त्रिपञ्चाशत्तमोऽध्यायः

श्रीनारायणमुनिरुवाच -
अथ वक्ष्यामि वां पुत्रौ ! नारीणां दीक्षणे विधिम् । तं श्रुत्वैवोपदिशतं स्वस्वां भार्यां पृथक् पृथक् । १

स्त्रीणां बम्भ्रम्यमाणानां कर्मभिः श्वादियोनिषु । श्रीकृष्ण एव शरणं क्लिष्टानां नैकभर्तृभिः ।। २

राधालक्ष्म्यादिवद्गोप्यः कृष्णं वृत्वा ह्यनन्यया । भक्तया विमुक्ताः संसारात्प्रापुः सौख्यं स्ववाञ्छितम् ३

 बुद्धिमत्यस्ततो योषा धर्मवंश्यगुरुस्त्रियम् । श्रित्वा तस्याः प्राप्य दीक्षां भजेयुः कृष्णमादरात् ।। ४ 

पतिव्रताधर्मभङ्गाद्बीता स्याद्या तु सा क्वचित् । पुंसो दीक्षां न गृीयाद्धर्मवंश्यादपि ध्रुवम् ।। ५

दीक्षां गृहीत्वा पुरुषात्कलाविह सहस्रशः । योषितो धर्मतो भ्रष्टा दृश्यन्ते पशुभिः समाः ।। ६

स्त्र्याकृतेर्वीक्षणं पुंसः स्त्रियाश्च न्राकृतीक्षणम् । अवश्यमेव भवति मनसः क्षोभकारणम् ।। ७

अतःपुंसो न गृीयाद्योषा दीक्षां कलाविह । तस्या दीक्षाविधानं तु ब्रुवे गुरुमुखाच्छ्रुतम् ।। ८

या योषा संसृतेर्भीता यमाच्च श्रेय इच्छती । साध्वीधर्मावनेच्छुश्च श्रद्धालुः साध्वसाधुवित् ।। ९

मुमुक्षुः सा तु शरणं गुरुपत्नीं व्रजेद्द्रुतम् । वर्तमानामौद्धवीये पथि धर्मदृढस्थितिम् ।। १०

वासुदेवानन्यभक्ता गुरुस्त्री तु भवेत्सती । स्वासन्नसम्बन्धिभिन्ननृभाषास्पर्शवर्जिता ।। ११

एकादश्यादिव्रतकृत्कुर्वती चोत्सवान्हरेः । गुर्वी सा तु प्रपन्नायै दद्याद्दीक्षां तु योषिते ।। १२

स्नाता धौताम्बरधरा कृतकृष्णार्चना गुरुः । प्रागेव भोजनाद्दद्याद्दीक्षां चाभुक्तयोषिते ।। १३

भर्तुराज्ञां गृहीत्वैव योषिते गुरुयोषिता । मन्त्रोपदेशः कर्तव्यो न तु स्वातन्त्र्यतः क्वचित् ।। १४

अस्यां तिथ्यादिनियमो दीक्षायां नैव विद्यते । यदा यस्या मुमुक्षा स्याद्दीक्षणीया तु सा तदा ।। १५

स्नाता धौताम्बरा शिष्या गृहीत्वैव फलं करे । गुर्वीमुपेत्य पुरतः फलं तस्या निधारयेत् ।। १६

ततः प्रणामं कुर्वीत् बद्धाञ्जलिपुटाथ ताम् । ब्रूयात्स्वामिनि ! मां पाहि पाषण्डिगुरुपापतः ।। १७

तामाश्वास्याभयं दातुं गुरुपत्नी वदेत्ततः । मा भैषीर्वासुदेवस्त्वां रक्षिष्यत्येव सर्वतः ।। १८

इत्युक्त्वा तामुपावेश्य दत्त्वाम्भो दक्षिणे करे । सङ्कल्पं कारयेद्गुर्वी मन्त्रमेतं पठन्त्यसौ ।। १९

कालमायापापकर्मयमदूतभयादहम् । श्रीकृष्णदेवं शरणं प्रपन्नाऽस्मि स पातु माम् ।। २०

ततस्तस्यै कण्ठधार्ये सूक्ष्मे तुलसिकास्रजौ । दत्त्वा तस्या भालदेशे कुर्यात्कुंकुमचन्द्रकम् ।। २१

यदि सा विधवा तर्हि कण्ठे चन्दनचन्द्रकम् । कृत्वाऽष्टवर्णं मन्त्रं त्रिर्वामकर्ण उपादिशेत् ।। २२

ततस्तस्यै सर्वकालं जप्तुं सा त्र्यक्षरं मनुम् । उपादिशेत्तु योषायै तं जपेत्सापि सर्वदा ।। २३

त्रैवर्णिकानां नारीणां सच्छूद्राणां च सर्वशः । विधिरेष इह प्रोक्तस्ताभ्योऽन्यासां ब्रुवे विधिम् ।। २४

स्नाताभ्यस्त्वन्ययोषाभ्यो गुरुपत्नी गुणाक्षरम् । प्रदापयेन्नाममन्त्रमन्ययेति विधिः स्मृतः ।। २५

ततो गृहीतमन्त्रायै शिष्यायै नियमान्वदेत् । एकाग्रमनसा सापि श्रुत्वैतान् हृदि धारयेत् ।। २६

मांसं न भक्षयेस्त्वं च सुरां मद्यं च मा पिबः । परस्य हिंसनं नैव कुर्या घातं च नात्मनः ।। २७

न जातिभ्रंशकृत्कर्म न कुर्याः स्तेयकर्म च । न सङ्गं परपुंसश्च कुर्यास्त्वं कर्हिचिच्छुभे ! ।। २८

कुसङ्गिभ्यो न शृणुयाः कथावार्ता हरेरपि । न च कस्यापि देवस्य वाचाप्युच्छेदमाचरेः ।। २९

न किञ्चिन्मादकं खादेर्न तमालं न चाशुचि । अगालितं पयोऽम्भश्च न पिबेस्त्वं कदाचन ।। ३०

नापशब्दं वदेः क्वापि कञ्चनापवदेर्न च । मानसं पूजनं विष्णोः कुर्या नित्यमतन्द्रिता ।। ३१

प्रीत्यैव राधाकृष्णार्चां पूजयेश्च त्वमन्वहम् । शक्त्या तन्मन्त्रजपनं विदध्या नियमेन च ।। ३२

मालामाच्छाद्य वस्त्रेण शुचिर्भूत्वा स्थिरासना । कुर्या मन्त्रजपं नित्यं यतवाग्दृष्टिरत्वरा ।। ३३

कुर्या एकादशीजन्माष्टम्यादीनि व्रतानि च । अधार्मिकाणां नारीणां पुंसां सङ्गं च मा कृथाः ।। ३४

हरेर्नवविधां भक्तिं कुर्यास्वं मा त्यजेः क्वचित् । सङ्गं त्यक्त्वाष्टधा पुंसां विधवापि हरिं भजेत् ।। ३५ 

सद्धर्मानद्य भवती प्राप्ता भागवतानिति । सत्सङ्गिनीति लोकेऽस्मिन्विश्रुता च भविष्यति ।। ३६

जाताद्य निर्भया त्वं हि कृष्णं धर्मस्थिता भज । गोलोकं परमं धाम प्राप्स्यस्यन्ते तथा सती ।। ३७

वासुदेवस्तव पतिर्भूत्वा ते वाञ्छितं सुखम् । दास्यत्येव कृपासिन्धुः संशयो नात्र विद्यते ।। ३८

इत्युक्त्वा प्रतिमां तस्यै राधाकृष्णस्य सा गुरुः । चातुर्वर्ण्यस्त्रियै दद्यादितरांत्वित्थमादिशेत् ।। ३९

प्रतिमा वासुदेवस्य स्प्रष्टव्या न त्वया क्वचित् । स्वग्रामे ह्यौद्धवगृहे कुर्या नित्यं तदीक्षणम् ।। ४०

सा न चेत्तर्हि पुष्पादि कृष्णप्रासादिकं त्वया । स्थापयित्वान्तिके तस्य कर्तव्यं नित्यमीक्षणम् । ४१

मानसं पूजनं भक्त्या नित्यं कुर्यास्त्वमादरात् । तेनैव बाह्यपूजायाः फलं सर्वमवाप्स्यसि ।। ४२

ततश्चातुर्वर्ण्ययोषा गुरुपत्नीं समर्चयेत् । कुंकुमाक्षतपुष्पाद्यैः शक्त्या वस्त्रैर्धनैश्च सा ।। ४३

गुरुपत्नीं नमस्कृत्य ततस्तस्या निदेशतः । गच्छेन्निजगृहं तत्र भवेत्तद्वचसि स्थिता ।। ४४

इति सामान्यदीक्षाया विधिः प्रोक्तो मयाधुना । विधिं विशेषदीक्षायाः कथयाम्यप्यशेषतः ।। ४५

योषा त्रैवर्णिकी तत्र ज्ञातव्या ह्यधिकारिणी सच्छूद्रा चाप्तसामान्यदीक्षा तद्धर्मसुस्थिरा ।। ४६

न स्यान्न्यूनातिरिक्ताङ्गा न भाषेतानृतं च या । न हासिनी न बहु भुक् न क्रियासु प्रमादिनी ।। ४७ 

विकृताङ्गी च या न स्यान्महारोगार्दिता न च । न चातिघर्घररवा श्मश्रुला च न या भवेत् ।। ४८

न तुच्छभाषिणी या च भ्रामणी न च या भवेत् । राजादिवार्ताकथनप्रच्छनप्रकृतिर्न च ।। ४९

भोजयित्वा पोष्यवर्गं या भुञ्जीत दिनेदिने । लज्जालुर्नातिचपला दयालुश्च पतिव्रता ।। ५०

क्रयविक्रयहेतोर्या न स्याद्विपणिगामिनी । अधार्मिकाणां नारीणां सङ्गे यस्या रुचिर्न च ।। ५१

सद्धर्मपालनोत्साहा भर्त्राज्ञाप्ता सुवासिनी । पितृपुत्राद्यनुज्ञाता विधवाप्यधिकारिणी ।। ५२

गुरुः शिष्यां परीक्ष्यैवं महादीक्षां ददीत सा । एकादश्यां वा द्वादश्यां पूर्वेद्युस्त्यक्तभोजनाम् ।। ५३

पूर्वेद्युः कारयेदेव कदलीस्तम्भमण्डितम् । शोभितं चित्रवस्त्राद्यैर्मण्डपं चारुतोरणम् ।। ५४ 

तन्मध्ये सर्वतोभद्रं रङ्गैर्वा चित्रतण्डुलैः । कारयेद्रापयेत्स्त्रीभिः कृष्णगीतानि भूरिशः ।। ५५

प्रातर्दीक्षादिने स्नाता गुर्वी धौताम्बरा शुचिः । पूजोपहारानानाय्य निषीदेन्मण्डलाग्रतः ।। ५६

मण्डलस्यान्तरे पीठं संस्थाप्य सितवाससा । आच्छाद्याष्टदलं कुर्यात्तस्मिन्पद्मं सुशोभनम् ।। ५७ 

विचित्ररङ्गैस्तत्कृत्वा तण्डुलैर्वा सकर्णिकम् । राधालक्ष्मीयुतां मूर्तिं वासुदेवस्य तत्र च ।। ५८

स्थापयेद्वापयेञ्चासौ योषाभिः कृष्णगीतिकाः । वादित्राणि विचित्राणि वादयेत्पूजनोत्सवे ।। ५९

स्नात्वाथ शिष्या कौशेये वाससी परिधाय सा । धौते वा सूत्रवसने निषीदेदन्तिके गुरोः ।। ६०

पूजामनुस्तु श्रीराधाकृष्णाय नम इत्यसौ । तेनैव कारयेत्पूजां प्राङ्मुखां तां हरेर्गुरुः ।। ६१

प्राङ्मुखा गुरुपत्नी तामुपवेश्योत्तराननाम् । दद्यात्सूक्ष्मं कण्ठधार्यं तुलसीमालिकाद्वयम् ।। ६२

काश्मीरचन्द्रकं भाले सधवां कारयेत्स्त्रियम् । प्रासादिकेन गन्धेन विधवायास्तु सा गले ।। ६३

यद्वा गोपीचन्दनेन कारयेत्कण्ठचन्द्रकम् । उत्तिष्ठन्ती ततः शिष्या स्तुयात् कृष्णं कृताञ्जलिः ।। ६४

श्रीकृष्ण ! नारायण ! वेणुपाणे ! श्रीराधिकानेत्रचकोरचन्द्र ! ।
वृन्दावनानन्दितगोपगोपे ! श्रीगोकुलाधीश ! हरे ! प्रसीद ।। ६५

श्रीदेवकीनन्दन ! देवदेव ! श्री द्वारिकाधीश्वर ! पार्थसूत ! ।
लक्ष्मीमनोरञ्जनचारुहास ! प्रभो ! नमस्ते परमेश्वराय ।। ६६

दीक्षांन त्वदीयां महतीं दधामि रक्षा तदीया भवतैव कार्या ।
क्रोधाश्च लोभाञ्च रसाञ्च कामादधार्मिकेभ्यश्च विभो ! नरेभ्यः ।। ६७

यथा त्वदीये तु पदारविन्दे रतिर्मदीया गिरिनिश्चला स्यात् ।
हरे ! तथानुग्रहमर्हसि त्वं कर्तुं त्वदीयाऽस्मि यतोऽहमीश ! ।। ६८

धर्मो यथैवात्र पतिव्रताया भग्नो भवेन्नाणुरपि प्रभो ! मे ! ।
तथैव कार्या भवता दयालो ! दास्यां कृपा मय्यपि वासुदेव ! ।। ६९

गुर्व्याज्ञाया प्रणम्याथ वासुदेवं च तां गुरुम् । निषीदेत्प्राङ्मुखा गुर्वी शिष्या तूदङ्मुखा भवेत् ।। ७०

वासुदेवं स्वामिनं स्वं ततो ध्यात्वा निजे हृदि । कृष्णमन्त्रं वामकर्णे तस्याः सोपदिशेच्छनैः ।। ७१

त्रिर्मन्त्रमुपदिश्याथ धर्मोस्तस्या उपादिशेत् । शृणु भद्रे ! मदीया त्वं पुत्री जातासि साम्प्रतम् ।। ७२

पत्या सत्येन कृष्णेन योजितासि मया किल । तस्मात्तं प्रयता नित्य मनन्यमनसा भज ।। ७३

अनेकपतिसम्बन्धात्संसृतिभ्रमणादपि । रक्षित्वा त्वां स भगवान् पातिव्रत्यमविष्यति ।। ७४

सेवा भगवतो नित्यं कर्तव्यानुसवं त्वया । प्रासादिकं हरेरन्नं भोज्यमह्नि तथा निशि ।। ७५

दिवसे द्विर्न भुञ्जीथा न रात्रौ द्विर्विनापदम् । सकृदेव हि भुञ्चीत विधवा त्वह्नि वा निशि ।। ७६

रोगे सूतौ प्रवासादौ ज्ञात्यावश्यकभोजने । सधवाया न ते दोषस्त्रिर्भुक्तेरपि विद्यते ।। ७७ 

नैवेद्यं तु तदा कार्यं मनसैव त्वया हरेः । अन्नाद्यैर्मानसैरेव भोज्यः कृष्णो हृदि स्थितः ।। ७८

ब्राह्मे मुहूर्ते सन्त्यज्य निद्रां कृष्णं स्मरेः सदा । आद्यं यामं निशोऽतीत्य कुर्या शयनमन्वहम् ।। ७९

दशमीषु च सर्वासु तथा त्वं द्वादशीष्वपि । व्रतोपवासदिवसे दिवा स्वापं च नाचरेः ।। ८०

विधवा तु दिवा क्वापि न शयीत यथा यतिः । आपत्काले दिवा स्वापः पुनर्भुक्तिर्न दोषकृत् ।। ८१

सर्वाभिर्नवधा भक्तिः स्त्रीभिः कार्या रमापतेः । मानेर्ष्यारुट्विवादाश्च न कार्या भक्तया सह ।। ८२

कृष्णस्तोत्रं प्रतिदिनं पठेयुर्दीक्षिताः स्त्रियः । यावद्देहस्मृतिस्तावत्पाल्या धर्मा इति स्थितिः ।। ८३

कृष्णमेवाश्रिताऽस्यद्य त्वं हि सर्वात्मना प्रभुम् । अतो भविष्यसि ख्याता भूमावात्मनिवेदिनी ।। ८४

स्वधर्मसंस्थिता नित्यं देहान्ते त्वं तु सन्मते ! । राधिकेव सुखं स्वेष्टं गोलोके प्राप्स्यसि ध्रुवम् ।। ८५

भर्तापि तव पुण्येन पार्षदो भविता हरेः । मातृपितृकुले तेऽपि प्राप्स्येते सग्दतिं पराम् ।। ८६

इत्युक्त्वा गुरुपत्न्या सा शिरसादाय तद्वचः । प्रणमेत्तां ततः सापि तस्यै दद्याच्छुभाशिषः ।। ८७

पतिव्रताधर्मनिष्ठा भव त्वं सर्वदा शुभे ! ।वासुदेवस्य दास्यं च कमलाया इवास्तु ते ।। ८८

ततः शिष्या गुरोः पूजां शक्तया कृत्वैव पूर्ववत् । तां चान्याश्च नमस्कृत्य भक्ताः स्यात् तद्वचः स्थितिः ।। ८९ 

सामान्यां महतीं वापि गृीयादौद्धवीं तु या । दीक्षामेतां स्वशक्तया सा हरेर्भक्तान्सुभोजयेत् ।। ९०

दीक्षाविधिरिति प्रोक्तः स्त्रीणां द्वेधा मया सुतौ ! । कृष्णभक्तिं चिकीर्षूणां स्थित्वैवोद्धववर्त्मनि ।। ९१

एतं युवां च भार्यायै स्वस्य स्वस्य पृथक् पृथक् । ब्रूयातं ते ततस्तद्वदुभे अपि करिष्यतः ।। ९२

तावेवमुक्तौ हरिणा प्रसन्नौ सुतावभूतां नृपते ! प्रणम्य । तमीश्वरं चार्थं हृदि चिन्तयन्तौ ।। ९३


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे दीक्षाविधौ स्त्रीणां द्विविधदीक्षाविधिनिरूपणनामा त्रिपञ्चाशत्तमोऽध्यायः ।। ५३