द्वात्रिंशोऽध्यायः

सुव्रत उवाच -


अथ ये कौसला याताः शङ्खद्धारात्तु गोमतीम् । आगत्य ते तु तं साधुं तत्तीरेऽभ्यगवेषयन् ।। १ 

तमदृा तु ते तत्र सचिन्ता गोमतीतटे । साश्रुनेत्रा म्लानवक्रा निःश्वसन्तो व्यतर्कयन् ।। २

अहो किमेतत्सञ्जातं दैवयोगेन दुष्कृतम् । दयालुः स महान् साधुः क गतोऽतिप्रियो हरेः ।। ३

कथं वयं गमिष्यामो विना तं दुर्गपत्तनम् । स्वमुखं दर्शयिष्यामः स्वामिनः पुरतः कथम् ।। ४

तत्र वा किं वदिष्यामो वयं दैवहता ननु । नृपोपालमभवाचश्च श्रोष्यामोऽरुन्तुदाः कथम् ।। ५

तदाह मानसारामो मया तु कथितं पुरा । त्यक्त्वा तं नैव गन्तव्यमिति तत्कोऽपि नशृणोत् ।। ६

गोपालस्तमथोवाच ज्येष्ठभ्रातुर्वचो मया । कथमुल्लङ्घनीयं स्यादेष पित्रा समो यतः ।। ७

नन्दरामस्तदोवाच समाधेर्दैर्घ्यमस्य तु । आदावेव त्वया प्रोक्तं वृथा मां शपसे किमु ।। ८

अथाह मानसारामो भावि यत्तद्बवेद्ध्रुवम् । वृथा चिन्ता न कर्तव्या स्मर्तव्यो दुःखहा हरिः ।। ९

यद्दर्शनार्थमायाता वयं श्रीस्वाम्यनुज्ञाया । स एव द्वारिकाधीशः शं विधास्यति नः किल ।। १०

दयानिधिर्मुनिरसौ भक्तो भगवतो महान् । हित्वास्मान् सर्वथा नैव गच्छेदृर्गपुरं किल ।। ११

शङ्खोद्धारं गतो नूनमेष इत्येव भाति मे । आगमिष्यत्यथात्रैव स्थेयमस्माभिरत्र तत् ।। १२

इति तद्वचनं श्रुत्वा तौ तथेत्यूचतुस्ततः । स्मरन्तो द्वारिकाधीशं तत्रोषुस्ते हरिं नृप ! ।। १३

गोमत्यां प्रातराप्लुत्य कृत्वा नित्यविधिं च ते । तत्रत्यद्वारिकेशस्य चक्रुः प्रत्यहमीक्षणम् ।। १४

सचिन्तास्ते चतुर्थेऽह्नि कृत्वैकादश्युपोषणम् । पाकं विधाय द्वादश्यां चक्रुस्तत्साधुचिन्तनम् ।। १५

अहो ईदृक्कुतो भाग्यमस्माकं कुधियां भवेत् । यदत्र स महायोगी कुर्यादागत्य पारणाम् ।। १६

नन्दरामस्तावदाह दक्षः स्फुरति मत्करः । मानसाराम आहाथ दक्षं मेऽक्षि स्फुरत्यपि ।। १७

गोपाल आह स्वप्नेऽद्य मया प्रातः स ईक्षितः । आयाति द्वारिकाधीशं हृदि धृत्वेति निश्चितम् ।। १८

शुभानीत्थं निमित्तानि वदन्तस्ते परस्परम् । आयान्तं ददृशुर्दूराग्दजेन्द्रमिव तं मुनिम् ।। १९

एह्येह्यहो अहो स्वामिन्निति प्लुतगिरस्त्रयः । अभ्यद्रवंस्ते विप्रास्तं प्राणाः प्राणमिवादरात् ।। २०

अथालिङ्गय चिरं दोर्भ्यां हसन्तस्ते परस्परम् । स्वावासमेत्य चान्योन्यं पप्रच्छुः कुशलं ततः ।। २१

स्नपयित्वा भोजयित्वा विप्रास्ते तं महामुनिम् । स्वयं भुक्त्वा स्ववृत्तान्तं कथयन्तोऽनयन् दिनम् २२

उषित्वा तां निशां तत्र प्रातस्ते निर्युयुस्ततः । शुक्लषष्ठयां तपस्यस्य लेभिरे दुर्गपत्तनम् ।। २३

यत्र यत्रोषिता मार्गे तत्र तत्र चं ते निशि । स्वप्नेऽपश्यन्सहायान्तं सश्रियं द्वारिकेश्वरम् ।। २४

सम्प्राप्य ते दुर्गपुरं सभायामास्थितं हरिम् । प्रणेमुर्दण्डवद्बक्त्या मानयामास सोऽपि तान् ।। २५

वृत्तान्तमखिलं स्वस्य विना श्रीकृष्णदर्शनम् । स मुनिः प्राह तत्रत्यं स्नानाङ्केक्षावरोधनम् ।। २६

तच्छ्रुत्वा साधवः सर्वे खेदमापुर्भृशं हृदि । स्वेषां हि द्वारिकायात्रा न स्यादित्याप्तनिश्चयाः ।। २७

इति तान् खिन्नमनसो वीक्ष्योवाच पुनः स च । स्वस्य कृष्णेक्षणं तस्माद्वरप्राप्तिं च तत्त्वतः ।। २८

तदाकर्ण्यातिसंहृष्टाः साधवस्तं ववन्दिरे । प्रशशंसुश्च बहुधा लेभिरे निर्वृतिं पराम् ।। २९

स्वयं च मुनिराट् स्वामी तं प्रशंसन् पुनः पुनः । अवीवदत्तदेवासौ भक्तानानन्दयन्निजान् ।। ३०

तत्रत्यं सोऽपि वृत्तान्तं कथयित्त्वाखिलं मुनिः । प्राह सर्वः प्रसादोऽयं त्त्वत्कृपाया इति ध्रुवम् ।। ३१

उत्सवं द्वारिकेशस्य दोलाख्यं मासि फाल्गुने । सद्यः प्राप्तं कर्तुमैच्छत्ततो वृत्तालये हरिः ।। ३२

त्यागिभिर्गृहिभिः साकं योषाभिश्च स सद्गुरुः । वृत्तालयं गन्तुमिच्छन् सर्वानाज्ञापयत्ततः ।। ३३

लिखित्वा पत्रिका दूतान्प्रेषयित्वा च सर्वतः । देशान्तरेभ्यः स्वान्भक्तानाह्वयामास सत्वरम् ।। ३४

तस्यां निशायां सुप्तास्ते सन्तः सर्वेऽप्यचक्षत । स्वप्ने वृत्तालयं यान्तं सश्रियं द्वारिकेश्वरम् ।। ३५

प्रातरुत्थाय ते प्रोचुः स्वप्नवृत्तं हरेः पुरः । स उवाच तदा स्वामी सत्यमेतन्न संशयः ।। ३६

सप्तम्यां स ततः सर्वैः साकं भक्तैः सहस्रशः । स्वामी श्रीसहजानन्दो निर्ययौ दुर्गपत्तनात् ।। ३७

समारूढो वाहं जीवनमरुणं मञ्जुलगतिं दधद्वल्गां वामे करकमलकोशेऽतिमृदुले ।
परे वेत्रं चासौ सितसकलवासाः परिवृतो हयारूढैः सोमप्रमुखनिजभक्तैः पथि ययौ ।। ३८

एकादशीदिने सायं प्राप वृत्तालयं स च । नानाग्रामपुरेभ्यश्च तत्रेयुर्यूथशो जनाः ।। ३९

मुक्तानन्दोऽपि तत्राऽगान्मुनिराड्वटपत्तनात् । विजित्य वादिनः सर्वान् साकं पौरजनैर्नृप ! ।। ४०

द्वारिकाधीश्वरं कृष्णं लक्ष्मीनारायणाख्यया । तं स्थितं वीक्ष्य ते सर्वे भक्ताः प्रापुः परां मुदम् ।। ४१

तत्रागता ये गृहिणस्तेऽपि त्यागिनाजना इव । प्रायशो ददृशुः स्वप्ने द्वारिकाधीशमागतम् ।। ४२

ततोऽतिविस्मिता लोकाः सर्वे तं दृढनिश्चयाः । पुपूजुः परया भक्तया स्वाधिकारानुसारतः ।। ४३

एवं स्वयं स भगवान् स्वस्यैवागमनादिकम् । लीलया दर्शयामास नातो ज्ञोया तयोर्भिदा ।। ४४

स्वामी च सकलैः शिष्यैस्ततो दोलामहोत्सवम् । कारयामास सम्भारैर्महद्बिर्द्वारिकेशितुः ।। ४५

स भक्ष्यभोज्यैर्बहुभिश्च लेह्यैश्चोप्यैश्च साधून् सकलान्नरेश ! ।
अतर्पयत्सम्परिवेषयन् स्वान् परिभ्रमन् पङ्क्तिषु भूरिकृत्यः ।। ४६ ।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वृत्तालयमाहात्म्ये द्वारिकापुराच्छ्रीकृष्णागमनोत्सवनिरूपणनामा द्वात्रिंशोऽध्यायः ।। ३२ ।।