एकचत्वारिंशोऽध्यायः

सुव्रत उवाच -


अथ तत्र सुखासीनमुत्सवान्ते हरिं नृप ! । नारुपन्त उपेयाय ससादी वटपत्तनात् ।। १ ।।

प्रणमन्तं नृपामात्यं स्वभक्तं च तमागतम् । मानयामास भगवान् यथार्हं स्वागतादिभिः ।। २

तदन्तिके निषण्णोऽसौ बद्धाञ्जलिरुवाच तम् । स्वामिन् ! सिंहजितो राज्ञाः स्वीकार्या प्रणतिर्भृशम् ३

तेनाहं प्रेषितोऽस्म्यत्र नेतुं त्वां वटपत्तनम् । त्वद्दर्शनेच्छा महती वर्तते हृदि तस्य वै ।। ४

यस्मिन् दिने कृतं तेन मुक्तानन्दस्य दर्शनम् । तत आरभ्य नित्यं त्वां हृदि चिन्तयति प्रभो ! ।। ५

अतो मनोरथस्तस्य पूर्णः कार्यस्त्वयाधुना । मुक्तानन्दस्तदा प्राह कार्यमेतत्तु सर्वथा ।। ६

ततो हरिर्नारुपन्तमुवाचानण्दयन्वचः । वेद्म्यहं नृपतेस्तस्य भावं निष्कपटं मयि ।। ७

एतत्प्रागेव कथितं मुक्तानन्देन मेऽनघ ! । अतस्तत्राहमेष्यामि मान्यत्वाद्वचसोऽपि ते ।। ८

एवमुक्तः स हरिणा प्रसन्नः प्रणनाम तम् । ततस्तस्मै ददौ राज्ञा प्रेषितामुपदां नृप ! ।। ९

वासांसि बहुमूल्यानि फलानि विविधानि च । समर्प्य हरिणाज्ञाप्तः स निजावासमाययौ ।। १०

महावस्त्रे प्रावरणे मुक्तानन्दाय तर्हि सः । दत्त्वा फलानि चर्षिभ्यः स्वावासं हरिराययौ ।। ११

आहूय नारुपन्तं च प्रातः प्राह हरिस्ततः । अद्य भुक्त्वाग्रतो गच्छ वद भूपं मदागमम् ।। १२

एष्यामि तत्र पञ्चभ्यां सानुगोऽहं न संशयः । इत्युक्तः स तमानम्य भुक्त्वागाद्वटपत्तनम् ।। १३

उपेत्य तत्र राजानं सर्वे तद्धृत्तमूचिवान् । हृष्टः सोऽथ तदावासं मस्तुवाटयामकारयत् ।। १४

हरिश्चतुर्थ्यां कृतभुक्तिरश्वमारुह्य साकं नृप ! सादिवर्यैः ।
अनुद्रुतः पत्तिगणैः स्वकीयैर्ययौ सहर्षिर्वटपत्तनं च ।। १५

समर्च्यमानः पथि भक्तवृन्दैरन्यैश्च साश्चर्यमवेक्ष्यमाणः ।
महीं समुत्तीर्य स साकरादे ग्रामे निवासं विदधे सह स्वैः ।। १६

भक्तैर्गणेशादिभिरादरेण कृतोचितातिथ्य उवास रात्रिम् ।
कृताह्निकः प्रातरथाश्ववर्यमारुह्य सस्वो निरगात्ततः सः ।। १७

उद्धोष आसीद्वटपत्तनेऽथो तदागमस्य प्रतिगेहमेव ।
तद्द्वेषिणस्तत्र तु ये जनास्ते प्रापुर्न निद्रां निशि लब्धतापाः ।। १८

केचित्तु वादं सह तेन कर्तुं वादार्थपट्टान् गुणितानकार्षुः ।
केचिच्चयोद्धुं सह तेन सज्जा आसन् कृतास्त्राः सममात्मवर्ग्यैः ।। १९

ये सद्धियस्तत्र च ते तु तस्य समीक्षणोत्काः श्रुतसद्गुणस्य ।
आसन् परे कौतुकवीक्षणार्थाः केचिच्च मायामयतो विलीनाः ।। २०

राजाथ तद्दर्शनभूरितृष्णः प्रातः स्वकीयां चतुरङ्गसेनाम् ।
सर्वां समर्प्यैव स नारुपन्तं तत्सन्मुखं प्रैषयदायनार्थम् ।। २१

स योजने तन्नगरात्तमीशमायान्तमारादवलोक्य सद्यः ।
उत्तीर्य वाहात्प्रणनाम सोऽपि सम्प्राप्य तं मानवमदाद्यथार्हम् ।। २२

ततो गजेन्द्रं सुकुथं तदर्थमम्बालिकाढयं प्रहितं नृपेण ।
आरोहयामास हरिं ततोऽन्यान्मुनींश्च नानाविधवाहनानि ।। २३

कांश्चिद्रजान्कांश्चन वाजिवर्यानारोहयामास रथांश्च कांश्चित् ।
कांश्चिच्च मैनाञ्छिविकाश्च कांश्चिन्महारथान् पुष्परथांश्च कांश्चित् ।। २४

हरेः स पृष्ठेऽथ निपद्य राजंस्तं बीजयामास सुचामरेण ।
सर्वाणि वाद्यानि तदा निनेदुर्जयध्वनिश्चातिमहान्बभूव ।। २५

ततः समेता नगरं ययुस्ते तावद्धरिं पौरजना अभीयुः ।
वर्त्मापुरात्तज्जनसङ्घसान्द्रं गजाधिरूढो हरिरालुलोके ।। २६

द्योतद्दिव्याङ्गकान्तिः स्मितमधुरमुखः सूक्ष्मशुक्लांशुकश्रीः,
कूर्दद्वाहानुयातप्रचलगजघटान्तश्चरन्नागराजः ।
नानावाद्यौघभूरिध्वनिमिलितजयध्वानसन्नादिताशं,
राजेन्द्रश्रीरनेकेक्षकजननिबिडं तत्पुरं प्राविशत्सः ।। २७

साश्चर्यं वीक्ष्यमाणं प्रतिविशिखमयो यूथशः पौरलोकैः,
श्रुत्वाऽयान्तं हरिं तं नृपतिरपि तदाऽभ्याययौ भूरिहर्षः ।
दृा नत्वा च तेनादृत उरु सदनं तेन साकं स्वमागा-
न्नागादुत्तार्य हर्षाद्बहुतरविनयः सस्वजे तं च राजन् ! ।। २८ ।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वटपत्तनागमननिरूपणनामैकचत्वारिंशोऽध्यायः ।। ४१ ।।