पञ्चपञ्चाशत्तमोऽध्यायः

श्रीनारायणमुनिरुवाच -


व्रतोत्सवानां सर्वेषां विधिस्तु ग्राह्य उत्तमः । श्रीविठ्लेशगदितः सविशेषं वदामि तम् ।। १

अस्माकमिष्टदेवो हि श्रीकृष्णोऽस्तीति तस्य या । आविर्भावतिथिस्तस्या विधिरादौ निरूप्यते ।। २ 

यदा पूर्वदिने ह्येव रोहिणी बुधसंयुता । निशीथागाऽष्टमी सम्यग्नोत्तरा तु निशीथगा ।। ३

तदा विद्धापि सप्तम्या ग्रहीतव्याष्टमी व्रते । परेद्युः पारणा कार्या तिथ्यन्ते व्रतचारिभिः ।। ४

प्रोक्ता योगविशेषेण सप्तमी सहिताऽष्टमी । ग्राह्येत्यग्निपुराणादौ नान्यथा केवलाष्टमी ।। ५

पूर्वेद्युरेव योगश्च प्रागुक्तः सकलो यदि । भवेदथ परेद्युस्तु निशीथे केवलाष्टमी ।। ६

उपवासद्वयं कुर्यात्तदा शक्तस्तु पूरुषः ।उपवासमशक्तस्तु कुर्यादेकं परेऽहनि ।। ७

बुधाष्टमीरोहिणीनां निशीथे योगमन्तरा । पूर्वविद्धा न कर्तव्या बुधैर्जन्माष्टमी क्वचित् ।। ८

बुधवारो न चेत्तर्हि रोहिणीसहितामपि । पूर्वविद्धां विहायैव शुद्धा ग्राह्याऽष्टमी मता ।। ९

विना ऋक्षेणापि कार्या नवमीसंयुताऽष्टमी । सऋक्षापि न कर्तव्या सप्तमीसंयुताष्टमी ।। १०

पलं घटीं मुहूर्तं वा यदा कृष्णाष्टमी ततः । नवमी सैव ग्राह्या स्यात्सप्तमीसंयुता न तु ।। ११

विद्धायाश्च क्षयः स्याच्चेत्तदा तु व्रतचारिभिः । ग्राह्या विद्धापि सप्तम्येत्यूचुः केचन वैष्णवाः ।। १२

श्रीविठ्लेशस्य मते विद्धायास्तु क्षये सति । उपोष्या नवमीत्येवं निर्णयोऽस्ति स गृह्यताम् ।। १३

सप्तमीवेधरहिता याऽष्टमी भास्करोदये । सैव जन्माष्टमी ग्राह्या व्रतोत्सवविधौ शुभा ।। १४

शुद्धाधिका भवेद्यर्हि तिथिः कृष्णाष्टमी तदा । बहुकालव्यापकत्वात्पूर्वा ग्राह्येति निर्णयः ।। १५

उपवासस्तत्र कार्यः पूजा कृष्णस्य च श्रियः । अचलायाश्चलाया वा मूर्तेः शक्तया यथाविधि ।। १६

राधिकाया भवेन्मूर्तिर्मन्दिरे यत्र तत्र तु । वेषार्चनविधिर्ज्ञोयस्तस्या लक्ष्म्या इवाखिलः ।। १७

उभयोरपि न स्याच्चेत्प्रतिमा यत्र तत्र तु । उमे अपि हि विज्ञोये कृष्णस्याङ्गस्थिते इति ।। १८

विधेरेष तु विज्ञोय उत्सवेष्वखिलेष्वपि । मन्दिरेषु च सर्वेषु विशेषस्त्विह वक्ष्यते ।। १९

नित्याचर्यां भगवन्मूर्तिं प्रातः स्नात्वा समर्च्य च । मन्दिरं शोधयेत्सम्यग्मृजाक्षालनलेपनैः ।। २०

रङ्गैर्नानाविधैश्चित्रैः शोभयेत्तच्च सेवकः । नवीनांश्च वितानादीन्बध्नीयात्तोरणानि च ।। २१

सिंहासनं भगवतः पूजोपकरणानि च । सम्मार्जयेद्दीपिकाश्च कुर्यादास्तरणं नवम् ।। २२

महानैवेद्यसामग्रीं महापूजोपयोगि च । नवीनवस्त्रपुष्पादि भक्तः सम्पादयेत्ततः ।। २३

स्वयं सीव्येदंशुकानि तुन्नवायेन वार्चकः । देवानां धारणार्हाणि शोभमानानि भङ्गिभिः ।। २४

सभामण्डपमध्ये वा मन्दिरस्याङ्गणे ततः । मण्डपं कारयेद्रम्यं कदलीस्तम्भशोभितम् ।। २५

विचित्रवस्त्रैः पुष्पैश्च मण्डितं ताम्रपल्लवैः । शुभैर्नानाविधै रङ्गैस्तत्र तत्र सुचित्रितम् ।। २६

सितैः पीतैस्तथा रक्तैः कर्बुरैर्हरितैरपि वासोभिः शोभितं कुर्यात्समन्तात्कलशैर्नवैः ।। २७

पत्रैः फलैरनेकैश्च दीपालिभिरितस्ततः । पुष्पमालाविचित्रं च चन्दनागुरुधूपितम् ।। २८

तन्मध्ये सूतिकागारं देवक्या विदधीत च । धात्रीं कुर्यात्तत्र चैकां नालच्छेदनकर्तरीम् ।। २९

तन्मध्ये मञ्चके रम्ये स्थापयेद्देवकीं ततः । तदुत्सङ्गे बालकृष्णं स्थापयेच्च स्तनंधयम् ।। ३०

यशोदां तत्र चैकस्मिन्प्रदेशे सूतिकागृहे । स्थापयेद्गोकुले तद्वत्प्रसूतवरकन्यकाम् ।। ३१

नन्दश्च वसुदेवश्च गोपा गोप्यश्च धेनवः । वृषा वत्सा वत्सतर्यस्तत्र कल्प्या यथोचितम् ।। ३२

यथाशक्ति प्रकर्तव्याः कृष्णादीनां तु मूर्तयः । सौवर्ण्याद्याश्च तत्पूजा कर्तव्या निशि भक्तितः ।। ३३

कारयेदृन्दुभिध्वानं यथाकालं दिनद्वयम् । तूर्यवाद्यानि चान्यानि वादयेन्मङ्गलानि तु ।। ३४

घृतपक्वपदार्थांस्तु नैवेद्यार्थं दिवैव हि । कारयेच्छाकसूपादि निशायां च शुचिस्थले ।। ३५

आद्ययामे निशोऽतीते प्रारभेतार्चनं हरेः । स्थिरायाः प्रतिमायास्तु कुर्यात्पूजनमादितः ।। ३६

यदि स्नपयितुं शक्या मूर्तिः कृष्णस्य च श्रियः । पञ्चामृतेन स्नपयेत्तर्हि तां चोष्णवारिणा ।। ३७

अन्यथा तु प्रमार्ज्यैव वाससाऽर्द्रेण मन्त्रतः । वासांसि शोभनान्येव नूत्नानि परिधापयेत् ।। ३८

पञ्चामृतेन स्नानं तु कार्यं मूर्तेर्लघोर्ह । इयमेव च विज्ञोया रीतिः सर्वोत्सवेष्वपि ।। ३९

यदि श्यामा हरेर्मूर्तिर्भवेत्तर्ह्यंशुकानि तु । पीतरक्तसितान्येव यथार्हं परिधापयेत् ।। ४०

मूर्तिः श्वेता यदि तदा हरिच्छोणासितानि तु । धारयेदंशुकानीत्थं यथाशोभं श्रियोऽपि च ।। ४१

अलङ्काराञ्छुमान् हैमान्मुक्तास्रक्शेखरांस्तथा । धारयेन्मुकुटं रम्यं नानारत्न-विभूषितम् ।। ४२

स्ववैभवानुसारीणि भूषणानि तु धारयेत् । धनहीनस्त्वलङ्कारैः पौष्पैरेवार्चयेत्प्रभुम् ।। ४३

निशोऽष्टमे मुहूर्तेऽथ देवक्याः सूतिकागृहम् । गत्वा सूतं तया कृष्णं नयेत् पात्रेण गोकुलम् ।। ४४

स्थापयित्वा क्षणं तत्र यशोदाशयने च तम् । संस्नप्याथाऽनयेत्तं च नित्यार्च्यप्रतिमान्तिके ।। ४५

नानाविधानां वाद्यानां तदानीं कारयेद्धवनिम् । श्रीकृष्णजन्मपद्यानि गापयेन्मङ्गलानि च ।। ४६

ततः शास्त्रोक्तविधिना वसुदेवादिभिः सह । पूजनं बालकृष्णस्य कुर्यात्पञ्चामृतादिभिः ।। ४७ 

पालने तमुपावेश्य वासोभूषाः समर्पयेत् । ततो लघुमहत्योश्च मूर्त्योः कुर्यात्सहार्चनम् ।। ४८

धारयेद्बालकृष्णं तु लम्बमानाङ्गरक्षिकाम् ।कच्छनीं च शिरष्टोपीमूर्ध्वाग्रां रुक्मभूषिताम् ।। ४९

यत्र यत्रोचितं यद्यद्वस्त्रं वा भूषणं भवेत् । शोभेत च यथा तत्तत्तत्र तत्र तथार्पयेत् ।। ५०

सकुंकुमं कैसरं च मलयागुरुचन्दनम् । सुगन्धीनि च पुष्पाणि मालत्यादीनि चार्पयेत् ।। ५१

पुष्पवासिततैलेन प्रसर्पच्चारुगन्धिना । स्थलपद्माम्बुना चास्य वासयेद्वस्त्रमन्दिरम् ।। ५२

हारापीडांश्चावतंसान् पौष्पांश्च तुलसीस्रजः । दशाङ्गं चार्पयेद्धूपं घृतदीपान्दशावरान् ।। ५३

ततो धौतचतुष्पद्यां महानैवेद्यमाहरेत् । पूरीपायससंयाव घृतपक्वादि सर्वशः ।। ५४

कुबेरशुण्ठीधान्याकगुडाज्यादिविमिश्रिताम् । पिञ्जरीं स्थापयेद्बृत्वा पात्रे सूतिकयोः पुरः ।। ५५

वादयित्वा ततो घण्टां भोज्यपद्यानि गापयन् । निवेदयेत्तत्कृष्णाय मध्ये पानीयमर्पयन् ।। ५६

निधाय पाकशालायां ततः सर्वं निवेदितम् । कुर्वीत वारिणा तूर्णं भोजनस्थानशोधनम् ।। ५७

ताम्बूलवीटिकां दत्त्वा ऋतुकालोद्बवानि च । फलानि नालिकेरं च शक्तया दद्याच्चा दक्षिणाम् ।। ५८

उद्धाटयाथो जवनिकां महानीराजनं प्रभोः । वाद्यतालिगीतघोषैस्तिष्ठन्मन्त्रान्पठंश्चरेत् ।। ५९

स्तुत्वा सम्प्रार्थ्य नत्वा च जनैः कृतसमीक्षणम् । श्रीकृष्णं स्वापयित्वाऽसौ शृणुयात्तत्कथाः शुभाः ६०

महान्ति भूषावासांसि स्वापकाले श्रियःपतेः । उत्तारयेच्च सूक्ष्माणि लघूनि परिधापयेत् ।। ६१

चरणामृतमात्रं तु पिबेन्निशि न चेतरत् । कुर्याज्जागरणं भक्तस्तद्गुणश्रुतिकीर्तनैः ।। ६२

प्रातः स्रात्वा पुनः पूजां कृत्वा साङ्गस्य सत्पतेः । क्षीरं भक्तं शर्करां च विशेषेण निवेदयेत् ।। ६३

ततो नीराजनं कृत्वा स्वापयेत्प्रभुमात्मनः । भक्तः साकं भक्तजनैस्ततः क्रीडनमाचरेत् ।। ६४

परस्परं पुमांसश्च दधिक्षीरघृताम्बुभिः । कुर्वीरन् क्रीडनं तत्र लेपक्षेणसिञ्चनैः ।। ६५

योषाश्च रजनीचूर्णतैलगोरसकुंकुमैः । अन्योन्यं नवनीतेन क्रीडेयुर्लेपसिञ्चनैः ।। ६६

अमङ्गलत्वाद्विधवाः क्रीडेयुर्नैव योषितः । साधवोऽपि तथा नैव व्रतिनो ब्रह्मचारिणः ।। ६७

यद्येतेषु पतेत्क्वापि दध्यादि क्रीडतः करात् । स्रात्वा जपेयुस्तर्ह्येते मन्त्रमष्टाक्षरं शतमप ।। ६८

यद्येते च स्वयं कुर्युः क्रीडनं तर्ह्युपोषणम् । विदधीरन्नहोरात्रं भजन्तो रुक्मिणीपतिम् ।। ६९

स्नानं विधाय क्रीडान्ते भक्तः कुर्वीत पारणाम् । जन्माष्टम्युत्सवविधिरित्युक्तो वार्षिको मया ।। ७०

प्रातःसायं पूजनान्ते बालकृष्णस्तु पालने । आन्दोलनीयोऽनुदिनं यावत्स्यादर्जुनोत्सवः ।। ७१

औद्धवीये सम्प्रदाये श्रीकृष्णस्योदितानि वै । मन्दिराणीष्टदेवस्य पञ्चधाचार्यपुङ्गवैः ।। ७२

एकस्यैव हि कृष्णस्य प्रोक्तं स्थानादिभेदतः । पञ्चकं खलु मूर्तीनां न तु वास्वभेदतः ।। ७३

आदावेत्य स गोलोकाद्बगवान्निजधामतः । मथुरापुरि देवक्यां वसुदेवादजायत ।। ७४ 

सोऽद्बुतार्भाकृतिः कृष्णो वासुदेव इतीर्यते । तथा बालमुकुन्दश्च नवनीतधरश्च सः ।। ७५

स एव गोकुलं प्राप्य ववृधे नन्दवेश्मनि । यशोदालालितश्चके बाललीलामलौकिकीम् ।। ७६

राधाकृष्णस्तथा गोपीनाथो राधापतिः स च । वृन्दावनविहारी च प्रोक्तो मदनमोहनः ।। ७७

राधया सहिता एव वर्तन्ते तस्य मूर्तयः । वंशीविभूषितकरा मन्दिरेषु धरातले ।। ७८

व्रजादुपेत्य मथुरां यादवानां प्रियं स च । चकार सह रामेण रामकृष्णः स उच्यते ।। ७९

मथुरानाथ इत्युक्त एष यादवभूषणः । रामेण सहिताः सन्ति मन्दिरेष्वस्य मूर्तयः ।। ८०

उपयेमे स एवैत्य द्वारिकायां च रुक्मिणीम् । राजाधिराजलीलोऽसौ लक्ष्मीनारायणो मतः ।। ८१

द्वारिकानाथ एषोऽथ प्रोक्तो यदुपतिस्तथा । सह लक्ष्म्या भवन्त्यस्य मन्दिरेष्वत्र मूर्तयः ।। ८२

पाण्डवानां प्रियं कुर्वन् प्रायस्तेषां पुरेऽपि सः । उवास चार्जुनसखो द्रौपदीमानवर्धनः ।। ८३

नरनारायण इति प्रोक्तोऽसौ पाण्डवप्रियः । सहार्जुनेन सन्त्यस्य मूर्तयो मन्दिरेष्विह ।। ८४

अपि पञ्चविधा एता मूर्तयः सन्ति केषुचित् । चतुर्भुजा मन्दिरेषु द्विभुजा अपि केषुचित् ।। ८५

सपार्षदाः क्वचित्सन्ति क्वचिञ्चापि विपार्षदाः । सायुधाश्च क्वचित्सन्ति कुत्रचिच्च निरायुधाः ।। ८६

एक एव विधिर्ज्ञोयो मन्दिरेष्वपि पञ्चसु । उत्सवानां हि सर्वेषां पूजाद्रव्यनिवेदने ।। ८७

यत्र यत्र विशेषोऽस्ति तत्र तत्रोत्सवे च तम् । कथयिष्यामि स ज्ञोयस्तत्तन्मूत्तर्यर्चने बुधैः ।। ८८

इत्थं सुतौ ! वां गदितो हि जन्माष्टम्युत्सवस्योद्धवसम्प्रदाये ।
मुख्यस्य सर्वोऽपि विधिर्मयेत्थं कार्यो भवद्बयां प्रतिमन्दिरं सः ।। ८९


इति श्रीसत्सङ्गिजीवने नाराणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वार्षिकव्रतोत्सवविधौ जन्माष्टम्युत्सवविधिनिरूपणनामा पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५