श्रीनारायणमुनिरुवाच -
अथ ये नियमा राजन् श्रोतृवक्तृहितावहाः । कथयामि यथावत्तान्पुराणप्रथितानहम् ।। १
गुणभेदाद्वाचकाश्च श्रोतारस्त्रिविधा मताः । उत्तमाः सात्त्विका एव यथोक्तफलभागिनः ।। २
असङ्गतमविस्पष्टं बिस्तरं रसवर्जितम् । पदच्छेदविहीनं च तत्तद्बावविर्जितम् ।। ३
उत्साहवर्जितं यश्च वाचयेद्ग्रन्थदूषकः । क्रोधनोऽप्रियवादी च लोभिष्ठः स्त्रीसमीक्षकः ।। ४
सम्यग्ग्रन्थार्थमविदन्भगवद्बक्तिवर्जितः । वाचकस्तामसो ज्ञोयः स चाधम इतीरितः ।। ५
स्पष्टाक्षरपदं शान्तं क्वचिद्दीर्घतरं तथा । कालस्वरसमायुक्तं रसभावविवर्जितम् ।। ६
अद्बुतं वाचयेद्यश्च लुब्धः क्रुद्धः क्वचित् क्वचित् । प्रीतिमांश्च रसास्वादे वस्त्रालङ्कारधारणे ।। ७
अबुध्यमानो ग्रन्थार्थं भक्तो भगवतोऽपि सन् । वाचकः स तु विज्ञोयो राजसो मध्यमश्च सः ।। ८
सरसं सुखरं धीरं तत्तद्बावसमन्वितम् । स्पष्टाक्षरविभेदं च सोत्साहं नातिविस्तृतम् ।। ९
शान्तं च वाचयेद्यस्तु श्रद्धालुर्दृढनिश्चयः । सम्प्रदायाध्ययनवान् ग्रन्थार्थं कृत्स्न्शो विदन् ।। १०
जितेन्द्रियः सुशीलश्च दुराग्रहविर्जितः । यथार्थवादी वाग्मी च श्रोतृबोधननैपुणः ।। ११
यदृच्छालाभसन्तुष्टः करुणो निरहङ्कतिः । मृदुस्वभावः शान्तश्च भगवद्बक्तिसंयुतः ।। १२
लोकापवादरहितः प्रतिप्रहपराङ्मुखः । जितकामो जितक्रोधो जितलोभंश्च निःस्पृहः ।। १३
मैत्रो धीरः साधुवृत्तिर्निर्दम्भोऽकिञ्चनस्तथा । उपकारी वाचकस्तु सात्त्विकश्चोत्तमो मतः ।। १४
सात्त्विकैर्लक्षणैर्युक्तः श्रीभागवतवाचकः । प्रत्यहं स्वाह्निकं कुर्यादुषस्युत्थाय बुद्धिमान् ।। १५
ततः श्रोतृभिराहूतः स कथामण्डपं व्रजेत् । प्रक्षाल्य पाणिपादास्यं कुर्यादाचमनत्रयम् ।। १६
धौतश्वेताम्बरधरः सदुरुं हृदये स्मरन् । विप्रान्साधून्नमस्कृत्य श्रीमद्बागवतं नमेत् ।। १७
ततः स्वपूज्यगुर्वादेराज्ञाया विनयान्वितः । उदङ्मुखः प्राङ्मुखो वा व्यासासनमुपाविशेत् ।। १८
श्रोतृभिः पूजितः सोऽथ कुर्यान्मङ्गलमादितः । यं प्रव्रजन्तमित्यादिश्लोकत्रमुदीरयेत् ।। १९
कस्मै येनेति पद्यं च स्वेष्टपद्यान्यतः परम् । पठित्वा पुस्तकं नत्वा ततः पद्यमिदं पठेत् ।। २०
श्रूयतां देव ! देवेश ! नारायण ! जगत्पते ! । त्वदीयेनावधानेन कथयिष्ये शुभाः कथाः ।। २१
इति पद्यं पठित्वैव वाचयेत्स कथां बुधः । साधून्विप्रान्विलोक्यैव कुर्यादर्थं न योषितः ।। २२
समाप्तिरन्तेऽध्यायस्य यस्य यस्य न सम्मता । न तत्र तत्र विरमेदध्यायांस्तानपि ब्रुवे ।। २३
तत्राद्ये स्कन्ध आद्यश्च ह्यष्टमो दशमस्तथा । चतुर्दशः षोडशश्च निषिद्धा विरताविमे ।। २४
तृतीयश्चाष्टमश्चेति द्वौ द्वितीये निषेधितौ । सप्तर्षिभिस्ततः कार्या तदन्ते विरतिर्नहि ।। २५ ।।
दशमः सप्तमश्चाद्यस्तृतीयेऽष्टादशस्तथा । त्रयोविंशश्च विरतौ सम्मता न बुधैर्नृप ! ।। २६
आद्यस्तृतीयो दशमस्तुर्ये सप्तदशस्तथा । अष्टाविंशश्च नाध्याया विरतौ शुभदा नृणाम् ।। २७
पञ्चमे पञ्चमोऽध्यायो निषिद्धश्च त्रयोदशः । षष्ठे षष्ठः पञ्चमश्च प्रथमो दशमस्तथा ।। २८
सप्तमे प्रथमस्तुर्यः षष्ठः स्कन्धेऽथ चाष्टमे । आद्योऽष्टमो द्वितीयश्च दशमश्चैकविंशकः ।। २९
नवमे पञ्चदशको दशमस्तुर्य आदिमः । अध्याया बिरतौ नैते गृहीता मुनिभिर्नृप ! ।। ३०
दशमे दशमश्चाद्यो द्वाविंशो नवमस्तथा । त्रय एकानत्रिंशाच्च द्विषष्टितम एव च ।। ३१
षट्सप्ततितमः सप्तसप्ततितम इत्यमी । निषिद्धा विरतौ सन्ति षङ्भिः पौराणिकैरपि ।। ३२
एकादशे तु दशमो द्वाविंशस्त्रिंश एव च । द्वादशे नवमस्त्वेक इत्यध्याया मयोदिताः ।। ३३
एषामन्ते न विरतिः कार्या पौराणिकैः क्वचित् । नित्यैकाध्यायपाठानामप्येष विधिरिप्यते ।। ३४
मासपक्षादिनियतदिनसङ्खयानुरूपतः । अध्यायान्वाचयेन्नित्यं ततः कुर्यात्समापनम् ।। ३५
मुहूर्तं घटिकां वापि कथान्ते नामकीर्तनम् । कुर्यात्प्रतिदिनं विष्णोरुत्तरेदासनात्ततः ।। ३६
पुनर्नत्वा स गुर्वादीन् गच्छेद्विद्वान्निजं गृहम् । कथासमाप्तिपर्यन्तं नित्यमेवं समाचरेत् ।। ३७
कथारम्भदिनाद्यावत्समाप्त्यन्यस्य नाऽददेत् । अन्नं प्रतिग्रहं वापि पापभीरुः स पण्डितः ।। ३८
न दद्युः स्वस्य पर्याप्तं श्रोतारः प्रत्यहं यदि । अन्नं तदा त्वन्यदत्तं गृहणीयान्नात्र पातकम् ।। ३९
सप्ताहे वा दशाहे च पक्षपारायणे तथा । मासपारायणेऽप्येष विधिस्तस्य प्रकीर्तितः ।। ४०
वातुलं नैव भुञ्जीत न कुर्याञ्चातिभोजनम् । न रोगकृञ्च शाकादि तैलं कटु च वर्जयेत् ।। ४१
ब्रह्मचर्यमहिंसां च सत्यास्तेये च पालयेत् । कथाविघ्नकरं यत्तत्कर्म कुर्यान्न कर्हिचित् ।। ४२
पुराणवक्तुर्नृपते ! मयेत्थं प्रोक्तानि लक्ष्माणि यमाश्च सर्वे ।
लक्ष्माणि वक्ष्याम्यधुना च तुभ्यं तच्छ्रोतृपुंसां नियमांश्च पाल्यान् ।। ४३
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पुराणश्रवणोत्सवे भागवतश्रवणविधौ वक्तृलक्षणनियमनिरूपणनामा पञ्चमोऽध्यायः ।। ५ ।।