनं विष्णास्तद्गुणानां च गायनम् ।। ४३

नित्यार्च्यां भगवन्मूर्तिं शृङ्गारं धारयेत्तदा । महान्तमेव मुकुटं पीतं चाम्बरमुत्तमम् ।। ४४

अनर्घ्याणि च वासांसि रक्तान्याभूषणानि च । नानारत्नमयान्येव धारयेदर्चकः श्रियम् ।। ४५

विशेषतोऽस्य नैवेद्ये दातव्या घृतपूरकाः । नीराजने च कर्पूरं विधिरन्यस्तु नैत्यकः ।। ४६

सायं तदग्रे कुर्वीत वैपणीं रचनामपि । नवीनं स्थापयेदन्नं तत्र पात्रे पृथक् पृथक् ।। ४७

नानाविधानि शाकानि फलानि विविधानि च । इक्षुदण्डान्निदध्याच्च पिण्डकादीन्विभागशः । ४८

अस्मिन् दिने औद्धवीयैरेकादश्यधिकारिभिः । जलं विनाऽन्यत्किमपि भक्ष्यं नैवापदं विना ।। ४९

एकादश्यधिपश्चात्र राधादामोदराभिधः । पूजनीयो हि भगवान् कुम्भीपुष्पैश्च वाम्बुजैः ।। ५०

नैवेद्ये तस्य दातव्या मुद्वचूर्णाख्यलड्डुकाः । सेपतो विधिरिति प्रबोधन्या मयोदितः ।। ५१

प्रत्येकादशि कर्तव्यं श्रीकृष्णस्य महार्चनम् । व्रतग्रन्थोक्तरीत्यैव ज्ञोय एकादशीविधिः ।। ५२

एकादशीषु सर्वासु कथा याः स्युस्तदाश्रिताः । ता एव गापयेत्प्रीत्या शृणुयात्कीर्तयेत्पुमान् ।। ५३

ऊर्जे मासि शुक्लपक्षे सायाह्नव्यापिनी तु या । द्वादशी सा ग्रहीतव्या तुलस्युद्वाहकर्मणि ।। ५४

उष्णीषं धारयेत्कृष्णं कौसुम्भं द्वादशीदिने । अनेकमुक्तापुष्पादिशेखरांश्च मनोहरान् ।। ५५

हेमसूत्रमयं रक्तं कञ्चुकं चापि धारयेत् । हेमवर्णो तथा शाटीं लक्ष्मीं तु परिधापयेत् ।। ५६

गुडौदनं च नैवेद्ये विशेषेण समर्पयेत् । सायं विष्णुं च तुलसीं पूजयेच्चारुमण्डपे ।। ५७

शालग्रामं च वा कृष्णप्रतिमां तुलसीं तथा । उपचारैः षोडशभिर्गोधूलिसमयेऽर्चयेत् ।। ५८

पीताम्बरं कण्ठसूत्रं नासाभूषां च कङ्कणान् । हरिद्रां कुंकुमादीनि वृन्दादेव्यै समर्पयेत् ।। ५९

फलानि तत्कालजानि सेक्षुदण्डानि चार्पयेत् । नैवेद्ये पीतसाराणि खाजकानि विशेषतः ।। ६०

कृत्वा नीराजनं वृन्दाकृष्णयोश्चान्तरे पटम् । पठित्वा मङ्गलं दद्यात्तां सङ्कल्प्य च विष्णवे ।। ६१

ब्राह्मणान्भोजयेत्तत्र दद्याद्दानानि शक्तितः । वृन्दाविवाहपद्यानि गापयेदत्र तूत्सवे ।। ६२

कार्तिके मासि शुक्लायां प्राप्तायामुदयं रवेः । पौर्णमास्यां रमाकान्तं धारयेन्मुकुटं शुभम् ।। ६३

संयावपूरिकाभक्तक्व थिकासूपसूरणान् । वृन्ताकशाकं नैवेद्ये विशेषेण समर्पयेत् ।। ६४

दीपानां राजयः कार्या मन्दिरं सर्वतो निशि । घृतदीपाः प्रभोरग्रे कर्तव्या निशि शक्तितः ।। ६५

चन्द्रोदयोऽत्र कर्तव्यं भक्तिदेव्याः समर्चनम् । धर्मेण सहितायास्तु गीतवादित्रनादयुक् ।। ६६

प्रतिमा यत्र भक्तेस्तु न भवेत्तत्र सेवकः । हैमीं विधाप्य तन्मूर्तिं शक्त्या कुर्वीत् पूजनम् ।। ६७ 

सरामस्यात्र कृष्णस्य निशि गोपीजनैः सह । क्रीडाश्रितानि पद्यानि भक्तो गायेच्च गापयेत् ।। ६८

इत आरभ्य नित्यं च सतूलं कञ्चुकं हरिम् । धारयेच्च श्रियं भक्तया सूक्ष्मां तूलपटीमपि ।। ६९

शयने निशि कृष्णस्य निदध्याद्गुप्तदोरकम् । प्रत्यहं फाल्गुनी यावत्पौर्णमासी भवेत्तिथिः ।। ७०

इत आरभ्य रात्रौ च वैष्णवैरपि मानवैः । स्वापे शीतनिवृत्त्यर्थं प्रावार्थं गुप्तदोरकम् ।। ७१

उक्ता मया कार्तिकमासि विष्णोर्य उत्सवास्ते तनयौ ! युवाभ्याम् ।
मार्गादिमासेष्वथ ये भवन्ति तानप्यहं वां सविधीन्वदामि ।। ७२


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वार्षिकव्रतोत्सवविधौ कार्तिकोत्सवविधिनिरूपणनामाऽष्टपञ्चाशत्तमोऽध्यायः ।। ५८