सुव्रत उवाच -
वसंस्तत्र निजावासे हरिर्दुःखहराभिधः । प्रशंसां भूपतेस्तस्य चकार स्वीयसंसदि ।। १ ।।
वटपत्तनसम्प्राप्तं वासोभूषाधनादि यत् । रघुवीराय तत्सर्वे ददाति स्म स भूपते ! ।। २
ततः स दशमस्कन्धं शुश्रूषुः सुस्थचेतसा । उत्तमादीन् दुर्गपुरं प्रेषयिष्यन्नुवाच तान् ।। ३
राजन् ! दुर्गपुरं याहि स्वकीयैः सह साम्प्रतम् । यूयं च सुहृदः ! सर्वे यातानेन सहैव च ।। ४
श्रुत्वात्र दशमस्कन्धं तत्रायास्याम्यहं ध्रुवम् । इति मे रोचते तस्माद्यूयं सर्वेऽपि गच्छत ।। ५
इत्युक्तास्ते तु हरिणा विजने स्थातुमिच्छता । अनिच्छन्तोऽपि तद्वाक्यमान्यत्वात्स्वपुरं ययुः ।। ६
परिवारेण सहितः स्वकीयेनोत्तमो नृपः । रामप्रतापमुख्याश्च हरेः सम्बन्धिनोऽखिलाः ।। ७
पाश्चात्या भाल्लदेशीया ये चान्ये तत्र सङ्गताः । सर्वे ते हरिणाज्ञाप्ताः स्वं स्वं ग्रामं पुरं ययुः ।। ८
नानादेशस्थलोकानां बोधनाय मुनीनपि ।सर्वानाज्ञापयामास ते च जग्मुस्तदाज्ञाया ।। ९
एकादश्याः स आरभ्य दशमस्कन्धमादितः । सार्धमासेन शुश्राव सादरं विजने ततः ।। १०
स्कन्धः स एव भूपाल ! भृशं तस्मा अरोचत । प्रशंसां तस्य बहुधा चकार च स आदरात् ।। ११
ततः स पञ्चमस्कन्धं वसन्ताद्यदिनावधि । शुश्राव सादरं तं च प्रशशंस च संसदि ।। १२
श्रीमद्बागवताख्यस्य पुराणस्यातिव-ल्लभौ । स्कन्धावभूतां द्वावेतौ तस्य नारायणस्य हि ।। १३
पौराणिकं ततः सम्यग्वस्त्रभूषाधनादिभिः । तोषयित्वाथ मध्याह्ने वसन्तोत्सवमाचरत् ।। १४
लक्ष्मीनारायणस्यासौ महापूजामकारयत् । गीतवादित्रनिनदैरुपेतां वर्णिसत्तमैः ।। १५
ब्राह्मणान् भोजयामास सहस्रं तद्दिने हरिः । तेभ्यश्च दक्षिणां प्रादात्सुस्पर्शान्कम्बलानपि ।। १६
भक्तास्तदानीं बहुशः समीपग्रामवासिनः । तद्दर्शनार्थमाजन्मुः प्रतिजग्मुश्च ते पुनः ।। १७
अपराह्णे ततः स्वामी विजनस्यो हितं नृणाम् । चिन्तयन् पत्रिकां तेभ्यो लिखितुं निश्चिकाय सः १८
सकलेष्वपि देशेषु धर्मशिक्षार्थपत्रिकाम् । लिखामि तेन मद्बक्ता वर्तिष्यन्ते तथैव हि ।। १९
ममाशयो यादृशोऽस्ति तादृशं चापि तेऽखिलाः । तयैवावगमिष्यन्ति भविष्यन्त्यप्यसंशयाः ।। २०
अन्तर्हिते मयि भुवो मदीयानां च सर्वशः । स्फुटमद्वाक्यरूपा सा भवित्र्यालम्बनं भुवि ।। २१
एवं विचार्य धर्मात्मा काकुदं खटिकां च सः । आनयामास भृत्येन लेखिनीं च सुशोभनाम् ।। २२
सच्छास्त्राणां स सर्वेषां सारमाकृष्य सद्धिया । लिलेख पत्रिकां स्वामी सद्धर्मं स्थापयन्भुवि ।। २३
उरौ दक्षे पदृकं काकुदस्य कृत्वा धृत्वा वामदोष्णा नतास्यः ।
दक्षे पाणौ लेखिनीं कुञ्चिताग्रे बिभ्रत् पत्रीं सोऽलिखद्बूमिपेत्थम् ।। २४
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे भगवतो वृत्तालयावासनिरूपणनामा त्रिचत्वारिंशोऽध्यायः ।। ४३