श्रीनारायणमुनिरुवाच- -
श्रद्धाभक्तिविहीनो यो लोभिष्टो दूषकस्तथा । हेतुवादपरो राजन्नभ्यसूयासमन्वितः ।। १
वक्त्रे न दक्षिणां दद्यात्पुण्याहे च समापने । अतिप्रश्नांश्च यः कुर्यात्स श्रोता तामसोऽधमः ।। २
कथां प्रसङ्गाच्छ्रणुयाच्छ्रद्धाहीनोऽपि यः पुमान् । दधाद्दश शतस्थाने स्वपाण्डित्यं च दर्शयेत् ।। ३
दाम्भिको मत्सरग्रस्तो मानी चाप्यस्थिरासनः । क्षणं रुष्टः क्षणं तुष्टः श्रोता राजसमध्यमः ।। ४
सन्त्यज्य सर्वकार्याणि भक्तिश्रद्धासमन्वितः । पुराणं शृणुयान्नित्यं विनयेनान्वितश्च यः ।। ५
वाचकं पूजयेन्नित्यं काले काले च दक्षिणाम् । यथोचितं प्रदद्याच्च श्रोतन्सर्वांश्च मानयेत् ।। ६
निर्मत्सरो भगवति प्रेमवृद्धीप्सुरादृतः । शृणुयाञ्चैकचित्तो यः स श्रोता सात्त्विकोत्तमः ।। ७
सात्त्विकैर्लक्षणैर्युक्तः श्रोता पुस्तकवाचकौ । पूर्वोक्तेन विधानेन सम्पूज्य शृणुयात्कथाम् ।। ८
अनुष्णीषोऽप्रौढपादो न गच्छंश्च स्थलान्तरम् । पूगाद्यनश्नंश्च शुचिर्वाग्यतः शृणुयात्कथाम् ।। ९
वीरासनेनोपविशेन्न च पश्येदितस्ततः । वार्तो कुर्र्याच्च नान्योन्यं तदेकाग्रमना भवेत् ।। १०
संशये सति वक्तारं पृच्छेच्च शनकैर्नमन् । करपादादिचापल्यं श्रोता कुर्यान्न संसदि ।। ११
पालयेद्ब्रह्मचर्यादीन्नियमान्विजितेन्द्रियः । स्कन्धान्त उत्सवादौ च दद्याच्छक्त्या च दक्षिणाम् ।। १२
स्कन्धे स्कन्धे समाप्ते च विप्रा भोज्याः शतं शतम् । दक्षिणा च यथाशक्ति तेभ्यो देया नराधिप ! ।। १३
अशक्तस्तु पुराणस्य समाप्तौ भोजयेच्छतम् । तदिष्टभोजनैर्विप्रान्दक्षिणाभिश्च तोषयेत् ।। १४
कथाप्रारम्भदिवसे सम्पूज्यादौ गणाधिपम् ।। ब्राह्मणं वरयेदेकं गायत्रीजपहेतवे ।। १५
स सहस्रत्रयं नित्यं समाप्तयवधि सञ्जपेत् । वरणीयास्तथा चान्ये ब्राह्मणाः पञ्च वैष्णवाः ।। १६
सहस्रपञ्चकं नित्यं मन्त्रस्तु द्वादशाक्षरः । वासुदेवस्य सम्प्रीत्यै जप्तव्यस्तैर्दृढव्रतैः ।। १७
अन्नवस्त्राणि तेभ्योऽपि दद्यादन्ते च दक्षिणाम् । श्रोतृभ्यश्चापि विप्रेभ्यः शक्तया दद्याश्च दक्षिणाम् १८
मलमूत्रजयार्थं च स्वल्पाहारः सुखावहः । हविष्यान्नेनैकभक्तं श्रोता कुर्यात्ततो नृप ! ।। १९
उपवासाः प्रकर्तव्याः सप्ताहे सप्तवासरान् । फलाहारमशक्तस्तु कुर्याद्वापि पयः पिबेत् ।। २०
अद्यान्निर्लवणं वान्नमेकभक्तं च वा चरेत् । सुखसाध्यं भवेद्यत्तत्कर्तव्यं श्रवणार्थिना ।। २१
भोजनं तु वरं मन्ये कथाश्रवणकारकम् । नोपवासो मतः श्रेष्ठः कथाविघ्नकरो यदि ।। २२
स्थिरा तु प्रतिमा विष्णोर्यदि न स्यात्तदा चलाम् । अग्रे संस्थापयेद्वक्तुः कथारम्भे दिने दिने ।। २३
सौवर्णीमेव सप्ताहे कारयेत्प्रतिमां हरेः । संस्थाप्य पूजयेन्नित्यं तत्रैव दिनसप्तकम् ।। २४
कथासमाप्तौ तां दयाद्ब्राह्मणाय सदक्षिणाम् । अशक्तस्तु यथाशक्ति विधिं कुर्यात्समाहितः ।। २५
प्रातः कार्यः कथारम्भः सार्धयामत्रयावधि । वाच्यात्र विरतिः कार्या मध्याह्ने घटिकाद्वयम् ।। २६
पौराणिके तु विश्रान्ते मध्याह्ने श्रोतृर्भिनरैः । नामसङ्कीर्तनं कार्यं मुहूर्तंरुक्मिणीपतेः ।। २७
समाप्ते श्रीभागवते गीता भगवतोदिता । सहार्था संहिता वापि श्रव्या सर्वार्थपूरिका ।। २८
समाप्तिदिवसे कार्या महापूजा यथाधनम् । सर्वेऽपि श्रावकाः कुर्युर्वक्तुः पूजां यथोचितम् ।। २९
नूत्नकौशेयवस्त्राणि कुण्डले कटकादि च । दधाच्छ्रोताग्रिमो वक्त्रे सहस्रस्वर्णदक्षिणाम् ।। ३०
अशक्तस्तु सुवर्णानां दद्यादष्टाधिकं शतम् । तत्राप्यशक्तः पुरुषो धनं दधात्स्वशक्तितः ।। ३१
अन्येऽपि शक्तितो दद्युर्वस्त्रालङ्कारदक्षिणाः । गृहस्थधर्मौपयिकं देयं यत्किञ्चिदेव वा ।। ३२
स्वर्णमासो रौप्यको वा दक्षिणोक्ता महर्षिभिः । श्रोतणामल्पवित्तानां वक्त्रे देयाः पृथक् पृथक् ।। ३३
मुख्यः श्रोता ततो दद्याद्धेमसिंहं पलोन्मितम् । सम्पूज्य वाचकायैव मंत्रमेनमुदीरयन् ।। ३४
कान्तारवनदुर्गेषु चोरव्यालाकुले पथि । हिंसको मां न हिंसन्तु सिंहदानप्रभावतः ।। ३५
असग्दतेश्चापमृत्युसम्भवायाः प्रशान्तये । राजा परीक्षित्प्रददौ हेमसिंहं पुरा नृप ! ।। ३६
शृङ्गिदंष्ट्रयादिहिंस्राणामधिपः सिंह एव हि । अतस्तद्दायिनां न स्यादृर्गतिर्ह्यपमृत्युजा ।। ३७
धेनुं प्रयत्नतो दद्यात्ततो वक्त्रे पयस्विनीम् । दशांशेनैव गायत्र्या होमं कुर्यात्ततः परम् ।। ३८
द्रव्येण पायसाज्येन ततो व्याहृतिभिर्नरः । तिलव्रीहिद्रव्यहोमं कुर्वीत च यथाविधि ।। ३९
हेमानुकूल्यं न स्याच्चेत्तन्निष्क्रयधनं पुमान् । दद्यात्तेनापि सम्पूर्णं फलं स्यान्नात्र संशयः ।। ४०
विशेष इति ते प्रोक्तः श्रीमद्बागवतश्रुतौ । प्रागुक्तोऽन्योऽपि च विधिर्ज्ञातव्योऽत्र त्वया नृप ! ।। ४१
इत्थं विधानेन पुराणमेतच्छृण्वन्ति ये भूमिपते ! नरास्ते ।
फलं पुरोक्तं सकलं लभन्ते स्वाभीष्टमत्रापि परत्र नूनम् ।। ४२ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पुराणश्रवणोत्सवे भागवतश्रवणविधौ श्रोतृधर्मनिरूपणनामा षष्ठोऽध्यायः ।। ६ ।।