त्रयस्त्रिंशोऽध्यायः

सुव्रत उवाच -


यदा स भगवांस्तत्र समायतो दयानिधिः । तदानीं तस्य सकलः परिवारोऽप्युपाययौ ।। १ ।।

द्वारिका पुररूपेण सरोरूपेण गोमती । तस्थौ तत्र समागत्य तीर्थवृन्दमितस्ततः ।। २

ततो लीलानरवपुः श्रीहरिर्द्वारिकेश्वरः । सतीर्थरपरिवारोऽत्र समायात इति ब्रुवन् । ३

द्वारिकायामिवात्रापि तप्तमुद्राभिरङ्कनम् । सर्वानचीकरद्बक्तांस्तत्फलं भूरि वर्णयन् ।। ४

त्यागिनस्तेऽथ तं सर्वे दृा श्रीद्वारिकेश्वरम् । सम्पूज्य च यथायोग्यमासंल्लब्धमनोरथाः ।। ५

स्रात्वा सरसि गोमत्यां जगृहुस्तप्तमुद्रिकाः । सम्पूर्णो द्वारिकायात्रां मेनिरे कृपया हरेः ।। ६

निशि तत्र सभा चासीन्महती कृष्णमन्दिरे । उपाविशंस्तत्र भक्ताः पुमांसश्च स्त्रियोऽखिलाः ।। ७

स्थित उच्चासने तत्र हरिस्तानब्रवीद्वचः । यूयं शृणुत सर्वेऽपि जना ! मद्वचनं हितम् ।
अत्र श्रीद्वारिकाधीशः कृष्णः स्वयमुपागतः । इति तु ज्ञातमेवाद्य सर्वैः प्रत्यक्षदर्शनात् ।। ९

वसेद्यत्रैष तत्रैव परिवारोऽस्य सर्वशः । वसेदित्येव जानीत नृपस्यानुचरा इव ।। १०

तस्मादेतां पुरीं वित्त द्वारिकामेव तत्पुरीम् । तडागं गोमतीं वित्त तत्र तीर्थानि सर्वशः ।। ११

स्नानं येऽत्र करिष्यन्ति ते मोक्ष्यन्त्यघसङ्घतः । तर्पयिष्यन्ति ये पितंस्तृप्तिस्तेषां च भूयसी ।। १२

मुण्डनं चोपवासश्च श्राद्धं ब्राह्मणभोजनम् । ब्रह्मचर्यमहिंसा च सर्वतीर्थेष्वयं विधिः ।। १३

पिण्डदानयुतं श्राद्धं कर्तव्यमिह पूरुषैः । भविष्यत्यक्षया तृप्तिस्तत्पितणां तु तेन वै ।। १४

चातुर्मास्ये कार्तिके वा मार्गे वा माघमासि ये । स्रास्यन्ति नियमात् प्रातस्ते प्राप्स्यन्तीप्सितं फलम् १५

कृष्णस्य मन्दिरे चात्र करिष्यन्ति जपं तु ये । शीघ्रमेव हि तेषां च फलसिद्धिर्भविष्यति ।। १६

श्रीमद्बागवतादीनां पुरश्चर्यो च ये द्विजाः । करिष्यन्त्यत्र ते भुक्तिं मुक्तिं चाप्स्यन्ति वाञ्छिताम् १७

यः पठिष्यत्युपोष्यात्र श्रीमद्बागवतं द्विजः । पाठेनैकेन सोऽपीष्टं फलं प्राप्स्यति निश्चितम् ।। १८

लक्ष्मीनारायणादीनां महापूजां नरोऽत्र ये । करिष्यन्ति त आप्स्यन्ति गोलोके परमं सुखम् ।। १९

लघुपूजां करिष्यन्ति ये च कृष्णस्य दुर्बलाः । अक्षयं सुकृतं तेषां धाम चाप्स्यन्ति ते हरेः ।। २०

साधूंश्च ब्राह्मणान् येऽत्र भोजयिष्यन्ति शक्तितः । ते प्राप्स्यन्ति परं सौख्यमिहामुत्र च मानवाः २१

ये गोमतीतडागे च स्रात्वाऽस्यां पुरि मानवाः । तप्तमुद्रा ग्रहीप्यन्ति तेषां नास्ति यमाद्बयम् ।। २२

येऽत्रागत्य करिष्यन्ति शक्तया तीर्थविर्धं जनाः । तेषां श्रीद्वारिकायात्रा सम्पूर्णैव भविष्यति ।। २३


सुव्रत उवाच -

एवमुक्ता भगवता जनास्ते सकला अपि । जाताः प्रसन्नमनसस्तं प्रणेमुश्च भूपते ! ।। २४

प्रातः स्रात्वाथ गोमत्यां गृहीत्वा तप्तमुद्रिकाः । तद्दर्शनार्थमाजग्मुः प्रतिजग्मुश्च यूथशः ।। २५

तेषां तु भक्तिं दृा तां भृशं तुष्टोऽभवद्धरिः ।उवास मासमेकं च तत्र भक्तजनैः सह ।। २६

कृत्वा रामनवम्यां स कृष्णार्चन-महोत्सवम् । भक्तानाज्ञापयत्सर्वान् गन्तुं देशं निजं निजम् ।। २७

देशान्तरागता भक्ता नन्दरामादयश्च ते । स्वं स्वं देशं ततो जग्मुर्गायन्तस्तद्यशोऽमलम् ।। २८

स्वयं तु पारणां कृत्वा द्वादश्यां द्वारिकेश्वरम् । प्रणम्योपाययौ स्वामी पाश्चात्यैर्दुर्गपत्तनम् ।। २९

इत्थं श्रीद्वारिकाधीशो निजसद्बक्ततुष्टये । वृत्तालयमुपेयाय धात्र्येकादशिकादिने ।। ३०

द्वारिकाया इव भुवि तद्दिनात्प्रथितं महत् । वृत्तालयस्य माहात्म्यं नृपते ! मङ्गलप्रदम् ।। ३१

चरित्रमेतत्परमस्य पुंसः पठिष्यति श्रोष्यति वापि यस्तु ।
सौख्यं स लब्ध्वाऽत्र यशस्ततोऽन्ते तद्धाम सम्प्राप्स्यति देववन्द्यम् ।। ३२ ।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वृत्तालयमाहात्म्ये तत्तीर्थकर्तव्यविधिनिरूपणनामा त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।