द्विचत्वारिंशोऽध्यायः

सुव्रत उवाच -


प्रणम्य तं करं तस्य गृहीत्वा पाणिना ततः । प्राविशत्स निजं सौधं दर्शनीयं महीभुजाम् ।। १ ।।

सिंहासने मनोज्ञो तमुपावेश्य तदग्रतः । तिष्ठन्स दासवत्प्राह प्राञ्जलिर्धरणीपतिः ।। २

स्वामिन्मनोरथो मेऽद्य फलितोऽत्र तवागमात् । कृपया पावितोऽद्याहं त्वया लोकहितैषिणा ।। ३

त्वदङ्घ्रिपद्मसंस्पर्शात्पूतेयं च धरा मम । अद्यप्रभृति ते स्वामिन्नाज्ञावर्ती भवाम्यहम् ।। ४

इत्युक्त्वा सह तेनाथ सानुगेन महीपतिः । ससैन्यो वाहनारूढ उपायान्मस्तुवाटिकाम् ।। ५

तदागमात्पूर्वमेव कारितेषु च तत्र सः । पटमण्डपवर्येषु सानुगं तमवासयत् ।। ६

स स्वानुरूपतश्चक्रे तस्यातिथ्यं नराधिपः । नाथजिद्रामचन्द्राद्या भक्ताः पर्यचरंश्च तम् ।। ७

द्वितीयोऽह्नि ततः पौरा भक्ताः सर्वे तमार्चयन् । नानाविधैः सुवसनैर्गन्धपुष्पधनादिभिः ।। ८

तृतीयेऽहनि राजापि कृतभुक्तिं हरिं निजम् । आनिनाय पुनः सौधं गजारूढं यथा पुरा ।। ९

महासन उपावेश्य तं तदग्र उपाविशत् । उपावीविशदन्यांश्च तदीयान्स यथोचितम् ।। १०

ततस्तं विनयानम्रं बद्धाञ्जलिपुटं नृपम् । उवाच प्रीणयन्वाचं सर्वदुःखहरो हरिः ।। ११


श्रीनारायणमुनिरुवाच -

शृणु राजन्मनो दत्त्वा हितं तव वदाम्यहम् । धारणीयं स्वहृदये वचनं मम सर्वथा ।। १२

नृदेहो दुर्लभो नूनं देवानामपि भूपते ! । तत्प्राप्तेस्तु फलं ज्ञोयमपुनर्भवसाधनम् ।। १३

सांसारिकं सुखं यत्तत्सर्वयोनिषु वर्तते । यदर्थे यतते लोको दुर्लभं तन्न देहिनाम् ।। १४

सुखं च दुःखसम्मिश्रं निर्दुःखं तन्न दृश्यते । यस्य यावत्सुखं तस्य तावद्दुःखं हि देहिनः ।। १५

राजानं सुखिनं सर्वे जानन्ति नृपते ! जनाः । अति दुःखिनमेवात्राहं तु जानामि सर्वथा ।। १६

चौरशत्रुखदायादप्रतिक्षणविशङ्किनः । भूरिलोभाभिभूतस्य सुखं तस्य कुतो भवेत् ।। १७

निर्दुःखं तु सुखं राजन्भगवत्येव वर्तते । सच्चिदानन्दरूपोऽसौ स्वतन्त्रोऽस्ति यतः सदा ।। १८

तदुपासनया भक्ताः सुखिनस्तस्य सन्ति च । न तत्सुखस्यास्ति लेशस्त्रैलोक्याधिपतेरपि ।। १९

ज्वलत्सु भुवि लोकेषु कामलोभादिवह्निना । तप्यन्ते वैष्णवा नैव गङ्गाम्बुस्था गजा इव ।। २०

बुद्धिमानसि भूपाल ! त्वमतः स्वहिताय हि । कुरु कृष्णाश्रयं तेन भुक्तिं मुक्तिं च लप्स्यसे ।। २१

स्थित्वैव निजधर्मेषु यावद्देहस्मृतिर्नृप ! । भजनीयः सदा कृष्णः प्रीत्यैवेत्यस्ति मे मतम् ।। २२


सुव्रत उवाच -

इत्युक्तो हरिणा राजा तं प्रणम्य जगाद सः । भगवंस्त्वामहं जाने कृष्णमेव न संशयः ।। २३

त्वामहं शरणं यातस्त्वदीयोऽस्मि कृपां मयि । कुर्यास्त्वं सर्वदा स्वामिन्कञ्चित्कालं वसात्र च ।। २४


श्रीहरिरुवाच -

पुराणश्रवणे चित्तं साम्प्रतं लुब्धमस्ति मे ।स्थातुमत्र न शक्नोमि दिनमेकमपि ध्रुवम् ।। २५

भावं मयि विशुद्धं ते ज्ञात्वात्राहमुपागतः । नो चेन्न साम्प्रतं यायां सम्राङ्गेहं हि निःस्पृहः ।। २६

इत्युक्त्वा भगवद्बक्ते रीतिं तस्मा उपादिशत् । तदुक्तिं सकलां सोऽपि हृदयेऽधारयन्नृपः ।। २७

ततस्तस्याकरोत्पूजां महतीं परया मुदा । अनर्घ्यैर्नूतनैर्वस्त्रैः सरत्नैर्हेमभूषणैः ।। २८

चन्द्रनाक्षतपुष्पादैरुपहारैर्यथाविधि । पूजयित्वा तमीशानं प्रणनाम स दण्डवत् ।। २९

ततस्तदीयान् पुत्रादीन् मुनींश्चापि यथोचितम् । वासोधनसुगन्धाद्यैरानर्च बहुभावतः ।। ३०

धर्मे स्थातुं तमाज्ञाप्य सद्य उत्तस्थिवान् हरिः । गन्तुकामं तमाज्ञाय राजा सैन्यमसज्जयत् ।। ३१

ततो व्रजन्तं हरिमन्वगच्छत् पद्बयां नृपस्तं स निवर्तयित्वा ।
गजेन्द्रमध्यारुहदाप्तहर्षैः पौरैर्जनैर्भूभिप ! नम्यमानः ।। ३२

ये वैरिणस्तस्य पुरेऽभवंस्ते दृा प्रतापातिशयं तदीयम् ।
कर्तुं न शेकुः किमपि प्रभुं तं तथैव तस्थुर्ज्वलदन्तरङ्गाः ।। ३३

यथा प्रविष्टः स पुरं तथैव राजश्रिया तन्निरगाद्वहिश्च ।
निवर्तयामास ततोऽनुयातः पौरांश्च भक्तान्नृपतेश्च सैन्यम् ।। ३४

आरुह्य वाहं जविनं स्वकीयं निजानुयातैरखिलैः स भक्तैः ।
सहाययौ भूरियशोवदातो वृत्तालयं पोषितधर्मवर्त्मा ।। ३५


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे सिंहजिन्नृपकृतश्रीहरिसन्माननिरूपणनामा द्विचत्वारिंशोऽध्यायः ।। ४२ ।।