सञ्चिदानंदमुनिरुवाच -
श्रीरुक्मिणीरमण ! रम्यमुखारविन्द ! श्रीकृष्ण ! शङ्करविधीन्द्रसुरादिवन्द्य ! ।
सद्धर्मभक्तिपरमाश्रय ! पुण्यकीर्ते ! श्री द्वारिकेश ! वरदो भव मे प्रसन्नः ।। १
त्वं भक्तसङ्घमवितुं स्वकमासुरेभ्यो दोर्भिर्दधद्दरगदारिसरोरुहाणि
नित्यं विराजस इहाखिलशक्तिनाथ ! श्री द्वारिकेश. ! ।। २
वस्त्राहृतौ द्रुपदपुत्रिकया स्मृस्त्वं श्रीमच्चमाशु परिहाय च तामुपेत्य ।
दत्त्वांशुकानि बहुधा ह्नियमाविधास्याः श्री द्वारिकेश. ! ।। ३
तस्या अनन्यनिजभक्तिजुषः सभायां केशग्रहं कुरुकृतं च न मृप्यमाणः ।
तत्स्त्रीर्हतेशपरिमुक्तकचाश्चकर्थ श्री द्वारिकेश. ! ।। ४
दुर्वाससो विपदि पाण्डुसुतान्निमग्नानुद्धर्तुमाशु निरूपानदगा अरण्यम् ।
भक्तप्रियस्य तव तस्य भवामि दासः श्री द्वारिकेश. ! ।। ५
भामामनोरथमपि प्रतिपूरयंस्त्वं जित्वा सुरेन्द्रममरैः सह नाकलोकात् ।
पुर्यामिहानयिथ नाथितपारिजातं श्री द्वारिकेश. ! ।। ६
वैरावबद्धकुटिलभ्रुकुटीक्षमाणान् शस्त्रैर्घ्नतोऽपि शपतो बहुधाति दुष्टान् ।
दैत्यानपि त्वमनयः स्वपदं दयालो ! श्री द्वारिकेश. ! ।। ७
सम्प्राप्यते धनिभिरेव न रङ्कपुंभिस्त्वन्मूर्तिदर्शनसुघेति न वक्तुमर्हम् ।
निष्किञ्चनप्रिय इति प्रथिते त्वयीश ! श्री द्वारिकेश. ! ।। ८
सद्धर्मवर्त्मपरिपातुमिह त्वमीश ! दैत्यांशभूपगुरुविक्षतमद्य भूमौ ।
दिव्यां दधन्नरतनुं हि विराजमानः श्री द्वारिकेश. ! ।। ९
अन्तःस्फुरत्कलिमलामरमर्त्यदैत्यदूरस्थितेरनुगतत्रियुगाभिधान ! ।
संसारतप्तशरणागतजीवनाथ ! श्री द्वारिकेश. ! ।। १०
सुव्रत उवाच -
इति स्तुवन्नतिप्रेम्णा कृष्णलीनमना मुनिः । तिस्रोऽवस्था व्यतीत्यैव तुरीयं पदमभ्यगात् ।। ११
भगवान् द्वारिकानाथो भक्तवत्सल ईश्वरः । तद्बाववित्सुप्रसन्नो ददौ तस्मै स्वदर्शनम् ।। १२
निशायां विजयाख्याया एकादश्या यदूद्वहः । तदन्तिकमुपेयाय तुरीयप्रहरे हसन् ।। १३
आविर्बभूव हृत्पद्मे प्रथमं तस्य योगिनः । लक्ष्मीभामार्जुनोपेतः सात्यक्युद्धवसंयुतः ।। १४
सहसा स्फुरितं तं च कोटिसूर्याधिकप्रभम् । आश्चर्यदर्शनं वीक्ष्य प्रेम्णा स विवशोऽभवत् ।। १५
सहसान्तर्दधे तत्र भगवान् व्युत्थितोऽथ सः । ससम्भ्रमो बहिः साक्षात्तमेवैक्षत संस्थितम् ।। १६
उद्यन्नीरदनीलरम्यवपुषं विद्युत्प्रभं बिभ्रतं वासोऽनेकविभूषणं सुमुकुटं सत्पद्मपत्रेक्षणम् ।
नानामौक्तिकपुष्पहारविलसत्कण्ठं प्रसन्नाननं दोर्भिः शङ्खगदासुदर्शनसरोजानि स्फुटं बिभ्रतम् १७
लक्ष्म्या दिव्यबिभूषणाम्बरधृता पद्मं च सद्वीजनं बिभ्रत्या च भुजद्वयेन सुरुचा प्रेम्णेक्ष्यमाणं प्रभुम् ।
लावण्यातिशयातिरूपवपुषा हैमं च भृङ्गारकं बिभ्रत्यैव कटाक्षवीक्षितमुखं पार्श्वस्थया भामया ।। १८
धृत्वा चामरमुद्धवेन विनयात्संवीजितं दक्षिणे वामे सात्यकिना च चामरघृता राजाधिराजश्रियम् ।
पृष्ठे स्वातपवारणं च दधता संमानितं जिष्णुना वीक्ष्य श्रीरमणं मुनिः स सहसा चक्रे नतिं दण्डवत् ।
तं प्रेमाश्रुकलावरुद्धनयनं रोमाञ्चिताङ्गं मुनिं सन्त्यज्यादशवासरं जलमपि स्वं संस्मरन्तं हृदा ।
विप्राद्यैरतिनिर्दयैः प्रतिहतस्वक्षेत्रयात्राविधिं त्यक्त्वा शङ्खमरिं हरिस्त्वतिमुदोत्थाप्याऽश्लिषत्सत्वरम् २०
तन्मूर्धांसउरःस्थले च भगवान् पाणिं निजं भ्रामयन् प्राह प्रेमपरिप्लुतं मुनिवरं धन्योऽसि भक्तोत्तम ! ।
तुष्टोऽस्म्यद्य ततो मनोभिलषितं याचस्व मत्तो वरं नादेयं मम किञ्चिदत्रभवते तुभ्यं त्रिलोक्यामपि ।। २१
इत्थं श्रीरमणेन तेन परया प्रीत्या वरार्थे मुनिर्भक्तः प्रेरित आह तत्करतलस्पर्शाद्गतक्षुद्व्यथः ।
तत्कारुण्यशरण्यतादिगुणसंवीक्षान्तरप्रस्फुरत्प्रेमोद्रेकदृगश्रुगद्गदगलो बद्धाञ्जलिश्चानतः ।। २२
सच्चिदानन्दमुनिरुवाच -
नमो नमो मङ्गलमूर्तये ते नमो नमो यादवभूषणाय ।
अपारकारुण्यसुधासमुद्र ! श्री द्वारिकाधीश ! नमोऽस्तु तुभ्यम् ।। २३ ।।
निःशेषपापौघविनाशनाय भक्तप्रियायाखिलकारणाय ।
श्री सत्यभामारमणाय नित्यं नमोऽस्तु नारायण ! देव ! तुभ्यम् ।। २४
कृष्णाय जिष्णुप्रियकारणाय वृष्णिप्रवीराय च विष्णवे ते ।
नमोऽस्तु नानाविधराजकन्यामनोभिलाषप्रतिपूरकाय ।। २५
भूमारराजन्यदवानलाय सद्धर्मसाधुप्रतिपालकाय ।
श्रीदामदारिद्रयविनाशनाय नमोऽस्तु ते चोद्धववल्लभाय ।। २६
श्री मन्महाराज ! विकुण्ठनाथ ! श्रीदेवकीनन्दन ! चक्रपाणे ! ।
द्वारावतीनायक ! वासुदेव ! नित्यं प्रसन्नो भव रुक्मिणीश ! ।। २७
दयानिधे ! महाराज ! भक्तेषु करुणेदृशी । त्वय्येव राजते नित्यं नह्यन्यत्र तु कुत्रचित् ।। २८
मनोरथो मे सफलः कृतोऽद्य भवता प्रभो ! । पूर्णकामोऽस्म्यहं नूनं दर्शनादेव तेऽधुना ।। २९
साक्षात्त्वच्चरणाम्भोजमशेषानन्दसंश्रयम् । सम्प्राप्यातः परं किंनु वृणोमि त्वत्त ईश्वर ! ।। ३०
अस्त्येकं याचितव्यं तच्छ्रुत्वा वितर मे प्रभो ! । भक्तप्रियस्य सततं तवाशक्यं न किञ्चन ।। ३१
आज्ञा तवैवास्ति हरेस्त्यागिनां गृहिणां तथा । यात्रा कार्या द्वारिकाया इति साम्प्रतमच्युत ! ।। ३२
तत्र ये धनिनस्तेषां दुष्करा नैव सा किल । सर्वथा दुष्करैवास्ति निर्धनानां नृणां प्रभो ! ।। ३३
औद्धवीयाः साधुजना ये सन्ति भुवि सत्पते ! । तेषां तु दुष्करतरा यात्रैषास्ति विशेषतः ।। ३४
न जातं गोमतीस्नानं तप्तमुद्राङ्कनं न च । कष्टैर्दशाहोपवासैर्जातं मेऽद्य त्वदीक्षणम् ।। ३५
एवंविधेऽत्र देशे तु यात्रा तेषां सतां कथम् । भवेत्कथं च भगवंस्त्वदाज्ञापरिपालनम् ।। ३६
यथा त्वद्दर्शनं तेषां भवेत्त्वत्पादचेतसाम् । तथा कुरु त्वं कृपया ममेत्येतद्धि याचितम् ।। ३७
सुव्रत उवाच -
इति स्तुतः प्रार्थितश्च मुनिना तेन स प्रभुः । प्रीणयंस्तमुवाचेदं नृपते ! भक्तवत्सलः ।। ३८
श्री भगवानुवाच -
त्वया यत्प्रार्थितं भद्र ! तत्करिष्याम्यसंशयम् । मद्दर्शनं सतां तेषामिह न स्यादिति ध्रुवम् ।। ३९
अत्रातिनिर्दयाः सन्ति तैर्थिका धनलोलुपाः । द्रुह्यन्ति मम भक्तेभ्यस्तेभ्यो जानामि निश्चितम् ।। ४०
अतो वृत्तालयपुरे लक्ष्मीनारायणस्य मे । मूर्तिर्भवति या तस्यामेत्य दास्ये स्वदर्शनम् ।। ४१
ददामि दर्शनं यद्वदिह तत्र तथैव हि । दास्ये स्वदर्शनं तेभ्यो लक्ष्मीनारायणाख्यया ।। ४२
ततश्च द्वारिकायात्रा तेषां तत्रैव सेत्स्यति । अत्र ते मास्तु सन्देहो यत्राहं तत्र सा यतः ।। ४३
अद्य गच्छ त्वमायामीत्युक्त्वा सोऽन्तर्दधे प्रभुः । सोऽप्यद्बुतं तदालक्ष्य विस्मितोऽस्थात्क्षणं नृप ! ४४
लीलैव स्वप्रभोरेषा भवतीत्यवधार्य सः । कस्मैचिदपि तद्वार्तां न ब्रुवन्निरगात्ततः ।। ४५
पुरुधृतिरतिभक्तिमानस साक्षाद्यदुपतिवीक्षणलब्धभूरिमोदः ।
गजवरगमनो मुनिः स्मरंस्तं झटिति जगाम पुनश्च गोमतीं ताम् ।। ४६ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वृत्तालयमाहात्म्ये द्वारिकानाथदर्शनतद्वरप्राप्तिनिरूपणनामैकत्रिंशोऽध्यायः ।। ३१ ।।