सुव्रत उवाच -
लक्ष्मीनारायणस्याथ मन्दिरप्राङ्गणे सभा । अपरो महत्यासीत्सुधर्मेव सुरालये ।। १
तत्र भक्तजनाः सर्वे योषितश्च यथोचितम् । आगत्योपाविशन् राजन्भगवांश्च महासने ।। २
रामप्रतापः ससुत इच्छारामश्च सात्मजः । तत्रागत्याग्रतस्तस्य निषेदतुरुभावपि ।। ३
मुकुन्दानन्दनामाद्यो जयानन्दश्च वर्णिराट् । वासुदेवानन्दमुख्याः सर्वेऽन्ये ब्रह्मचारिणः ।। ४
मुक्तानन्दस्तथा ब्रह्मानन्दः साधुषु सत्तमः । गोपालनन्दनामा च नित्यानन्दादयोऽखिलाः ।। ५
निषेदुः साधवस्तत्र ब्राह्मणाश्च नराधिप ! । शिवरामो मयारामो दीनानाथादयो विदः ।। ६
वास्तुसूरोत्तमा पुञ्जजिच्च काकुभयो नृपाः । सोमो हेमन्तसिंहाद्या निषेदुस्तत्र संसदि ।। ७
भृगुजिद्रत्नजिद्वीरोऽलयाद्याः क्षत्रसत्तमाः । गोविन्दो रणछोडश्च नाथजित्प्रमुखा विशः ।। ८
जया रमा च ललिता पुञ्जिका चामरी तथा । गङ्गा रेवा द्वितीया सा मोघामुख्याश्च योषितः ।। ९
उपविष्टेषु सर्वेषु तत्र स्वभ्रातरौ हरिः । उवाच स्वां धर्मधुरां धातुकामो वृषान्वये ।। १०
शृणुतं भ्रातरौ ! वाचं मम लोकहितावहाम् । अर्थं सुनिश्चितं चित्ते सत्यमेव वदाम्यहम् ।। ११
योऽयं जनगुरुत्वेऽत्राधिकारो वर्तते मम । न्यस्तोऽस्ति स बलादेव श्री स्वामिचरणैर्मयि ।। १२
गुर्वाज्ञा पालनीयेति बुद्धयोढा धर्मधूर्मया । एतावत्कालपर्यन्तं भक्तिधर्मौ पुपुक्षता ।। १३
साम्प्रतं पञ्चमस्कन्धभूयोभूयःश्रुतेरहम् । निवृत्तौ स्थातुमुत्कोऽस्मि यथा प्राग्भरतो जडः ।। १४
त्यक्तप्रवृत्तिकार्योऽहं दशमस्कन्धमन्वहम् । पठन् शृण्वण्करिष्यामि भक्तिं कृष्णस्य नेतरत् ।। १५
तस्माद्धर्मान्ववाये तां निदध्यामधुनेति मे । इच्छास्त्यतोऽहं वां याचे पुत्रौ द्वावीप्सितौ मम ।। १६
सुव्रत उवाच -
इत्याकर्ण्य हरेर्वाचं जगादादौ तदग्रजः । त्रयः सन्ति हि पुत्रा मे तत्रेष्टो यः स गृह्यताम् ।। १७
ततः कनीयास्तं प्राह तनयाः सन्ति पञ्च मे । तत्र यस्य जिघृक्षा ते भवेत्सोऽद्यैव गृह्यताम् ।। १८
तयोरिति वचः श्रुत्वा प्रसन्नो हरिराह तौ । देह्ययोध्याप्रसादाख्यं सुतमेतं त्वमग्रज ! ।। १९
त्वमिच्छाराम ! मे देहि रघुवीराभिधं सुतम् । इत्युक्ते तेन तौ दातुं सद्य एवोत्थितौ सुतौ ।। २०
ततो हरिर्वैदिकविप्रवर्यैः शास्त्रोदितं दत्तविधिं विधाय ।
वादित्रगीतध्वनिमङ्गलाढयं जग्राह तौ सर्वजनानुरागौ ।। २१
आस्थाप्य तावात्मन एव पीठे वस्त्रैरनर्घ्यैः सुविभूषणैश्च ।
सम्मान्य सर्वैर्निजभक्तपुम्भिस्तयोर्मुदाचीकरदर्चनं सः ।। २२
अथ तावाह भगवान् पुत्रौ ! मे शृणुतं वचः । अस्माकमिष्टदेवोऽस्ति श्रीकृष्णो भगवान् स्वयम् २३
तन्मन्दिराण्येनकानि कारितानि मया भुवि । तद्वृत्तयश्च सर्वत्र कारिताः सन्ति पुत्रकौ ! ।। २४
तत्राप्याद्ये मन्दिरे द्वे एकं श्रीनगरेऽस्ति यत् । नरनारायणस्यात्र लक्ष्मीनारायणस्य च ।। २५
तयोर्मध्यविभागेन खण्डोऽयं भारताह्वयः । कल्पितोऽस्ति मया द्वेधा तत्तन्नाम्ना स उच्यते ।। २६
धर्मदत्तं जनैर्यद्यद्धनधान्यांशुकादिकम् । खण्डेऽत्र दक्षिणे तत्तल्लक्ष्मीनारायणस्य हि ।। २७
एवमुत्तरखण्डेऽपि धर्मदत्तं जनैस्तु यत् । नरनारायणस्यैव तदित्थं कल्पितं मया ।। २८
एकैकखण्डे गुरुता स्वाश्रितानां नृणां मया । पृथक्पृथग्युवाभ्यां तु दीयते धर्मगुप्तये ।। २९
इत्युक्त्वासौ पत्रिके द्वे शुकानन्दाख्यसाधुना । अलेखयत्सभामध्ये कृतस्वोक्तार्थविस्तरे ।। ३०
ते गृहीत्वा स्वकरयोस्तावुवाच महामनाः । एकैकामेतयोः पत्रीं गृीतमिति भूपते ! ।। ३१
तदैकैकां जगृहतुः पत्रिकां तौ पृथक् पृथक् । गृहीत्वा तत्र कृष्णस्य नामैक्षेतामनाकुलौ ।। ३२
प्राप्तासीद्रघुवीरेण लक्ष्मीनारायणस्य तु । पत्र्ययोध्याप्रसादेन नरनारायणस्य च ।। ३३
तदृा हरिरुचे स्वानाश्रितान् सकलान् जनान् । युष्माकमेतौ हि गुरू कृतावद्यदिनान्मया ।। ३४
नरनारायणस्य स्युः खण्डे ये मदुपाश्रिताः । ते त्वयोध्याप्रसादस्य शिष्या इत्यवधार्यताम् ।। ३५
लक्ष्मीनारायणस्याथ खण्डे स्युर्ये मदाश्रिताः । रघुवीरस्य ते शिष्याः सर्व इत्यवधार्यताम् ।। ३६
स्त्रीणां खण्डद्वयस्थानामेतयोर्योषितौ गुरू । एवमेव हि युक्तत्वान्मर्यादा स्थापिता मया ।। ३७
उभावेतौ धर्मवंश्यौ युष्माभिर्धर्मदेववत् । मान्यौ सेव्यौ स्वशक्तयान्नवस्त्रभूषाधनादिभिः ।। ३८
एतयोश्चैतद्वंश्यानां करिष्यन्ति य आश्रयम् । तान् कृष्णो भगवान् धाम देहान्ते नेष्यति स्वकम् ३९
इत्युक्त्वा तान् पुनः पुत्रावुवाच स हरिर्नृप ! युवाभ्यां स्वस्वखण्डस्थाः शिष्याः कार्या न चेतरे ४०
तद्दत्तं चान्नवस्त्रादि ग्राह्यं नान्यस्य तु क्वचित् । साधवो वर्णिनः पद्गा ये स्युस्ते तूभयोः समाः । ४१
अपक्षपाताः कर्तारस्ते सेवां युवयोर्द्वयोः । ये पक्षपातिनः स्युस्ते भ्रष्टा यास्यन्त्यधोगतिम् ।। ४२
युवयोः शिष्यवित्तार्थविवादस्य तु निर्णये । द्वौ द्वौ गृहस्थौ धर्मस्थौ कार्यौ नैते तु कर्हिचित् ।। ४३
स्त्रीभ्यां वां स्वाश्रितस्पत्र्यर्थविवादस्य च निर्णये । कार्ये सभर्तृके द्वे द्वे योषे रण्डास्तु न क्वचित् ४४
गृहीतरा यत्र नरा गृहिकार्यस्य निर्णये । रण्डाश्च स्युर्न तत्सिद्धयेत्कार्यध्वंसो भवेत् खलु ।। ४५
युवाभ्यां मन्मतान् ग्रन्थानष्टावाश्रित्य नित्यदा । वृत्यं शिष्या वर्तनीयाः सम्प्रदायानुसारतः ।। ४६
यच्चैतद्वां मया दत्तं तदस्ति स्वभुजार्जितम् । स्वत्वं कस्याप्यतो नात्र पितुर्भ्रात्रोश्च वै तयोः ।। ४७
तपस्विनमिवर्षिं मां जानीतं बदरीपतिम् । स्वेच्छागतं स्वधाम्नोऽत्र गन्तारं तत्र वै पुनः ।। ४८
यस्मै दित्सा ममैवासीत्तस्मै स्वातन्त्र्यतो मया । दत्तमेतत्स्वकं सर्वे नातो भागोऽत्र कस्यचित् ।। ४९
युवयोः पुत्रबाहुल्ये जातेऽपि गुरुवासने । एकः स्थाप्यो गुणी पुत्रो न ज्येष्ठनियमोऽत्र तु ।। ५०
जनानुरागी यस्मिन् स्याच्छिष्यधर्मावनक्षमः । स्वसम्प्रदायधर्मस्थो यश्च स्यात्स गुरुर्भवेत् ।। ५१
तादृक् पुत्रो न चेत्स्वस्य तदान्यं धर्मवंशजम् । गृहीत्वा दत्तविधिना स्थाप्यो मद्वन्न सोऽङ्गजः । ५२
इत्याज्ञा पालनीया मे सर्वैरपि यथायथम् । वर्तिष्यतेऽन्यथा यस्तु स मच्छिष्यबहिष्कृतः ।। ५३
सुव्रत उवाच -
इति तस्य वचो निशम्य सर्वे प्रणतास्तज्जगृहुर्मुदा शिरोभिः ।
गुरुभावमितौ च तौ प्रणम्य प्रभुमित्थं तमुदारमूचतुर्द्वौ ।। ५४
त्वं साक्षादीश्वरोऽसि प्रकटितमहिमा स्वेच्छया मानवाभः,
सेव्यो नणां व नारायणऋषिरिति नौ निश्चयोऽस्त्येव चित्ते ।
आज्ञायां तिष्ठतोर्नौ तव भुवि भगवन्धर्महानिः कदाचि-
द्देहेऽहन्ता तदीयेषु च पुरुममता माऽस्तु साऽस्तु त्वदङ्ध्रौ ।। ५५
इति तयोर्वचनं स निशम्य ताववनतावभिनन्द्य सदाशिषा ।
अकृत जागरणं गुणकीर्तनैर्भगवतः सह भक्तजनैर्निजैः ।। ५६
द्वादश्यां बहुविधभक्ष्यभोज्यलेह्यैः सन्तर्प्य द्विजगणसाधुमण्डलानि ।
अन्नाथानितरजनांश्च मानपूर्वे भ्रात्राद्यैः सह विदधेऽथ पारणां सः ।। ५७
सम्भारान् दिनयुगलेन साधयित्वा राकायामकृत महोत्सवं स भक्तेः ।
यं श्रुत्वा नृपतिवरा अपि क्षमायां साश्चर्यं स्वसदसि सादरं शशंसुः ।। ५८ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे आचार्यस्थापन-तच्छिक्षाश्रीभक्तिदेवीजन्मोत्सवनिरूपणनामा चत्वारिंशोऽध्यायः ।।४०।।