राजोवाच -
हरेः कथामृतं पीत्वा तृप्तिर्नास्ति मुने ! मम । पाययातस्तदेव त्वं करुणानिभृतो ह्यसि ।। १ ।।
एत्य दुर्गपुरं स्वामी वृत्तालयपुरात्स्वयम् । किं किं चकार तन्मे त्वं वद शुश्रूषवेऽखिलम् ।। २
सुव्रत उवाच -
शृणु त्वं राजशार्दूल ! रसज्ञोऽसि विशुद्धधीः । कथयाम्ययदपि ते चरितं धर्मजन्मनः ।। ३
भक्तग्रामेषु निवसन् हरिवृत्तालयत् पथि । राधशुक्लप्रतिपदि प्रापद्दुर्गपुरं प्रगे ।। ४
स्रात्वा कृत्वाह्निकं चक्रे कूर्मजन्मोत्सवं ततः । साधून्विप्रान्वर्णिनश्च भोजयामास सादरम् ।। ५
तस्मिन्नेव दिने जीर्णदुर्गात्तत्राययौ नृपः । हेमन्तसिंहो धौरेयात् पुञ्जजिच्च नृपः पुरात् ।। ६
एककालमुपायातौ गोपुरं तौ परस्परम् । मिलित्वानामयं पृा हरेरन्तिकमीयतुः ।। ७
सुखासीनं हरिं तौ च प्रणम्य तदनुज्ञाया । निषेदतुस्तत्पुरतो मानयामास तौ स च ।। ८
वेश्मन्युत्तमभूपस्य स्वावासं चक्रतुस्ततः । सादरं मानितौ तेन हरीक्षाप्तमहामुदौ ।। ९
ततश्चन्दनयात्राया उत्सवान्ते च तौ हरिम् । पीठे निषण्णं स्वावासे नत्वाग्रेऽस्य निषेदतुः ।। १०
विज्ञापनावकाशं तं दृा प्राञ्जलिराह तम् ।। हेमन्तसिंहो नृपतिर्भगवन् ! शृणु मे वचः ।। ११
मन्दिरं जीर्णदुर्गे त्वं राधाकृष्ण।स्य कारय । ममान्येषां च भक्तानां पौराणां प्रियमस्त्यदः ।। १२
अस्मद्देशस्याधिपतिर्वर्तते यवनेश्वरः । नाम्ना बह्वादरः सोऽपि ह्येतदेवानुमोदते ।। १३
एतं मनोरथं स्वामिन्नस्माकं प्रतिपूरय । पूर्यन्त ईदृशा ह्यद्य त्वया भक्तमनोरथाः ।। १४
इत्युक्त्वा विररामासौ पुञ्जजिन्नृपतिस्ततः । प्राञ्जलिर्भगवन्तं तं तद्वदेवावदन्नृप ! ।। १५
मनोरथो ममाप्येष मदीयानां च सर्वशः । अस्ति धौरेयपुर्यो यद्विधाप्यं मन्दिरं त्वया ।। १६
एवं ह्युभाभ्यां भक्ताभ्यामर्थ्यमानो हरिर्हसन् । उवाच मानयंस्तौ च भक्तेच्छापरिपूरकः ।। १७
युवाभ्यां शुद्धबुद्धिभ्यामिदं सम्यग्विचारितम् । चिकीर्षितं ममाप्येतद्वर्तते खलु सुव्रतौ ! ।। १८
मन्दिरे कारयिष्यामि पुर्योर्वामुभयोरपि । तत्र च स्थापयिष्यामि श्रीकृष्णमहमेत्य वै ।। १९
एवमुक्त्वा स तौ भक्तौ ब्रह्मानन्दमुवाच च । सह हेमन्तसिंहेन जीर्णदुर्गं व्रजानघ ! ।। २०
मन्दिरं शोभनं तत्र कारयेराश्मनं दृढम् । कृष्णप्रतिष्ठासमये तत्रायास्याम्यहं मुने ! ।। २१
इत्युक्त ओमिति प्राह स मुनिः प्राञ्जलिर्हरिम् । ततोऽसावद्बुता नन्दमुनिमाहाग्रतः स्थितम् ।। २२
मुने ! पुञ्जजिता साकं धौरेयं त्वं पुरं व्रज । मन्दिरं तत्र कृष्णस्य कारयेरतिशोभनम् ।। २३
एवमुक्तो मुनिः सोऽपि तथेत्याह ततश्च ते । सर्वेऽपि तत्र न्यवसन्नरसिंहोत्सववावधि ।। २४
तदुत्सवसमाप्तौ तौ हर्याज्ञाप्तौ स्वकं स्वकम् । नगरं जग्मतुर्भूपौ समुनी हर्षनिर्भृतौ ।। २५
ब्रह्मानन्दोऽतिचतुरैः शिल्पिभिर्मन्दिरं महत् । कारयामास पौराश्च तदुक्तार्थानुपाहरन् ।। २६
तथा स चाद्बुतानन्दो धौरेये मन्दिरं शुभम् । शिल्पिभिः कारयामास पौराश्चक्रुस्तदीरितम् ।। २७
हरिस्तग्दमनादूर्ध्वं ब्रह्मवैवर्तसंज्ञाकम् । पुराणं श्रोतुमारेभे पञ्चम्यां सह सोदरः ।। २८
समाप्तिं कारयामास तस्यासौ भाद्रनामनि । मासे शुक्लचतुर्थ्यां स विनायकजनुस्तिथौ ।। २९
तस्यां तिथौ मृन्मयरम्यमूर्तिं गणेशमानर्च महोत्सवेन ।
प्राज्याज्यमिश्रान् गुडलड्डुकांश्च तत्प्रीतयेऽभोजयदग्रजातान् ।। ३०
स्कन्धं ततः पञ्चममेव नित्यं प्रीत्यैव शुश्राव समापयत्तत् ।
कामस्य तिथ्यां धनपूर्विकायां सन्तोषयामास च वाचकं सः ।। ३१
ततोऽपरेद्युर्महतोत्सवेन हरिर्हनूमन्तमपूजयच्च ।
शास्त्रोक्तरीत्याथ स तस्य तुष्टयै समर्चयामास च नैष्ठिकान्स्वान् ।। ३२
कृत्वा च दीपोत्सवमन्नकूटं जन्मोत्सवं कर्तुमथ स्वपित्रोः ।
वृत्तालयं दुर्गपुरादुपागात् स कार्तिकस्याद्यचतुर्थिकायाम् ।। ३३
रामप्रतापप्रमुखास्तदानीं तद्बन्धुवर्गा अपि सस्त्रियस्तम् ।
पौराः सयोषा द्रुतमन्वयुः स्वैः सहोत्तमश्चापि वसुन्धरेशः ।। ३४
समर्च्यमानः पथि भक्तवृन्दैर्वाहाधिरूढः स च वाजिवारैः ।
सहस्रशोऽनुद्रुत आप गोपाष्टम्यां पुरं तच्च मघामुहूर्ते ।। ३५
पौरैरथो यात्रिकभक्तसङ्घैरभ्यागतो मङ्गलवाद्यघोषैः ।
प्रविश्य तत्प्रेमभरणे लक्ष्मीनारायणस्याशु चकार वीक्षाम् ।। ३६
स्वावास उत्तीर्य पृथग्गृहेषु निवेशयित्वा च यथोचितं स्वान् ।
सम्भारमाहारयदुत्सवार्थं पुरान्तरेभ्योऽपि नियोज्य दूतान् ।। ३७
अह्नि द्वितीयेऽथ कृतादितिथ्यां गवादिदानानि ददौ द्विजेभ्यः ।
विप्रान् परेऽह्नथाब्दिक आत्ममातुः सहस्रशोऽभोजयदिष्टभोज्यम् ।। ३८
एकादशीदिन उदारमनाः स धर्मजन्मोत्सवं नृपतिराडिव वाद्यघोषैः ।
साकं महार्चनविधानत एव चक्रे विप्रान् पुपूज च सदंशुकदक्षिणाभिः ।। ३९ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पुनर्वृत्तालयागमनश्रीधर्मदेवजन्मोत्सवनिरूपणनामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।।