श्रीनारायणमुनिरुवाच -
त्रैवर्णिकोऽथाधिकारी यस्तु स्थित्वा गृहाश्रमे । प्राप्तुमिच्छेन्महादीक्षां तस्यादौ विधिरुच्यते ।। १
सामान्यदीक्षाधर्मेषु पुमान् यस्तु दृढस्थितिः । स प्रपद्येत शरणं निजाचार्यं कृताञ्जलिः ।। २
प्रपन्नाय विनीताय तस्मै स गुरुरादितः । दृाधिकारमुचितं प्रायश्चित्तमुपादिशेत् ।। ३
एकमाश्रमसंस्थेन निराहारमुपोषणम् । द्वे त्वनाश्रमिणा तेन कारयेत्स उपोषणे ।। ४
क्षौरपूर्वं ततः शिष्यः कुर्यात्तस्याज्ञाया व्रतम् । महादीक्षाधिकारार्थं जपेच्चाष्टाक्षरं मनुम् ।। ५
सार्धं सहस्रद्वितयं मन्त्रः प्रागेव रौहिणात् । प्रतिमासन्निधौ जप्यो वासुदेवस्य भक्तितः ।। ६
गुरुस्तु पूर्वदिवसे देयमन्त्रविशुद्धये । सहस्रकृत्वः प्रजपेच्छुचिः सम्पूज्य केशवम् ।। ७
ततो ब्राह्मणमाहूय विधिज्ञां चौद्धवाश्रितम् । आचार्यः कारयेद्विष्णोः पूजां शिष्येण चौद्धवः ।। ८
स च विप्रो यथाशास्त्रं कारयेत्सकलं विधिम् । दिनद्वयेन वैकेन देशकालानुसारतः ।। ९
नान्दीमुखस्वस्त्ययनप्रमुखं पूर्ववासरे । कारयेच्छास्त्रदृष्टेन विधिना तद्दिनेऽथवा ।। १०
मण्डलं सर्वतोभद्रं कुर्यादादौ मनोहरम् । तन्मध्ये स्थापयेत्कुम्भं हैमं वा ताम्रमुत्तमम् ।। ११
दिक्ष्वष्टस्वष्ट कुम्भांश्च स्थापयेच्च ततः शुभान् । निजशक्त्यनुसारेण ताम्रान्वा मृन्मयानपि ।। १२
सतोयेषु सरत्नेषु सपल्लवफलेषु च । सवसपूर्णपात्रेषु स्थापयेत्तेषु देवताः ।। १३
श्रीराधासहितं कृष्णं स्थापयेन्मध्यमे घटे । प्राच्यां कुम्भे स दुर्गां च दक्षिणे भास्करं तथा ।। १४
प्रतीच्यां विघ्नराजं च शिवं सौम्यां घटे न्यसेत् । विष्वक्सेनं तथाऽग्नेय्यां नैऋर्त्यां गरुडं च सः १५
वायव्यां च हनूमन्तं कलशे स्थापयेत्ततः । श्रीदामानं तथैशान्यां क्रमेण स यथाविधि ।। १६
सुस्नतेनाथ शिष्येण स्वस्तिवाचनपूर्वकम् । वृद्धिश्राद्धं कारयित्वा हरेः पूजां विधापयेत् ।। १७
भूतशुद्धिं तथा प्राणप्रतिष्ठा तान्त्रिकीं स च । कारयित्वा मातृकाणां न्यासांश्चावाहयेत्प्रभुम् ।। १८
श्रीकृष्णाय नमस्तुभ्यं श्रीराधापतये नमः । नमस्ते धर्मधुर्याय नरनारायणाय च ।। १९
एतेन मन्त्रेण च तमावाहनपुरस्कृतम् । भगवन्तं साङ्गदेवं पूजयेद्ब्राह्मणः सुधीः ।। २०
उपचारैः षोडशभिर्मन्त्रैर्विष्णोश्च वैदिकैः । कारयित्वार्चनं वह्नि दक्षिणे स्थापयेद्धरेः ।। २१
स्थापिते संस्कृते वह्नौ वैष्णवं श्रपयेच्चरुम् । प्रदीप्ते तत्र च ततो ध्यात्वा सम्पूजयेद्धरिम् ।। २२
समिदाज्यचरूणां च प्रत्येकं जुहुयात्ततः । आहुतीरष्टवर्णेन स चाष्टाधिकविंशतिम् ।। २३
ततोऽङ्गदेवतादिभ्य एकैकां च घृताहुतिम् । हुत्वा पूर्णाहुतिं चासौ होमकर्म समापयेत् ।। २४
महानीराजनं कृत्वा दत्त्वा पुष्पाञ्जलिं च सः । दण्डवत्प्रणमेच्छिष्यः प्रार्थयेच्च तमादरात् ।। २५
वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोर्नः ।
स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ।। २६
ततो बद्धाञ्जलिपुट एकाग्रमनसा हरिम् । स्तुवीत शिष्यः सानन्दं स्तोत्रमेतत् पठन् स्थितः ।। २७
नवीनजीभूतसमानवर्णं रत्नोल्लसत्कुण्डलशोभिकर्णम् ।
महाकिरीटाग्रमयूरपर्णं श्रीराधिकाकृष्णमहं नमामि ।। २८
निधाय पाणिद्वितयेन वेणुं निजाधरे शेखरयातरेणुम् । निनाद यन्तं च गतौ करेणुं श्री. ।। २९
विशुद्धहेमोज्ज्वलपीतवस्त्रं हतारियूथं च विनापि शस्त्रम् । व्यर्थीकृतानेकसुरद्विडस्त्रं श्री. ।। ३०
अधर्मतिष्यार्दितसाधुपालं सद्धर्मवैरासुरसङ्घकालम् । पुष्पादिमालं व्रजराजबालं श्री. ।। ३१
गोपीप्रियारम्भितरासखेलं रासेश्वरीरञ्जनकृत्प्रहेलम् । स्कन्धोल्लसत्कुङ्कुमचिह्नचेलं श्री. ।। ३२
वृन्दावने प्रीततया वसन्तं निजाश्रितानापद उद्धरन्तम् । गोगोपगोपीरभिनन्दयन्तं श्री. ।। ३३
विश्वद्विषन्मन्मथदर्पहारं संसारिजीवाश्रयणीयसारम् । सदैव सत्पूरुषसौख्यकारं श्री. ।। ३४
आनन्दितात्मव्रजवासितोकं नन्दादिसन्दर्शितदिव्यलोकम् ।
विनाशितस्वाश्रितजीवशोकं श्रीराधिकाकृष्णमहं नमामि ।। ३५
ततश्चोपविशेतां तौ गुरुशिष्यौ सुशोभिते । देवपीठाग्निवेद्योस्तु मध्यस्थाने समाहितौ ।। ३६
सुस्नातोऽथ गुरुस्तत्र कृतनित्यविधिः शुचिः । कुशाजिनोर्णान्यतमे निषीदेदासने शुभे ।। ३७
तथाविधासने शिष्यः श्वेतवासा अलंकृतः । चन्दनाद्यैरुपविशेत्प्रणमेत्तं च सद्गुरुम् ।। ३८
श्वेते धौते नूत्नवस्त्रे गुरुस्तं परिधापयेत् । वध्नीयात्तुलसीमाले कण्ठे चास्य ततः शुभे ।। ३९
कृष्णपूजावशिष्टेन कैसरेण सुगन्धिना । कारयेच्चन्दनेनासावूर्ध्वपुण्ड्रचतुष्टयम् ।। ४०
ततो गोपीचन्दनेन तद्बाह्वोर्दक्षवामयोः । कृष्णस्य चक्रशङ्खाभ्यां हेतुभ्यामङ्कयेद्गुरः ।। ४१
प्राङमुखस्याथ शिष्यस्य बद्धाञ्जलिपुटस्य सः । उदङ्मुखो गुरुर्दक्षे कर्णे मन्त्रमुपादिशेत् ।। ४२
अष्टाक्षरं महामन्त्रं सह ऋष्यादिभिर्गुरुः । शिष्याय दद्याच्छ्रीकृष्णं हृदि ध्यायन्समाहितः ।। ४३
अस्य श्रीकृष्णमन्त्रस्य छन्दोऽनुष्टुप च नारदः । ऋषिश्च देवता कृष्णस्तत्प्रीत्यै विनियोजनम् ।। ४४
त्रिवारमुपदिश्यासौ यथापूर्वमुपाविशेत् । ततस्तस्मै पालनीयान्सर्वान् धर्मानुपादिशेत् ।। ४५
ऊर्ध्वपुण्ड्राणि तुलसीमाले त्वं तात ! धारयेः । नित्यं कुर्या विष्णुपूजां त्रिकालं सकृदेव वा ।। ४६
तत्रोर्ध्वपुण्ड्रं कर्तव्यं सन्ध्यापूजादिकर्मसु । मृदैव सितया वत्स ! गोपीचन्दनसंज्ञाया ।। ४७
अंगुल्यैव च तत्कार्यं दण्डाकारं सुशोभनम् । सच्छिद्रं नासिकामूलाल्ललाटे त्वाकचोदयात् ।। ४८
एवं हृदि च कर्तव्यं पुण्ड्रं बाहुद्वये तथा ।द्विजातीनां त्विह प्रोक्तमूर्ध्वपुण्ड्रचतुष्टयम् ।। ४९
हरिमभ्यर्च्य तिलकं कर्तव्यं चन्दनेन च । प्रासादिकेन रुचिरं दृाऽदर्शे सचन्द्रकम् ।। ५०
अथवा चन्द्रकं कुर्याः कुंकुमेन सुशोभनम् ।हृदये बाहुयुग्मे च तथा पुण्ड्रं सचन्द्रकम् ।। ५१
ललाटे वासुदेवं च ध्यायन्सङ्कर्षणं हृदि । प्रद्युम्नं चानिरुद्धं च तत्कुर्यास्त्वं भुजद्वये ।। ५२
माले च कण्ठलग्ने द्वे तुलसीकाष्ठजे त्वया । यज्ञापवीतवद्धार्ये सूक्ष्मे नित्यं च पुत्रक ! ।। ५३
हरेः प्रासादिकीं मालां तुलसीकाष्ठजां भवान् । नवीनां धारयेद्यर्हि तदा मन्त्रमिमं पठेत् ।। ५४
तुलसीकाष्ठसम्भूते ! माले ! कृष्णजनप्रिये ! । विभर्मि त्वामहं कण्ठे कुरु मां कृष्णवल्लभम् ।। ५५
यथालब्धोपचारैश्च कर्तव्यं विष्णुपूजनम् । द्रव्याभावे तु मन्त्रेण तत्कार्यं दम्भवर्जितम् ।। ५६
शालग्रामशिलापूजा कर्तव्या ब्राह्मणेन तु । श्रीकृष्णप्रतिमैवार्च्या दीक्षितेनेतरेण तु ।। ५७
पूजनान्ते भगवंतो योऽद्य लब्धो महामनुः । जपनीयो यथाशक्ति स त्वया वाञ्छितार्थदः ।। ५८
यथाशक्ति यथाबुद्धि जपान्तेऽनुदिनं त्वया । कर्तव्यो दशमस्कन्धाध्यायपाठो ह्यनापदि ।। ५९
कालीभैरवभूतादि भये क्वचिदुपस्थिते । श्री नारायणवर्मैव जपेस्त्वं प्रयतः शुचिः ।। ६०
सायं मन्त्रजपश्चापि कर्तव्यः शक्तितस्त्वया ।वृथाकालो न नेतव्यो हरिसम्बन्धमन्तरा ।। ६१
विष्णोः कथायाः श्रवणं कीर्तनं ध्यानमर्चनम् । कुर्या नित्यमुदासीनः प्रवृत्तखिलकर्मसु ।। ६२
अनापदि स्पृशेर्नैव सधवामपि योषितम् । प्रासादिकं विना विष्णोर्न पत्रमपि भक्षयेः ।। ६३
निवेदितं यदन्नादि वासुदेवाय तेन च । देवानन्यान् पितंश्चापि यथाकालं यजेद्बवान् ।। ६४
चातुर्मास्योर्जमाघेषु विशेषनियमांश्चरेः । प्रत्यक्षं लवणं त्वं च न गृीयाश्च भोजने ।। ६५
मलोत्सर्गे कटिस्नानमनापदि समाचरेः । विनोदकं न कुर्याश्च मूत्रकर्माप्यनापदि ।। ६६
ब्राह्मे मुहूर्ते निद्रां त्वं सर्वथैव त्यजेः सदा । आदिमं याममुल्लङ्घय शयनं निशि चाचरेः ।। ६७
दशमीष्वथ सर्वासु पारणादिवसेषु च । दिवानिद्रां त्यजेर्विष्णोर्व्रतोत्सवदिनेषु च ।। ६८
दिवा निशि च भुञ्जीथा न दिवा द्विस्तथा निशि । पारतन्त्र्येऽथ रोगादौ द्विर्भुक्तिर्नात्र दुष्यति ।। ६९
प्रेतान्नं नैव भोक्तव्यं संस्कारान्नं तथैव च । आसन्नसम्बन्धिगृहे दोषो नास्ति च तद्बुजौ ।। ७०
धर्मशास्त्रेण विहितान्स्वधर्मानितरानपि । पालयन्सर्वकालं त्वं कृष्णभक्तिं समाचरेः ।। ७१
चिद्रूप आत्मा विज्ञोयः साक्ष्यवस्थात्रयस्य च । देहेन्द्रियमनः प्राणबुद्धयादीनां प्रकाशकः ।। ७२
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।। ७३
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।। ७४
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ।। ७५
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । ज्ञातव्यो ब्रह्मरूपोऽयं सच्चिदानन्दलक्षणः ।। ७६
आत्मना ब्रह्मरूपेण विशुद्धेनाक्षरेण च । कृष्णमेव परं ब्रह्म हृत्पद्मे चिन्तयेः सदा ।। ७७
सन्त एव सदा सेव्यास्तदुक्ता नियमास्तथा । पालनीयाः प्रयत्नेन ब्रह्मचर्यादयस्त्वया ।। ७८
सर्वात्मना श्रितः कृष्णं त्वमसि ह्यम्बरीषवत् । अत आत्मनिवेदीति ख्यातो भुवि भविष्यसि ।। ७९
इत्याज्ञां शिरसादाय शिष्यः सम्पूज्येद्गुरुम् । वस्त्रैश्चन्दनपुष्पैश्च यथाशक्ति धनेन च ।। ८०
गोभूहिरण्यविपिनमश्ववाटी गृहं च वा । अक्लेशादन्नवस्त्रादि स्वशक्तयागुरवेऽर्पयेत् ।। ८१
ततश्चन्दनपुष्पाद्यैरन्नैर्दक्षिणया च सः । साधूनन्यांश्च विप्रांश्च पूजयित्वाभिवादयेत् ।। ८२
दीक्षितं तं ततो ब्रूयाद्विधिज्ञाः स द्विजोत्तमः । भद्रं तेऽस्तु महाभाग ! धन्योऽसि कुलपावनः ।। ८३
प्रसादात्सद्गुरोरेव त्वन्मनोरथपादपः । भविष्यत्येव सफलः परं सुखमवाप्स्यसि ।। ८४
सुखमूलं हि विज्ञानं तत्तु लभ्येत सद्गुरोः । ततस्तमेव सेवेत मुमुक्षुः संयतेन्द्रियः ।। ८५
असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् । अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ।। ८६
आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया । योगान्तरा यान्मौनेन हिंसां कायाद्यनीहया ।। ८७
कृपया भूतजं दुःखं दैवं जह्यात्समाधिना । आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ।। ८८
रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च । एतत्सर्वं गुरौ भक्तया पुरुषो ह्यञ्जसा जयेत् ।। ८९
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।। ९०
भजस्व परया भक्त्या ततस्त्वं गुरुमीश्वरम् । एवमुक्त्वा देवतानां द्विजः कुर्याद्विसर्जनम् ।। ९१
हैमीं सोपस्करां मूर्तिमन्नं वस्त्रादि दक्षिणाम् । तस्मै दद्याच्च विप्राय शिष्योऽसौ कर्मकारिणे ।। ९२
दीक्षादानदिने शिष्यो न गुरुश्चाप्युपावसेत् । एकादशीव्रतादौ तु फलाद्याहारमाहरेत् ।। ९३
सामान्यां महतीं वापि गृीयादौद्धवीं तु यः । दीक्षामेतां स्वशक्त्याऽसौ साधून्विप्रांश्च भोजयेत् ।। ९४
दीक्षामेवं हि सम्प्राप्य धर्मानेकान्तिनां गृही । स्वाश्रमस्थोऽभ्यसेन्नित्यं तीर्थसेवापरायणः ।। ९५
तीर्थान्यपि द्विधा सन्ति स्थावराणि जगन्ति च । आद्यानि गङ्गामुख्यानि तत्रान्यानि च साधवः ।। ९६
स्थावराणि तु सेवेत स्नानदर्शनवन्दनैः । जगन्ति तत्कथाश्रुत्या दर्शनार्चनभोजनैः ।। ९७
त्रैवर्णिकस्य गृहिणः प्रोक्त इत्थं विधिर्मया । दीक्षाया अथ शूद्रस्य विशेषः कश्चिदुच्यते ।। ९८
दीक्षां जिघृक्षुं सच्छूद्रमाचार्यः पूर्ववासरे । उपोषणं कारयित्वा कारयेत् कृष्णपूजनम् ।। ९९
मन्त्राः पौराणिकाः पाठयास्त क्वापि न वैदिकाः ।श्रीकृष्णाय नम इति होमे पाठयः षडक्षरः ।। १००
स्वाहाकारो न वक्तव्यं शूद्रस्यानधिकारतः । तमङ्कयित्वोपदिशेदष्टवर्णं मनुं गुरुः ।। १०१
गृहस्थविहितान् र्मांस्ततस्तस्मा उपादिशेत् । शूद्राणां विधिरित्युक्तो वच्म्यनाश्रमिणोऽथ तम् ।। १०२
दीक्षामिमां ये गृहिणो गृहीत्वा भजन्ति कृष्णं निजधर्मसंस्थाः ।
ते पूरुषास्त्यागिजनैः समाना ज्ञोया इहामुत्र च भूरिसौख्याः ।। १०३
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे दीक्षाविधौ गृहस्थानां महादीक्षाग्रहणविधिनिरूपणनामाष्टचत्वारिंशोऽध्यायः ।। ४८ ।।