चतर्त्रिंशोऽध्यायः

राजोवाच -


मुक्तानन्दो भगवता प्रेषितो वटपत्तनम् । स मुने ! वादिनो जित्वा वृत्तालयमुपागतः ।। १ ।।

इति श्रुतं मया त्वत्तः कथं तेन जितास्तु ते । गुरो ! एतन्निगदितुं सर्वज्ञो हि त्वमर्हसि ।। २


सुव्रत उवाच -

आसीद्वटपुरे राजन् ! रामचन्द्राभिधो द्विजः । तद्भ्राता च हरिश्चन्द्र उभावेतौ महामती ।। ३

बहुश्रुतौ विशेषेण वैद्यशास्त्रविशारदौ । राजमान्यौ धर्मनिष्ठावास्तिकौ च विवेकिनौ ।। ४

शोभारामाभिधश्चान्यो द्विजस्तत्राभवच्छुचिः । वेदशास्त्रार्थनिपुण आस्तिको राजमानितः ।। ५

नारुपन्ताभिधश्चान्यो राजामात्यो बहुश्रुतः । तथा चिन्मयरावाख्यः क्षत्रवीरश्च तादृशः ।। ६

मुमुक्षवो हि पञ्चैते स्रिग्धाश्चाऽसन् परस्परम् । बहुशास्त्रश्रुतेर्नापुः स्वोपास्यैकेशनिश्चयम् ।। ७

तत्रस्थं दाक्षिणात्यं ते बहुशास्त्रविदं द्विजम् । नाम्ना हरिहराचार्यमपृच्छन्नेकदा नृप ! ।। ८

आचार्यवर्य ! पृच्छामो वयं त्वां बहुवित्तमम् । तच्छ्रुत्वैव यथावत्त्वमुत्तरं दातुमर्हसि ।। ९

गोलोकेऽथ च वैकुण्ठे भगवान् ब्रह्मपत्तने । अस्तीति श्रूयते लोके तथैव क्षीरसागरे ।। १०

चतुर्भुजश्चाष्टभुजो द्विभुजश्चापि सोऽच्युतः । श्रूयतेऽतस्त्वामाख्याहि को वा ध्येयो मुमुक्षुभिः ११

रामं कृष्णं नृसिंहं च भक्ताः केचिदुपासते । अतस्त्वं भगवद्बक्तो ब्रूहि नः स्वविनिश्चितम् ।। १२


सुव्रत उवाच -

इति पृष्टः स तैर्विप्रो भूरिदम्भविचक्षणः । राजकीयैः सेव्यमानस्तर्कबुद्धिरुवाच तान् ।। १३

द्विजाः ! शृणुत मद्वाक्यं यूयं हि स्थ मुमुक्षवः । अतो हितं हि युष्माकं कथयामि सुनिश्चितम् ।। १४

य ईश्वरोऽस्ति भगवान् गोलोकादिषु धामसु । शास्त्रेषूक्तः स तु कलौ साक्षात् प्राप्यो न कस्यचित् १५

तस्मात्तस्यैव सततं नामसङ्कीर्तनं द्विजाः ! । यूयं कुरुत तेनैव भुक्तिं मुक्तिं च यास्यथ ।। १६

कृते यद्धयायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ।। १७

इति भागवतोक्तेश्च भक्तिर्नान्या कलौ ततः । तपो योगश्च नियमाः कलौ साध्या न वै नृभिः ।। १८

त्रियुगत्वात्तथा विष्णोर्नावतारोऽत्र तस्य च । अतोऽपरोक्षानुभवः कथामात्रं न वस्तुतः ।। १९


सुव्रत उवाच -

एवमुक्ता द्विजास्तेन ते तद्वाक्यप्रतीतयः । कलौ केवलनाम्नैव निश्चिक्युः श्रेय आत्मनः ।। २०

ततो विवादं चक्रुस्ते तत्र तत्र च शास्त्रिभिः । स्वमतं स्थापयन्ति स्म सभासु बहुयुक्तिभिः ।। २१

विदुषो युक्तिनिपुणान् राजमान्यांश्च तान्नृप ! । जेतुं शशाक न कापि सभायां कोऽपि पूरुषः ।। २२

भक्तानां तु हरेः प्राय उपहासं त आचरन् । प्रत्यक्षभगवत्प्राप्या श्रेयः स्यादिति वादिनाम् ।। २३

अथ ते नाथजिद्बक्तगृहे शुश्रुवुरागतम् । मुक्तानन्दं हरेर्भक्तमुख्यं प्राक्श्रुतसद्गणम् ।। २४

ततः संहत्य पञ्चापि तद्दर्शनमिषेण ते । आजग्मुस्तस्य निकटं स्थितस्य जनसंसदि ।। २५

मानितास्तेन मुनिना तं प्रणम्य च तत्पुरः । निषेदुः प्रहसद्वक्त्रा विनीता इव साधवः ।। २६

पौराणिकाः शास्त्रिणश्च बहवो वैष्णवास्तथा । तत्राजग्मुः शाम्भवाश्च प्रेक्षकाश्चेतरे जनाः ।। २७

ततः सभायां जनसङ्कुलायां तान्प्रष्टुमुत्कान् स्फुरदोष्ठयुग्मान् ।
स्मरन्स्वचित्ते हरिमेव मुक्तानन्दो जगाद क्षितिपाल ! पूर्वम् ।। २८ ।।

इति सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे त्रियुगशब्दार्थनिर्णये वादिप्रतिवादिसमागमनिरूपणनामा चतुस्त्रिंशोऽध्यायः ।। ३४ ।।