श्री नारायणमुनिरुवाच -
अस्ते च वार्धके बाल्ये देवदैत्यपुरोधसोः । नीचस्थे सिंहगे चेज्ये दीक्षा देया न वक्रगे ।। १
एकादश्यां प्रबोधन्यां जन्माष्टम्यां च दीक्षणे ।दोषो रामनवम्यां च नास्तादेर्गुरुशुक्रयोः ।। २
मलमासे च वर्षासु श्रीकृष्णस्य मनुः क्व चित् । नोपदेश्यो न च ग्राह्यः सूर्यचन्द्रग्रहं विना ।। ३
न मासतिथिवारादि विचार्यं ग्रहपर्वणि ।सूर्यचन्द्रग्रहसमो नान्यः कालो यतः शुभः ।। ४
अस्तादिदोषहीनासु सर्वास्वेकादशीषु च ।द्वादशीष्वपि सर्वासु दीक्षा देया तु सङ्गवे ।। ५
पुराणप्रथिते देशे शुचौ दीक्षाविधिर्मतः । धर्मवंश्यो गुरुर्दधाद्दीक्षां शिष्यं परीक्ष्य सः ।। ६
वर्षेणापि परीक्ष्यैव धर्मपालनशीलताम् । शिष्यस्य स ततो दधाद्दीक्षां तस्मै नचान्यथा ।। ७
धर्मपालनसामर्थ्यमपरीक्ष्य तु यो गुरुः । ददाति दीक्षां शिष्यस्य स तत्पापेन युज्यते ।। ८
अमात्यपापं राजानं पत्नीपापं च तत्पतिम् । यथा तथा शिष्यपापं गुरुं प्राप्नोति निश्चितम् ।। ९
तस्मादादौ परीक्षेत शिष्यं गुरुरतन्द्रितः । तल्लक्षणानि सेपात्सच्छास्त्रोक्तानि वच्म्यहम् ।। १०
शान्तः सुशीलः शुद्धात्मा श्रद्धालुर्धर्मसंस्थितः । असत्वरश्चानसूया मुमुक्षुः सत्यभाषणः ।। ११
अधीतसच्छास्त्रविद्यो निजशक्तयनुसारतः । स्वीयनिर्वाहोपयुक्तद्रव्यवान् गतमत्सरः ।। १२
दोषं महान्तं च विदन् स्पर्शने विधवस्त्रियाः । पापकर्मसु भीरुश्च तपस्युत्साहशक्तिमान् ।। १३
महापापेष्वन्यतमं गोधातो येन वा क्व चित् । कृतपूर्वो भवेन्नैव न कृतघ्नश्च यो भवेत् ।। १४
भोजने पङ्किभेदं च यो न कुर्यादनापदि ।स्वधर्मपालने यस्य शौथिल्यं स्यान्न च क्व चित् ।। १५
स्वबन्धोरप्यल्पमपि पदार्थं यश्च कर्हिचित् । अनापृच्छय न गृीयाद्यो न विश्वासघातकः ।। १६
प्रतिश्रुतं यथा स्वेन कर्मकर्त्रे तथैव तत् । यश्च दद्यान्न तु क्व पि भञ्जयादेकं कपर्दकम् ।। १७
नातिलोभी नातिकामी मानेर्प्याक्रोधवर्जितः । ऋजुर्दयालुप्रकृतिस्तितिक्षुर्धैर्यवाञ्छुचिः ।। १८
क्षुधया व्याकुलो न स्याद्व्रताद्याचरणे च यः । साधुशुश्रूषणरुचिर्निश्छद्मा विजितेन्द्रियः ।। १९
स्त्रीशिष्यतां च न प्राप्तः कौलमार्गे च नाश्रितः । न दिवास्वापशीलश्च न प्रमादी च यः पुमान् ।। २०
प्रवृत्तिधर्मोदासीनो निवृत्तं धर्ममादरात् । सिसेविषुः पुमान् योऽसावधिकार्यत्र कीर्तितः ।। २१
एतैस्तु लक्षणैर्हीनो यः पुमांस्तं न दीक्षयेत् । तथाभूतोऽपि यो व्यङ्गस्तं चापि न गुरुः क्व चित् ।। २२
अन्धः काणः केकरश्च पंगुः कुब्जश्च वामनः । छिन्नोष्ठनासाकर्णश्च मूकश्च बधिरः कुणिः ।। २३
खञ्जो भूतादिविकलः श्वित्री रुग्णः क्षयी जडः । नीचकर्मा चातिवृद्धो नैते दीक्षार्हणाः क्व चित् ।। २४
दीक्षां गुरुर्यो महतीं तु दत्ते विनाधिकारं पुरुषाय कोऽपि ।
बलात् स दुःखं दृषदं यथाङ्घ्रयोरोदत्त एवापयशश्च पुत्रौ ! ।। २५
इति श्रीसत्त्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे दीक्षाविधौ महादीक्षाग्रहणकालाधिकारिनिरूपणनामा सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।