पंचत्रिंशोऽध्यायः

मुक्तानन्द उवाच-


प्रष्टव्यं यदि किञ्चित्स्याद्युष्माकं हृदये द्विजाः ! । तर्हि पृच्छत मामद्य यूयं शास्त्रानुसारतः ।। १


सुव्रत उवाच -

इत्युक्ता मुनिना ते तु जिज्ञासुजनवन्नृप ! । गूढाशयास्तं पप्रच्छुः सर्वेषां शृण्वतां नृणाम् ।। २


वादिन ऊचुः -

श्रेय आत्यन्तिकं नृणामिह केन भवेन्मुने ! । तत्साधनं यथाशास्त्रं निश्चितं ब्रूहि नोऽधुना ।। ३

इति पृष्टः स तैः प्रश्नं सर्वसंशयनाशनः । तदाशयबुभुत्सुस्तान्प्रोवाच मुनिसत्तमः ।। ४


मुक्तानन्द उवाच -

एतावत्कालपर्यन्तं भवद्बिः किंनु निश्चितम् । स्वश्रेयः साधनं तन्मे यूयं वदत सुव्रताः ! ।। ५


वादिन ऊचुः -

नामसङ्कीर्तनं विष्णोः कलिकल्मषनाशनम् । निःश्रेयसकरं नूनमित्यस्माभिर्विनिश्चितम् ।। ६


मुक्तानन्द उवाच -

हृदये भगवन्मूर्तिं यथादृष्टां विभावयन् । यः कीर्तयति नामानि स नामफलमाप्नुयात् ।। ७

मनो यस्य तु विभ्रान्तं धावत्येव समन्ततः । सांसारिकपदार्थेषु तस्य किं ? हरिनामभिः ।। ८

नारायणस्य ध्येयस्य विना प्रत्यक्षदर्शनम् ।नामकीर्तनवेलायां कुतः स्यात्तस्य दर्शनम् ।। ९

दृष्टान् ग्राम्यान् पदार्थांश्च हृदये ध्यायतोऽनिशम् । नामकीर्तनमात्रेण मोक्षो भवति दुर्लभः ।। १०

नाममात्रेण मोक्षश्चेत्त्रिकाण्डविषयास्तदा । व्यर्था भवेयुर्निगमाः साधनानि च सर्वशः ।। ११

तथासति तु युष्माकं वेदबाह्यं मतं भवेत् । मोक्षेऽपरोक्षानुभवो हेतुर्नो नैगमो मतः ।। १२

कीर्तनेन हरेर्नाम्नां स्यात्पुण्यं चाघसयः । सद्यः संसृतिमोक्षस्तु स्यात्तत्प्रत्यक्षदर्शनात् ।। १३

तस्माद्बवद्बिर्दृष्टोऽस्ति साक्षान्नारायणो न वा । दृष्टश्चेत्सिद्धिमाप्ताः स्थ न चेत्तत्कुरुतोद्यमम् ।। १४


वादिन ऊचुः -

धर्मभक्तयबोधाख्यं वैदिकं साधनं तु यत् । क्षणभङ्गुरदेहैस्तदृष्करं हि कलौ नृभिः ।। १५

नाममात्रेण कल्याणमस्माभिस्तन्मतं हरेः । घोरे कलियुगे तस्य कुतः प्रत्यक्षदर्शनम् ।। १६

अजामिलो महापापी नामोञ्चारणमात्रतः । नारायणस्य सम्प्राप मुक्तिं त्वमपि वेत्सि तत् ।। १७


मुक्तानन्द उवाच -

नाममात्रेण या मुक्तिः सा तु ज्ञोयाऽघसञ्चयात् । यमपाशाच्च वेत्युक्तं श्रीमद्बागवते द्विजाः ।। १८

नामोञ्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः ! । अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ।। १९

तस्मात्सङ्कीर्तनं विष्णार्जगन्मङ्गलमंहसाम् । महतामपि कौरव्य विद्धयेकान्तिकनिष्कृतम् ।। २०

अजामिलो नाममात्रान्मुक्तिं प्रापेति चेन्मतम् । गङ्गाद्वारे कुतस्तर्हि स योगाभ्यासमाचरत् ।। २१

अतः स तु हरेर्नाम्ना मुक्तोऽयेभ्यस्तथा यमात् । मुक्तिं तु विष्णुभृत्यानां दृष्टया प्रापेति वच्म्यहम् २२

कलौ युगे न प्रत्यक्षो हरिः स्यादिति यद्वचः । सत्पुंसा तन्न केनापि कथ्यते वेदवेदिना ।। २३

नारायणावतारोऽत्र हरिरस्ति गुरुर्हि नः । सहस्रशो जनैस्तस्य मया चैश्वर्यमीक्षितम् ।। २४

सहजानन्दनाम्ना स प्रसिद्धो वर्ततेऽधुना । असदेव मतं तस्माद्बवद्बिर्यदुदीरितम् ।। २५

प्रमाणेभ्यो हि सर्वेभ्यः प्रत्यक्षं बलवत्तरम् । अनुमानादिभिस्तस्य बाधः कर्तुं न शक्यते ।। २६

शृणुतान्यश्च वक्ष्यामि रहस्यं शास्त्रसम्मतम् । हेतुर्हर्यवतारस्य ज्ञोयः सच्छास्त्रतो बुधैः ।। २७

धर्मग्लानिर्यदा भूमौ जायते दुर्जनैः कृता । तदाऽवतारं गृाति हरिः शास्त्रेष्वितीर्यते ।। २८

दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः । राक्षसाश्चापि लोकेऽस्मिन् यदोत्पद्यन्ति दारुणाः ।। २९

तदाहं सम्प्रसूयामि गृहेषु शुभकर्मणाम् । प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् ।। ३०

इत्थं हि भारते प्राह मार्कण्डेयं जनार्दनः । वदामि भगवग्दीतावाक्यं वोऽथ शुचिव्रताः ! ।। ३१

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ! । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।। ३२

परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।। ३३

इति श्रीभगवद्बीतावाक्यं जानीत सुव्रताः ! । प्रमाणानां प्रमाणं हि गीता भागवती मता ।। ३४

श्रीमद्बागवतं चापि प्रमाणं बलवत्तरम् । वेदशास्त्रपुराणानां सारभूतं यतोऽस्ति तत् ।। ३५

यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल ।
धत्ते भगं सत्यमृतं दयां यशो भवाय रूपाणि दधद्युगे युगे ।। ३६

यो नः सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यङ्नृषु नित्य एव ।
कृतावतारस्तनुभिः स्वमायया कृत्वात्मसात्पाति युगे युगे च ।। ३७ 

इत्यादीनि च वाक्यानि श्रीमद्बागवताभिधे । पुराणे शतशः सन्ति चिन्तनीयानि तान्यपि ।। ३८

अधर्मवृद्धिर्नास्त्येव कलौ युष्मन्मतेऽत्र किम् । धर्म एवास्ति किं पुष्टो नावतारो यतो हरेः ।। ३९

अन्यश्च भक्ताः ! शृणुत मद्वाक्यं वो हितावहम् । येऽवतारः कलौ विष्णोर्नेत्यूचुस्तान् हि पुच्छत ।। ४०

भारतं पञ्चमो वेदस्तत्र भागवते तथा । नरनारायणस्यास्ति कथा कृष्णार्जुनाकृतेः ।। ४१

कलावेव तयोर्जन्म तथा बुद्धस्य कल्किनः । यदुच्यते पुराणादौ तिंत्कं सत्यमुतानृतम् ।। ४२

धर्मप्रवर्तकाश्चान्ये आचार्याः कलिसम्भवाः । अवतारा हरैः शिष्टेः कथ्यन्ते तच्च किं मृषा ? ।। ४३

अतः कलौ न मन्यन्ते येऽवतारं हरेर्जनाः । तेषां शास्त्ररहस्यस्य ज्ञानं नास्तीति निश्चयः ।। ४४

पूर्वापरविरोधं च स्ववाक्येष्वपि ते जनाः । न विदुर्मन्दमतयो धनार्थं जनवञ्चकाः ।। ४५

यं निषेधन्ति च कलौ तत्कथामेव कुर्वते । तथापि तं न जानन्ति कृष्णो जातः कदेति ते ।। ४६

मार्गः संसारिणामन्यो ह्यन्य एव मुमुक्षताम् । मुमुक्षुभिर्मुमुक्षूणामध्वा सेव्यो न चापरः ।। ४७

ये ये मुमुक्षवो जातास्ते ते सत्सङ्गतो भुवि । सम्प्राप्ताः परमां सिद्धिं भ्रष्टाश्चासन् कुसङ्गतः ।। ४८

हरिर्न स्याद्यदि कलौ प्रत्यक्षो भूतले क्वचित् । सन्तः कुतस्तदात्र स्युः श्रयणीया मुमुक्षुभिः ।। ४९

अपरोक्षपरब्रह्मसाक्षात्कारो हि लक्षणम् । सतां मुख्यतया प्रोक्तं कुतः स्यात्तद्धरिं विना ।। ५०

यस्य यस्य पुरा मुक्तिर्जाता संसृतिबन्धनात् । हरेर्हरिजनानां वा सङ्गेनैवोदितास्ति सा ।। ५१

कलौ तु नास्ति भगवांस्तं विना च न तज्जनाः । किमर्थे तर्हि मोक्षाशा कर्तव्यात्र मुमुक्षुभिः ।। ५२

शास्त्रेषु नरदेहो हि मोक्षसाधनमुच्यते । तं प्राप्यापि न यो मुक्तः स चात्मघ्नऽपि कथ्यते ।। ५३

नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् ।
मयानुकूलेन नभस्वतेरितं पुमान्भवाब्धिं न तरेत्स आत्महा ।। ५४

इत्यादिभिर्हि शतशो हरिवाक्यैर्नृदेहभाक् । अमुक्तः संसृतेर्योऽसावात्महेत्युच्यते बुधैः ।। ५५

नरदेहं विना नैव देहेनान्येन कर्हिचित् । ज्ञानं स्यात्स्वात्मपरयोर्मुक्तिर्ज्ञानादृते न च ।। ५६

दुर्लभो मानुषो देह इति सर्वैरुदीर्यते । अनेकसम्भवान्ते च सोऽतिपुण्यैरवाप्यते ।। ५७

सोऽस्माकमद्य सम्प्राप्तस्तदा त्वस्ति कलिर्महान् । अदर्शनं हरेरेव यत्र लोकैरुदीर्यते ।। ५८

यदा युगं हि सत्यादि भवेदत्र तदा तु नः । पश्वादिरूपता स्याच्चेत्तर्हि कुर्यात्कृतादि किम् ।। ५९

बहून्यतीतान्यस्माकं सत्यादीनि युगानि वै । तत्रापि न हरिः क्वापि श्रित इत्येव वेद्म्यहम् ।। ६०

हर्याश्रयो यदि कृतो भवेदस्माभिरेकदा । मलमांसमये पिण्डे तर्हि स्यात्पतनं कुतः ।। ६१

तस्माद्यदा मनुष्यत्वमस्माकं स्यात्तदा भुवि । हरेरप्यवतारोऽत्र भवेदित्यवधार्यताम् ।। ६२

अन्यथा नात्महन्तृत्वं जीवस्योच्येत सज्जनैः । ततः कलावपि हरिर्भुवि स्यादित्यवैत वै ।। ६३

हरेः समागमो न स्यात्कलौ चेन्मुक्तिसाधनम् । युगान्तरे जनास्तर्हि जन्मेच्छन्ति कुतः कलौ ।। ६४

कृतादिषु प्रजा राजन् ! कलाविच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायणपरायणाः ।। ६५

इति योगेश्वराः प्राद्दुर्जनकं नृपतिं पुरा । यदि नारायणो न स्यात्कुतः स्युस्तत्परा जनाः ।। ६६

तस्मान्नारायणो नूनं सर्वदैव भवेद्बुवि । तं प्राप्य भक्तिः कर्तव्या भक्तैर्नवविधा ततः ।। ६७

इति प्रोक्तं मया भक्ताः शास्त्रानुभवसम्मतम् । अत्र चेत्संशयः कश्चित्पुनः प्रश्नो विधीयताम् ।। ६८


सुव्रत उवाच -

सच्छास्त्रार्थैर्गुम्फितां तस्य वाचं श्रुत्वा ते वै वादिनस्तज्जयाशाम् ।
नष्टप्रायां मेनिरेऽथेक्षकास्तां नष्टामेव क्षोणिपालेतरे तु ।। ६९


इति श्री सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे त्रियुगशब्दार्थनिर्णये कलियुगेऽपि भगवदवतारसत्त्वनिरूपणनामा पञ्चत्रिंशोऽध्यायः ।। ३५ ।।