श्री नारायणमुनिरुवाच -
त्यागिनामथ वक्ष्यामि महादीक्षाविधिक्रमम् । नैव सा च गुरुणा दातव्या नान्यथा सुतौ ! ।। १
यस्तु गृहाश्रमं हातुं तीव्रवैराग्यवेगतः । इच्छेद्विवेकवान्धीरो मुमुक्षुः श्रद्धयान्वितः ।। २
स्वस्यौर्ध्वदैहिकं कर्म स विधाय यथाविधि । अनुज्ञाप्य निजाञ्ज्ञातीनाचार्यं शरणं व्रजेत् ।। ३
ततो गुरुः स तं शिष्यं कञ्चित्कालं निजान्तिके । स्थापयित्वा परीक्षेत त्यागिदीक्षाधिकारिताम् ।। ४
पूर्वोक्तैर्लक्षणैः सद्बिः सम्पन्नत्वं च तस्य सः । तथैवान्धत्वकाणत्वजाडयरोगादिहीनताम् ।। ५
दृा तस्य परीक्षेत वैराग्यस्य च तीव्रताम् । सन्मण्डले मिलन्तं च स्वभावमपि तत्वतः ।। ६
ततस्तत्स्वजनानां च पुनर्विक्षेपकर्तृता । अस्ति वा नास्ति वेत्येतत्स्वयं संशोधयेद्गुरुः ।। ७
यदि स्यात्सा तदानीं तु प्रेषणीयः स वै गृहम् । तदभावेऽपि वैराग्यमान्द्ये प्रेष्यः पुनर्गृहम् ।। ८
सति वैराग्यतीव्रत्वे तद्रुचिं धर्मपालने । निश्चित्य दापयेद्दीक्षां त्यागिना स्वाश्रितेन सः ।। ९
एकादशीदिने वापि द्वादश्यां विहिता तु सा । उपवासो निराहारः पूर्वेद्युः पूर्ववन्मतः ।। १०
कक्षोपस्थशिखावर्जं मुण्डनं चास्य सम्मतम् । आचार्यः कारयेत्सर्वं पूर्ववन्मण्डलादि च ।। ११
ततः स्नतेन शिष्येण सिताम्बरधरेण च । श्रीराधाकृष्णपूजां च कारयेद्ब्राह्मणोत्तमः ।। १२
दद्यात्तस्मै प्रपन्नाय कौपीनं साधुरादितः । बहिर्वासश्च कन्थां च रञ्जितां रक्तया मृदा ।। १३
भिक्षापात्रं चाम्बुपात्रं दत्त्वा पुण्ड्रचतुष्टयम् । कारयित्वा च तुलसीमाले तस्मै ददीत सः ।। १४
प्रांमुखायाथ शिष्याय गायत्रीं वैष्णवीं सुतौ ! । उपादिशेत्स आचार्यः सहर्षिछन्दादिभिः ।। १५
यज्ञापवीतं कार्पासं दद्यात्तस्मै ततश्च सः । स्वाचार्यप्रवरग्रन्थिं ह्येकमेव च नूतनम् ।। १६
ततश्च दासशब्दान्तं कुर्यात्तन्नाम देशिकः । त्यागिधर्मांस्ततस्तस्मै धर्मशास्त्रोदितान्वदेत् ।। १७
नित्यं च भगवद्गीतापठनं निजशक्तितः । उपादिशेद्विधिस्त्वन्यः पूर्वोक्तोऽत्रावगम्यताम् ।। १८
एवं प्राप्तत्यागिदीक्षः स च तं दण्डवन्नमेत् । अन्यांश्च वैष्णवान्साधून्नमस्कुर्याच्च वर्णिनः ।। १९
वसन् गुरुकुले नित्यं धर्मानेकान्तिनां भजेत् । अभ्यसेद्ब्रह्मविद्यां च सेवमानो गुरुं स च ।। २०
नित्यकर्मविधिं तस्माद्गुरोः शिक्षेदतन्द्रितः । तथैव चानुदिवसं विदधीत स दीक्षितः ।। २१
सोऽथ कायेन वचसा मनसा च गुरोर्हितम् । आचरन् स्याद्वशस्तस्य गोपतेरिव गौर्मुनिः ।। २२
स्वयं ब्रह्मस्वरूपोऽपि दास्यं भगवतो दृढम् । न जह्यात्कर्हिचिद्धीमांस्तदीयानां च सेवनम् ।। २३
यथोचितं सतां कुर्वन् कैङ्कर्यं शुद्धमानसः । तर्जनं भर्त्सनादीनि तेषां च विषहेत सः ।। २४
प्रीणयेत सतो भक्तया नारायणधियैव तान् । परिचर्यारतस्तेषां भवेन्नित्यमतन्द्रितः ।। २५
सद्बिरुक्तां हितां वाचं सहेत परुषामपि । यथा कलत्रपुत्रादेर्दुरुक्तानि गृहाश्रमी ।। २६
स्वातंत्र्यं यो विहायैव सदधीनो भवेत्पुमान् । एकान्तिको हरेर्भक्तः प्राप्नुयात्स परां गतिम् ।। २७
ईदृशास्त्यागिनो ये स्युः सात्वता इह तेष्वपि । महादीक्षामभीप्सेयुर्ये तेषां विधिरुच्यते ।। २८
तत्र ये ज्ञानवैराग्यभक्तिसद्धर्मपक्वताम् । कालेनाल्पेन सम्प्राप्ता भवेयुर्बहुनापि वा ।। २९
तत्रापि ब्रह्मचर्याल्पाहारस्वादविवर्जनम् । अहिंसागुरुभक्तयादिर्धर्मो येष्वधिको भवेत् ।। ३०
अनुकूला भवेयुश्च येषां शुश्रूषकास्तथा । शक्त्या येऽधीतसच्छास्त्राः प्रोक्तास्तेऽत्राधिकारिणः ।। ३१
तथानधीतसच्छास्त्रा अपि ये योगमञ्जसा । कुर्युरष्टाङ्गमखिलं प्रोक्तास्तेऽप्यधिकारिणः ।। ३२
महादीक्षां जिघृक्षुर्यः स आचार्यमुपाव्रजेत् । तस्याधिकारितां सोऽपि सम्परीक्ष्यैव दीक्षयेत् ।। ३३
कालपूजनहोमादि नैष्ठिकब्रह्मचारिणः ।यथा प्रोक्तं तथैवात्र ज्ञातव्यं सर्वमादितः ।। ३४
दद्यात्तस्मै गुरुर्वासः कौपीनाच्छादनं सितम् । वस्त्रखण्डं च तावन्तमुत्तरीयार्थकं सितम् ।। ३५
कण्ठधार्ये ततो दद्यात्तुलसीमालिकाद्वयम् । अङ्कयेच्छङ्खचक्राभ्यां पूर्ववत्तद्बुजद्वयम् ।। ३६
श्रीकृष्णं हृदये ध्यात्वा गुरुस्तस्मै ततः स्वयम् । बद्धाञ्जलिपुटायैव महामन्त्रमुपादिशेत् ।। ३७
तत आनन्दमुन्यन्तं तस्य नाम गुरुः स्वयम् । कुर्वीत भगवन्नामपूर्वकं स गुरुं नमेत् ।। ३८
धर्मानुपदिशेत्तस्मै प्रणतायाथ देशिकः । अष्टाङ्गं ब्रह्मचर्यं स्वं शिष्य ! त्वं पालयेः सदा ।। ३९
स्त्रिया मनुष्यजातेस्त्वमाकारं नावलोकयेः । अज्ञानात्स्त्रीमुखे दृष्टे व्यक्त्वा कुर्या उपोषणम् ।। ४०
शालग्रामशिलामेकां भक्त्यैव त्वं सुलक्षणाम् । पूजयेः प्रतिघस्रं च यथालब्धोपचारकैः ।। ४१
शक्त्या त्वं पञ्चमस्कन्धं श्रीमद्बागवतस्थितम् । पठेरनुदिनं पूर्वं भोजनात्प्रयतोऽत्वरन् ।। ४२
मिताहाराल्पनिद्रत्वभक्तिनिष्ठास्त्वमाश्रयेः । विरक्त आत्मनिष्ठश्च दृढं तिष्ठेर्बृहद्व्रते ।। ४३
धर्मा एते तथाऽन्ये च त्यागिनां विहितास्तु ये । यावद्देहस्मृतिस्तावत्पालनीया ममाज्ञाया ।। ४४
आचार्यः शिक्षयेदित्थं साधुमात्मनिवेदिनम् । एतावान् हि विशेषोऽत्र विधिरन्यस्तु पूर्ववत् ।। ४५
इत्युक्तो वां त्यागिदीक्षाविधिर्यः स्वामिप्रोक्तः शास्त्रदृष्टश्च पुत्रौ ! ।
कर्तव्या श्रीद्वारिकानाथयात्रा दीक्षां प्राप्तैस्त्यागिभिर्वर्णिभिश्च ।। ४६
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे दीक्षाविधौ त्यागिनां महादीक्षाविधिनिरूपणनामैक-पञ्चाशत्तमोऽध्यायः ।। ५१