एकोनपञ्चाशत्तमोऽध्यायः

श्री नारायणमुनिरुवाच –


औअनाश्रमी पुमान् यस्तु मृतयोषिद्बवच्च सः । आददीत महादीक्षां स्वोक्तां कृत्यैव निष्कृतिम् ।। १

विधिस्तस्याप्येष एव दीक्षाया ग्रहणे मतः । दैहिकोऽन्यो विशेषोऽस्ति तं चापि कथयाम्यहम् ।। २

श्मश्रूणि धारयेन्नैव न चोलं न च कञ्चुकम् । न च श्वेतेतरद्वासो वसीत विकृतं न तत् ।। ३

ब्रह्मचारीव योषां च त्यजेद्रव्यं तु रक्षयेत् । अग्रेसरो गृहस्थानां साधुशुश्रूषणे भवेत् ।। ४

महादीक्षावतानेन वर्णिना त्यागिना तथा । एकभुक्तव्रतं कार्यं यावज्जीवमनापदि ।। ५

निशि वा दिवसे कुर्याद्दीक्षितो भोजनं सकृत् । रात्रौ चेदाद्ययामे तन्मध्याह्नोत्तरमह्नि तु ।। ६

आनुकूल्ये सति प्रायो नक्तभोजी भवेत्सदा । दैनंदिनानि पापानि तेन नश्यन्ति सर्वशः ।। ७

सकृद्बोजी तु यो नक्तं स तु प्रासादिकं हरेः । अन्नादि दिवसे प्राप्तं रक्षेत्सम्यक् शुचिस्थले ।। ८

दिवा न भक्षयेत्किञ्चित्प्रासादिकमपि प्रभोः । अन्यथा भङ्ग एव स्यादेकमुक्तव्रतस्य वै ।। ९

प्रासादिकान्नशाकादेरेकभुक्तव्रतत्त्वतः । अवज्ञां नैव कुर्वीत नमस्कृत्य विसर्जयेत् ।। १०

एकभुक्तव्रती यश्च दिवा सोऽपि पुमान्हरेः । प्राप्तं प्रासादिकं रक्षेत्कालदन्यत्र चेद्बुजेः ।। ११

प्रासादिकस्य सम्मानं फलादेरपि वैष्णवः ।प्रणामेनैव कुर्वीत नावमानं तु कर्हिचित् ।। १२

उपवासदिने प्राप्तं हरेः प्रासादिकं पुमान् । विसर्जयेन्नमस्कृत्य नान्नं भक्षेत्तु सर्वथा ।। १३

अपि भोजनवेलायां प्राप्ते प्रासादिके यदि । भक्ष्यार्हे स्वस्य न स्याद्यत्सर्वथा तन्न भक्षयेत् ।। १४

त्यक्तं यत्स्वेन नियमाद्देहपीडाकरं च यत् । भक्षणीयं न तद्बक्तैः प्रासादिकमपि प्रभोः ।। १५

ग्राम्यवार्तानिवृत्त्यर्थं हरेर्नामान्यहर्निशम् । कीर्तयेच्च गुणान् गायेत्तस्य भक्तमनोहरान् ।। १६

सामान्यां सविशेषां वा दीक्षां प्राप्तो न यस्त्विमाम् ।
तेन भ्रात्रापि पक्वं चेन्नान्नं भुञ्जीत स क्वचित् १७

भोजनव्यवहारश्च येन साकं भवेन्न वै । दीक्षितेनापि पक्वं चेत्तेन नाद्याच्च सर्वथा ।। १८

पक्वं चेद्ब्राह्मणेनान्नं क्षत्रादिस्तत्तु भक्षयेत् । ब्राह्मणस्तन्न भुञ्जीत यदि पक्ता न वैष्णवः ।। १९

निर्वाहः स्वशरीरस्य यावतान्नादिना भवेत् । तावन्तमुद्यमं कुर्यान्नाधिकं तु स पूरुषः ।। २०

तिष्ठेन्निवृत्तधर्मेषु प्रवृत्ताखिलकर्मसु । उदासीनो भवेन्नित्यमात्मनोऽनर्थहेतुषु ।। २१

धोत्रस्याभ्यन्तरे रक्षेत्कौपीनं ब्रह्मचारिवत् । भक्ताख्यः स हरेर्भक्तिं कुर्वीत गृहिणोऽधिकम् ।। २२

शालग्रामार्चनं कुर्याद्विप्रस्तु प्रतिवासरम् । शिक्षेच्च विष्णुसूक्तार्थं सद्गुरोस्तं च चिन्तयेत् ।। २३

विभृयात्पादुके चासौ पात्रमम्बुभृतं तथा । स्ववर्णधर्ममखिलं पालयेच्च जितेन्द्रियः ।। २४

अनाश्रमिण एतावान्विशेषो मृतयोषितः । प्राप्तस्य महतीं दीक्षां भक्तस्य कथितो मया ।। २५

गृहाश्रमे वर्तमानः सत्सच्छास्त्रानुशीलनात् । सम्प्राप्तस्तीव्रवैराग्यं य इच्छेदाश्रमान्तरम् ।। २६

सोऽप्यनाश्रमिणः प्रोक्तां दीक्षामेतामुपाश्रयेत् । वनस्थयतिधर्मो यन्निषिद्धोऽस्ति कलौ युगे ।। २७

वासुदेवीमतो दीक्षामाश्रित्य महतीमसौ । निर्भयोऽनन्यभक्तयैव भजेच्छ्रीकृष्णमादरात् ।। २८

यदि प्राप्तो महादीक्षां प्रागेवासौ गृही भवेत् । तदा त्वेतं विशेषं स प्रोक्तं दहिैकमाश्रयेत् ।। २९

गृहाश्रमेच्छोज्झितवर्णिधर्मोऽप्यप्राप्तभार्योऽथ च यो मृतस्त्रिः ।
यश्चोज्झितस्त्रीसुख इत्यमीषामित्थं हि दीक्षाविधिरस्ति पुत्रौ ! ।। ३० ।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे दीक्षाविधौ अनाश्रमिणां महादीक्षाविशेषनिरूपणनामैकोनपञ्चातमोऽध्यायः ।। ४९ ।।