पञ्चाशत्तमोऽध्यायः

श्री नारायणमुनिरुवाच -


उपनीतो यस्तु विप्रो वेदाध्ययनतत्परः । सञ्जाततीव्रवैराग्यो बुभूषेन्नैष्ठिकव्रती ।। १ 

स औद्धवीयमाचार्ये प्राप्नुयाच्छरणं द्रुतम् । ततस्तस्मै प्रपन्नाय दद्यात्सोऽभयमादितः ।। २

ततो ब्राह्मणमाहूय विधिज्ञां दापयेद्गुरुः । वर्णिना स्वाश्रितेनैव स तस्मै नैष्ठिकव्रतम् ।। ३

मण्डले सर्वतोभद्रे श्रीराधाकृष्णपूजनम् । कारयित्वा तो दद्यात्तस्मै मौञ्जीं तु मेखलाम् ।। ४

कौपीनयुग्मं च वहिर्वाससी च मृगाजिनम् । पालाशं वैणवं वापि दण्डं ताम्रकमण्डलुम् ।। ५

अथ तस्मै स आचार्यो गायत्रीं वैष्णवीं दिशेत् । नारदोऽस्या ऋषिश्छन्दो गायत्री देवता हरिः ।। ६

त्रिरिमं दक्षिणे कर्णे मन्त्रं समुपदिश्य सः । आनन्दान्तं गुरुर्नाम शिष्यस्य विदधीत च ।। ७

ततस्तस्मै धर्मशास्त्रप्रोक्तान् धमानुपादिशेत् । हितावहान्नैष्ठिकानां ब्रह्मचर्यां तथाष्टधा ।। ८

शिष्यस्तं पूजयित्वाऽथ गन्धाद्यैर्दण्डवन्नमेत् । वर्तेत स्वीयधर्मेषु गुरूक्तेष्वेव सर्वदा ।। ९

यदा नैष्ठिकधर्मेषु धर्मशास्त्रोदितेष्वसौ । पक्वो भवेत्तदाचार्यो महादीक्षां ददीत च ।। १०

परीक्षामादितः कुर्याद्गुरुस्तस्य तु वर्णिनः । धर्मेषु स्थिरतामादौ सद्ग्रन्थाध्यननं ततः ।। ११

सेवकस्यानुकूल्यं च तज्ज्ञातेरनुपद्रवम् । अव्यङ्गत्वादिकं चापि दृा तं दीक्षयेत्ततः ।। १२

उपोषणं कारयित्वा पूर्वेद्युर्देहशुद्धये । एकादश्यां द्वादश्यां वा दद्याद्दीक्षां विधानतः ।। १३

मण्डलं कारयित्वादौ पूर्ववद्ब्राह्मणेन सः । वासुदेवार्चनं होमं कारयेच्च यथाविधि ।। १४

ततस्तस्मै गुरुर्दद्याद्वाससी द्वे सिते शुभे । तुलसीमालिके द्वे च कुर्याद्वाह्वङ्कनं ततः ।। १५

नमस्कृत्य निषण्णाय प्राङ् मुखायाथ वर्णिने । अष्टाक्षरं महामन्त्रमुदङ्मुख उपादिशेत् ।। १६

त्रिर्दक्षकर्ण आदिश्य मनुं धर्मानुपादिशेत् । मात्रा वा गुरुपत्यापि शिष्य ! त्वं न वदेः क्वचित् ।। १७

स्त्रिया मनुष्यजातेस्त्वमाकारं नावलोकयेः । अज्ञानात्स्त्रीमुखे दृष्टे व्यक्त्या कुर्या उपोषणम् ।। १८

यथा बृहद्वृतं न स्वं च्यवेद्वृत्यं तथा त्वया । योषामिव धनं चापि न स्पृशेत्कर्हिचिद्बवान् ।। १९

नियमेन प्रतिदिनं सच्छास्त्रस्य बृहद्व्रती । निजशक्तयनुसारेण पाठं कुर्यास्त्वमादरात् ।। २०

एवमुक्तः स गुरुणा तथेत्युक्त्वा तमानमेत् । नमस्कृत्य सतो भक्तान्भवेत्तद्वचनस्थितिः ।। २१

एतावान्हि विशेषोऽत्र । विधिरन्यस्तु पूर्ववत् । तस्यापि सकलो ज्ञोयो महादीक्षाग्रहे सुतौ ! ।। २२

दीक्षया द्विजवरस्य महत्या ब्रह्मचर्यमतिपुष्टिमुपैति ।
तामतः स गुरुतोऽत्र गृहीत्वा पालयेत्तदुदितान्नियमान्वै ।। २३


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे दीक्षाविधौ ब्रह्मचारिणां महादीक्षाविधिनिरूपणनामा पञ्चाशत्तमोऽध्यायः ।। ५० ।।