त्रिंशोऽध्यायः

सुव्रत उवाच -


यदा तु मन्दिरं प्राप द्वारिकाधीश्वरस्य सः । तस्मिन्नेव क्षणे याताः कौसला गोमतीं ततः ।। १ 

श्रीकृष्णदर्शनोत्कण्ठो मन्दिरद्वारमेत्य सः । यावदन्तर्विशेत्तावद्वाद्धाः स्थैर्निष्कासितो नृप ! ।। २

कोऽसि कोऽसि कुतो यासि नैव दत्त्वा धनं द्रवन् । अनाज्ञाप्तोऽनङ्कितश्च व्रज दूरमितो द्रुतम् ।। ३

विद्रावितो द्वारपालैर्व्यात्तशोणेक्षणैः स तु । विपण्यां निषसादैको मन्दिरद्वारसन्मुखम् ।। ४

ततः स गगुलीन् विप्रांश्चरतः प्राह भो द्विजाः ! । दिनेऽत्र मां कारयत द्वारिकानाथदर्शनम् ।। ५

ब्राह्मणानां हि हृदयं प्रोक्तं शास्त्रेषु कोमलम् । ततो मयि कृपां कर्तुं यूयमर्हथ सत्तमाः ! ।। ६

त ऊचुर्ब्रूहि नः सत्यं कियदस्ति तवान्तिके । धनं हैमं च वा रौप्यं कन्थाकौपीनगोपितम् ।। ७

स प्राह नास्ति मत्पार्श्वे धनं किमपि निश्चितम् । अस्मि साधुरहं त्यागी त्यागिनां स्यात्कुतो धनम् ।। ८

तत्रापि सहजानन्दस्वामिशिष्योऽस्म्यहं द्विजाः ! । अतः कुतो मे द्रव्यं स्याद्दूराद्धि स्त्रीधनत्यजः ।। ९

त ऊचुस्तर्हि तु भवान् यद्यप्यत्र मरिष्यति । तथापि द्वारिकाधीशदर्शनं न भविष्यति ।। १०

वयं तु सहजानन्दशिष्याणामन्तकाः किल । पुरप्रवेशं नो दद्मो दूरेऽस्तु कृष्णदर्शनम् ।। ११

गुरुस्तवैव कृष्णोऽस्ति किमर्थं भ्राम्यसि क्षितौ । वयं न यावन्मिलितास्तं तावद्गर्जतां स च ।। १२

एवमुक्त्वा गातास्ते तु तावदन्ये तमब्रुवन् । दत्त्वा द्रव्यं कुरु हरेर्दर्शनं किन्नु लङ्घसे ।। १३

केचित्तं भर्त्सयामासुर्वाक्शल्यैः परुषैरपि । केचिच्छठोऽयमित्यूचुर्धूर्तोऽयमिति चापरे ।। १४

आतिथ्यं तस्य दूरेऽस्तु किं तु तं कोऽपि पूरुषः । वाचापि शुभया तत्र भाषयामास नेर्ष्यया ।। १५

निराहारः स तु मुनिर्द्वारमेव विलोकयन्। द्वारिकाधीशितुस्तत्र दृढासन उपाविशत् ।। १६

विशतां यात्रिकाणां च द्रव्यं दत्त्वैव मन्दिरे । स्त्रीपुंसानां सुसङ्घर्षं स दृा मुनिरत्रसत् ।। १७

तत्रत्यानां निर्दयत्वं दृा चाऽरावणादपि । अधिकं निश्चिकायैतच्छ्री-मदाधिक्यमप्यसौ ।। १८

एवं स्थितवतस्तस्य ययावस्ताचलं रविः । निशायामथ जातायां चिन्तयामास सोऽन्तरे ।। १९

अहोऽतिनिर्दयं स्थानमायातोऽस्मीश्वरेच्छया । अतःपरं किं कर्तव्यं कथं स्यात्कृप्णदर्शनम् ।। २०

आयास्यन्ति सतीर्थ्याश्चेत्त्यागिनोऽत्राज्ञाया प्रभोः । तर्हि तेषां गतिः का वा भविष्यति महात्मनाम् ।। २१

दर्शनं द्वारिकेशस्य कृत्वाऽयाहीति मे हरेः । आज्ञाऽस्ति तामसम्पाद्य कथं यायां तदन्तिकम् ।। २२

यः साक्षाद्बगवान् कृष्णः स तु दुर्गपुरे स्वयम् । विराजते हरिः सोऽत्र वर्तते हि चतुर्भुजः ।। २३

भक्तप्रियः स कृष्णोऽसौ सर्वाभिप्रायवित्प्रभुः । द्वारिका-धीश्वरो मह्यं दास्यत्येव स्वदर्शनम् ।। २४

इति निश्चित्य मनसा स योगी तं स्वकं गुरुम् । प्रणम्य हृदये कृष्णं ध्यायन् प्राय उपाविशत् ।। २५

उपविष्टस्य तस्येत्थं चत्वारो दिवसा ययुः । त्यक्तोदकस्यापि मुनेर्दृढनिश्चयशालिनः ।। २६

कृष्णं समाधावपि वीक्षमाणः प्रत्यक्षतद्दर्शनमेष इच्छन् ।
धीरो मुनिः पञ्चमवासरे तं स्तोत्रेण चानेन नुनाव राजन् ! ।। २७


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वृत्तालयमाहात्म्ये द्वारिकानाथदर्शनप्रतिबन्धनिरूपणनामा त्रिंशोऽध्यायः ।। ३० ।।