सुव्रत उवाच -
एकादश्यां निर्जलायां नारायणमुनिर्नृप ! । पुत्राभ्यां प्रददौ दीक्षां द्विविधां स्वयमेव हि ।। १
दीक्षिताभ्यां ततस्ताभ्यां तत्स्त्रीभ्यामपि स स्विकाम् । दीक्षां प्रदापयामास सामान्यां महतीमपि ।।२
तदा महान्तमकरोत्कृष्णार्चनमहोत्सवम् । साधूंश्च सकलान्विप्रान् यथेष्टं समभोजयत् ।। ३
देशान्तरेभ्योऽपि भक्तास्तत्राऽयाताः सहस्रशः । पुरुषा योषितश्चाऽसन् वर्णिनः साधवस्तथा ।। ४
स्ननयात्रोत्सवस्यान्ते सभा तत्र महत्यभूत् । मर्यादया भक्तजना निषेदुस्तत्र सर्वशः ।। ५
नारायणश्च तन्मध्य उञ्चासन उपाविशत् । मुखारविन्दं तस्यैव ते च पश्यन्त आसत ।। ६
तानुवाच हरिर्भक्ताः ! सर्वे शृणुत मद्वचः । दीक्षितानां फलं भक्तेः शीघ्रं भवति वै नृणाम् ।। ७
यथाधिकारं दीक्षाऽतो सामान्या महती तथा । ग्राह्या पुम्भिश्च नारीभिः स्थितैरुद्धववर्त्मनि ।। ८
लक्ष्मीनारायणस्यात्र खण्डे स्युः पुरुषास्तु ये । गृन्तु रघुवीरात्ते दीक्षां तु द्विविधामपि ।। ९
तेषां स्त्रियश्च गृातु रघुवीरस्य योषितः । सकाशाद्विविधां दीक्षां न तु पुंसः कदाचन ।। १०
नरनारायणस्यात्र खण्डे स्युः पुरुषाश्च ये । दीक्षाऽयोध्याप्रसादात्तु गृह्यतां द्विविधापि तैः ।। ११
तेषां स्त्रियस्तु यास्ताभिर्दीक्षा तस्यैव योषितः । सकाशाद्गृह्यतां द्वेधा नान्यथा तु कदाचन ।। १२
वासुदेवीमिमां दीक्षां गृहीत्वाऽथानुवासरम् । पूजनार्थं च कृष्णार्चा ग्राह्या स्वस्वगुरोर्जनाः ! ।। १३
यथाधिकारं कर्तव्यं यथार्हं च तदर्चनम् । स्थित्वा सर्वैः स्वधर्मेषु नान्यथा तु मदाश्रितैः ।। १४
धर्मेषु संशयः कश्चिच्चित्ते स्याद्यदि कस्यचित् । तदा यथावकाशं तं स पृच्छतु सुखेन माम् ।। १५
सुव्रत उवाच -
एवमुक्ते भगवता ते तथेत्यवदन् जनाः । हरिर्निजावासमायात्स्वस्वावासान् ययुश्च ते ।। १६
यथाधिकारं च ततो यथाकालं हरिर्निजान् । पुत्राभ्यां दीक्षयामास सर्वानपि विभागशः ।। १७
ततश्च रघुवीरेण तच्छिष्येभ्यो हरिर्नृप ! । राधाकृष्णस्य च स्वस्य लेख्यार्चामप्यदापयत् ।। १८
तथाऽयोध्याप्रसादेन तच्छिष्येभ्यश्च सर्वशः । नरनारायणस्यार्चां तथा स्वस्याप्यदापयत् ।। १९
ततस्तयोस्तु भार्याभ्यां नारीभ्योऽपि यथोचितम् । द्विविधां दापयामास दीक्षां सर्वाभ्य ईश्वरः ।। २०
यथाविभागं च ततो नित्यार्च्यं प्रतिमाद्वयम् । ताभ्योऽपि दापयामास ताभ्यामेव पृथक् पृथक् ।। २१
इत्थं नारायणः स्वामी सम्प्रदायमिहौद्धवम् । राजन् ! प्रवर्तयामास कालौ नणां हिताय वै ।। २२
रघुवीरस्तथाऽयोध्याप्रसादो भ्रातरावथ । तमुपेत्य नमस्कृत्य तदग्रे च निषेदतुः ।। २३
हरिस्तावाह पुत्रौ ! यत्प्रष्टव्यं भवतोर्भवेत् । तत्पृच्छतमिति प्रोक्तौ तौ तं पप्रच्छतुर्नृप ! ।। २४
भ्रातरावूचतुः -
सम्प्रदायेऽत्र नः स्वामिन्कर्तव्या ये व्रतोत्सवाः । वार्षिकाणां च तेषां नौ विधानं वक्तुमर्हसि ।। २५
आवां त्वदुक्तरीत्यैव भगवन्मन्दिरेषु तान् । यथाकालं करिष्यावो देशयोरुभयोः प्रभो ! ।। २६
सुव्रत उवाच -
पृष्टः सुताभ्यामिति स प्रसन्नो नारायणस्तौ नृपते ! जगाद ।
स्वसम्प्रदायं ह्यनुसृत्य सर्वं व्रतोत्सवानां विधिमाब्दिकानाम् ।। २७
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे उद्धवसम्प्रदायदीक्षाविधिप्रवर्तननिरूपणनामा चतुःपञ्चाशतामोऽध्यायः ।। ५४