पञ्चाशत्तमोऽध्यायः

श्रीनारायणमुनिरुवाच -


सामान्यां सविशेषां वा दीक्षामुद्धववर्त्मनि । प्राप्ता ये तैः प्रतिदिनं कार्यं श्रीकृष्णपूजनम् ।। १

दीक्षितैरौद्धवाचार्याच्छ्रीकृष्णस्याखिलैरपि । प्रतिमा नित्यपूजायै ग्रहीतव्या यथारुचि ।। २

त्रैवर्णिकैश्च सच्छूद्रैः प्राप्तदीक्षैस्तथाऽश्रमैः । चतुर्भिस्त्यागिभिश्चार्च्या कृष्णमूर्तिर्न चेतरैः ।। ३

आचार्येण प्रतिष्ठाप्य या दत्ता प्रतिमा भवेत् । लेख्या धात्वादिजा वापि सैव पूज्या न चेतरा ।। ४

पूजनान्ते भगवतः पातव्यं चरणामृतम् । करमध्ये गृहीत्वैव मन्त्रेणानेन चान्वहम् ।। ५

अकालमृत्युहरणं सर्वव्याधिविनाशनम् । विष्णोः पादोदकं तीर्थं जठरे धारयाम्यहम् ।। ६

 विष्णुपादाम्बुपानात्स्यात्कोटिजन्माघनाशनम् । तदेवाष्टगुणं पापं भूमौ विन्दुनिपातनात् ।। ७

प्रमादं सर्वथा हित्वा दीक्षितैरखिलैर्दृढम् । भक्तिर्नवविधा कार्या पुम्भिर्नित्यं रमापतेः ।। ८

कुर्वद्बिर्भगवद्बक्तिं पुरुषैरिह सर्वशः । अपराधो यथा न स्याद्धरेर्वृत्यं तथा सदा ।। ९

यानेन वा पादुकाभ्यां गमनं भगवद्गृहे । जन्मोत्सववाद्यसेवा च ह्यप्रणामस्तदग्रतः ।। १०

उच्चासनारोहणं च भगवन्मन्दिरे तथा । एकाकिन्या स्त्रिया साकं स्वस्यैकस्य क्षणस्थितिः ।। ११

उच्छिष्टे चैव वाशौचे भगवत्स्पर्शनादिकम् । एकहस्तेन नमनमपशब्देन भाषणम् ।। १२

पादप्रसारणं चाग्रे हरेः पर्यङ्कबन्धनम् । शयनं भक्षणं वापि मिथ्याभाषणमेव च ।। १३

उच्चैर्भाषा रोदनं च निग्रहः कलहस्तथा । स्त्रीणां निरीक्षणं स्पर्शस्ताभिश्च क्रूरभाषणम् ।। १४

शक्तौ गौणोपवासश्चाप्यनिवेदितभक्षणम् । अधोवायुसमुत्सर्गः प्रौढपादासनं तथा ।। १५

ग्राम्यवार्ताप्रसक्तिश्च स्वश्लाधाऽपाइमुखासनम् । श्रीहरेर्नवधा भक्तावपराधा इमे मताः ।। १६

तस्मादेतान्प्रयत्नेन नैव कुर्यादनापदि । भगवत्प्रीतिकामस्तु विशेषेण तदर्चकः ।। १७

एतेष्वन्यतमे जाते त्वपराधे प्रमादतः । भक्तेनोपोषणं कार्यं दिनमेकं रमापतेः ।। १८ 

दण्डवत्प्रणिपातेन स्तुत्या च विनयेन च । क्षमापनीयो भगवान्मन्त्रेणानेन चादरात् ।। १९

अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व पुरुषोत्तम ! ।। २०

दीक्षितैः सकलैरेव निजाचार्यस्य केवलम् । पादाम्बु च प्रसाद्यन्नं ग्राह्यं नान्यस्य कर्हिचित् ।। २१

वर्णाश्रमादिधर्मस्य न स्यात्सङ्करता यथा । लोकज्ञात्यपवादश्च न स्याद्ग्राह्यं तथैव तत् ।। २२

दन्तैर्विदश्य यद्दत्तमाचार्येण फलादिकम् । भवेत्तदपि न प्राश्यं मर्यादैषोद्धवी मता ।। २३

इत्थं ये दीक्षिता भक्ताः स्वस्वधर्मेषु संस्थिताः । ज्ञानवैराग्यसम्पन्नाः प्रोक्ता एकान्तिका हि ते ।। २४

देहान्ते परमं धाम विष्णोर्गोलोकसंज्ञिातम् । प्रयान्ति दिव्यदेहास्ते विमानैरर्कभास्वरैः ।। २५

तत्र श्रीदामनन्दाद्यैः पार्षदैः सेवितं च ते । प्राप्य श्रीराधिकाकृष्णं लभन्ते स्वेप्सितं सुखम् ।। २६

द्विविधां पुम्भ्य एवैतां दीक्षां दद्याद्गुरुः पुमान् । स्त्रीभ्यो नैव क्वचिद्दद्यात्स्त्रिया ताभ्यस्तु दापयेत् ।। २७

गुरुदींक्षां ददत्ताभ्यस्तासां सोऽतिप्रसङ्गतः । धर्मभ्रष्टश्च पापीयान्विनष्टाचार्यतो भवेत् ।। २८

अध्वप्रवर्तकं स्वस्य पूर्वाचार्यं स चोद्धवम् । दूषयन् स्याद्गुरुद्रोही तस्मान्नैतत्समाचरेत् ।। २९

इति दीक्षाविधिः प्रोक्तः सेपेण मया सुतौ ! । सेवनादस्य सिद्ध्यन्ति सर्व एव मनोरथाः ।। ३०

रामानन्दगुरुः साक्षादुद्धवो मामिमं विधिम् । उपादिदेश कृपया युवाभ्यां स मयोदितः ।। ३१

मयाऽवबोधाय सुतौ ! अयं वां दीक्षाविधिर्यः कथितः स सम्यक् ।
चित्तेऽवधार्योऽथ यथाधिकारं दीक्षा प्रदेया स्वसमाश्रितेभ्यः ।। ३२ ।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे दीक्षाविधौ दीक्षितपुरुषसाधारणधर्मनिरूपणनामा द्विपञ्चाशत्तमोऽध्यायः ।। ५२ औ------