श्री नारायणमुनिरुवाच -
सारेऽस्मिन्सर्वशास्त्राणां श्रीमद्बागवताभिधे । साङ्खयसूत्रोदितो ह्यर्थो योगसूत्रोदितस्तथा ।। १
ब्रह्मसूत्रोदितश्चार्थो वेदान्तार्थश्च भूपते ! । विस्तराद्वर्णितोऽस्त्येव भगवद्बक्तिवृद्धये ।। २
श्रीकृष्णो हि चतुर्व्यूहो वासुदेवादिसंज्ञाकः । वर्णितः पञ्चरात्रेण पुरुषाद्यवतारधृत् ।। ३
तस्य स्वरूपविज्ञानं तस्मिन्भक्तिश्च नैष्ठिकी । नैष्कर्म्ये कर्म तत्प्रीत्त्यै वैराग्यमितरत्र च ।। ४
तथा तस्यावताराणां जन्मकर्माणि यान्यपि । तेषां दिव्यतया ज्ञानं तद्बक्तेष्वेव सौहृदम् ।। ५
तथात्मरूपविज्ञानं सम्यङ्नणां भवेदिति । एतान्येवात्र विस्तार्य बहुधाऽवर्णयन्मुनिः ।। ६
एतं गुह्यतमं त्वर्थं श्रीमद्बागवतस्थितम् । न हि सर्वे विजानन्ति जानन्ति विरला बुधाः ।। ७
श्रोतारो वापि वक्तारो ये स्वधर्मेषु संस्थिताः । पञ्चस्वपि विरक्ता ये विषयेष्वात्मवेदिनः ।। ८
नराकृतिं वासुदेवमनन्तैश्वर्यमण्डितम् । ज्ञात्वैव तत्र भक्तिं ये नैष्ठिकीं कुर्वते नराः ।। ९
सौहार्दे सात्त्वतेष्वेव निर्दम्भं ये च कुर्वते । त एवैतद्रहस्यं हि जानन्ति नृप ! नेतरे ।। १०
एतैस्तु लक्षणैर्युक्ता अदक्षा अपि लौकिके । अनधीतानेकशास्त्रा अप्येतच्छ्रवणाद्विदुः ।। ११
एतल्लक्षणहीना येऽधीतशास्त्रचया अपि । निपुणा व्यवहारेषु कुर्वन्तो गुरुतामपि ।। १२
यावज्जीवमधीयानाः शृण्वन्तो वै तदन्वहम् । रहस्यं नैव जानन्ति लभन्ते प्रेम न प्रभौ ।। १३
ज्ञात्वा वै तत्सतां वक्त्रान्न वर्तन्ते तथा च ये । तेऽप्यज्ञातुल्या विज्ञोया भक्त्या सेव्यमिदं ततः ।। १४
पुराणस्येदृशस्यास्य ज्ञानादज्ञानतोऽपि वा । श्रवणं पठनं वापि ये कुर्युर्मानवा भुवि ।। १५
सद्यस्ते पापनिर्मुक्ता भवेयुर्यदि ते पुनः । न कुर्युः पातकं तर्हि मुक्ताः स्युर्भवबन्धनात् ।। १६
चिरन्तनाया वृद्धाया महापापभहारुजः । त्यक्ताया निष्कृतैर्वैद्यैरिदमेवामृतं हितम् ।। १७
रहस्यमेतत्परमं कृत्वा व्यासो निजात्मजम् । पुराणं श्रेयसे नणां शुकं स त्वध्यजीगपत् ।। १८
दयालुः स शुकः प्राह गङ्गातीरे परीक्षितम् । प्रायोपविष्टं नृपतिं महर्षिगणसंसदि ।। १९
ततः प्रवृत्तिरभवद्बूतलेऽस्य नराधिप ! । श्रीमद्बागवतस्येति श्रेष्ठमेतत्प्रकीर्तितम् ।। २०
आकृष्णनिर्गमात्रिंशद्वर्षावधि गते कलौ । नवमीतो नमस्ये च कथारम्भं शुकोऽकरोत् ।। २१
सप्तभिर्दिवसैः सर्वे सार्थं चाचकथत्स तत् । प्रौष्ठपद्यां पौर्णमास्यां पुराणं तत्समापयत् ।। २२
वेदादीनां साररूपा यतो भागवती कथा । अत्युत्तमा ततो भाति सेवनीयैव सर्वथा ।। २३
यथा दुग्धे स्थितं सर्पिर्नास्वादायोपकल्पते । पृथग्भूतं तु तद्दिव्यं देवानां रसवर्धनम् ।। २४
इक्षूणामादिमध्यान्तं शर्करा व्याप्य तिष्ठति । पृथग्भूतैव सा मिष्टा तथा भागवती कथा ।। २५
कालव्यालमुखग्रासत्रासनिर्नाशहेतवे । श्रीमद्बागवतं शास्त्रं कलौ कीरेण भाषितम् ।। २६
एतस्मादपरं किञ्चिन्मनः शुद्धयै न विद्यते । जन्मान्तरीयपुण्यौघै शुश्रूषा तस्य सम्भवेत् ।। २७
परीक्षिते कथां वक्तुं सभायां संस्थिते शुके । सुधाकुम्भं गृहीत्वैव देवास्तत्र समाययुः ।। २८
शुकं नत्वावदन्सर्वे स्वकार्यकुशलाः सुराः । कथासुधां प्रयच्छ त्वं गृहीत्वैव सुधामिमाम् ।। २९
एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् । प्रपास्यामो वयं सर्वे श्रीमद्बागवतामृतम् ।। ३०
क्व कथा क्व सुधा लोके क्व काचः क्व महामणिः । ब्रह्मरातो विचार्येत्थं ततो देवान् जहास सः ।। ३१
अयोग्यांस्तांस्तु विज्ञाय न ददौ स कथामृतम् । एवं भागवती वार्ता देवानामपि दुर्लभा ।। ३२
राज्ञो मोक्षं ततो वीक्ष्य स्वयं ब्रह्मापि विस्मितः । सत्यलोके तुलां बध्वा शास्त्रजातमतोलयत् ।। ३३
लघून्यन्यानि जातानि गुरु त्वेकभिदं महत् । तदा ऋषिगणाः सर्वे विस्मयं परमं ययुः ।। ३४
मेनिरे ते हरे रूपं शास्त्रं भागवतं ततः । पठनाच्छ्रवणात्सद्यो वैकुण्ठफलदायकम् ।। ३५
एतं वृत्तन्तमाश्रुत्य सर्वे त्रैलोक्यवासिनः । श्रेयस्कामास्तदेवैकमाद्रियन्त न चापरम् ।। ३६
निवृत्तिमार्गस्याचार्याः कपिलः सनकादयः । इदमेवान्द्रियन्ते स्म पुराणं परया मुदा ।। ३७
प्रवृत्तिमार्गस्याचार्या मरीचिप्रमुखास्तथा । इदमेवादरान्नित्यं जगृहुः शुभकर्मसु ।। ३८
श्वेतद्वीपे निरन्ना ये मुक्ताश्च बदरीवने । ऋषयस्तेऽप्येतदेव प्राधान्येन सिषेविरे ।। ३९
श्रुतिस्मृतिपुराणानि निराधाराणि तर्हि तु । ब्रह्माणमेत्य शरणं प्रोचुः शोककृशानि च ।। ४०
देवदेव ! जगद्धातस्त्वमस्माकमधीश्वरः । भवसीति परं कष्टमस्माकं श्रोतुमर्हसि ।। ४१
श्रीमद्बागवतस्यैव गुरुत्वात्सर्वशास्त्रतः । जाता प्रवृत्तिस्त्रैलोक्ये सर्वत्र शुभकर्मसु ।। ४२
अस्मांस्तु कोऽपि दृष्टयापि न पश्यत्यादरात्प्रभो ! । अतो नामापि नो लोके न स्थातेत्येव भाति नः ४३
जीविताशां विहायैव ततस्त्वां शरणं गतान् । पातुमर्हसि नो धातर्यतस्त्वं लोकभावनः ।। ४४
तान्याश्वास्य ततो ब्रह्मा श्रीमद्बागवतं प्रति । उवाचेमा ज्ञातयः स्वा नातिक्रम्यास्त्वयानघ ! ।। ४५
त्वयैवैकाकिना तात ! विहायैतान्निजान्क्वचित् । न गम्यमिति मद्वाक्यं त्वं पालयितुमर्हसि ।। ४६
तदा भागवतं प्राह तं प्रणम्य पितामहम् । अद्यप्रभृति वात्स्यामि पुराणानां हि मण्डले ।। ४७
आधिक्यं न स्वतोऽभीष्टं ममास्तीत्यवगच्छ भोः । किन्तु त्वया तोलनेन व्यासेन च कृतं हि तत् ४८
साम्प्रतं च यथाऽज्ञा ते करिष्यामि तथा विभो ! । इति तस्य वचः श्रुत्वा प्रसन्नोऽभवदात्मभूः ४९
पुराणानां तु सङ्खयायां पञ्चम्यामेव तद्विधिः । पुराणं स्थापयामास श्रुतिदानार्चनादिषु ।। ५०
श्रुतिस्मृतिपुराणानि तदेवालम्ब्य तद्दिनात् । सर्वाणि पोषणं प्रापुः सर्वदा च तदन्वयुः ।। ५१
श्रीमद्बागवतस्यास्य संश्रयाद्बूतलेऽखिले । विख्याता पञ्चमी सङ्खया शतादिभ्योऽप्यभृद्वरा ।। ५२
तदिदं श्रीभागवतं पुराणं ब्रह्मसम्मितम् । सेव्यते पुरुषैर्धन्यैर्भूतलेऽत्र नराधिप ! ।। ५३
धन्या भागवती वार्ता प्रेतपीडाविनाशिनी । सप्ताहोऽपि तथा धन्यः कृष्णलोकफलप्रदः ।। ५४
रुदन्ति सर्वपापानि सप्ताहश्रवणक्षणे । अस्माकं प्रलयं सद्यः कथेयं हा !! करिष्यति ।। ५५
आर्द्रे शुष्कं लघु स्थूलं वाङ्गमनःकायसम्भवम् । श्रवणं प्रदहेत्पापं पावकः समिधो यथा ।। ५६
अस्मिन्वै भारते वर्षे सूरिभिर्देवसंसदि । अकथाश्राविणां पुंसां निष्फलं जन्म कीर्तितम् ।। ५७
किं मोहतो रक्षितेन सुपुष्टेन बलीयसा । अध्रुवेण शरीरेण शुकशास्त्रकथां विना ।। ५८
अस्थिस्तम्भं स्नयुबद्धं मांसशोणितलेपितम् । चर्मावनद्धं दुर्गन्धं पात्रं मूत्रपुरीषयोः ।। ५९
जराशोकविपाकार्तं रोगाणां मन्दिरं परम् । दुष्पूरं च कृतघ्नं च सदोषं क्षणभङ्गुरम् ।। ६०
कृमिविङ्भस्मसंज्ञान्तं शरीरमिति वर्णितम् । तेन संसाधयेद्धीमान्स्वकार्ये यः स पण्डितः ।। ६१
यत्प्रातः संस्कृतं चान्नं सायं तत्तु विनश्यति । तदीयरससम्पुष्टे काये का नाम नित्यता ।। ६२
बुद्बुदा इव तोयेषु मशका इव जन्तुषु । जायन्ते मरणायैव कथाश्रवणवर्जिताः ।। ६३
श्रीमद्बागवतं पुराणममलं यद्वैष्णवानां प्रियं यस्मिन् पारहंस्यमेकममलं ज्ञानं परं गीयते ।
यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं तच्छृण्वन् विपठन् विचारणपरो भक्तया विमुच्येन्नरः ६४
इत्थं मया भागवतस्य तुभ्यं माहात्म्यमुक्तं नृपते ! तु तत्स्यात् ।
महाफलप्रापकमेव नणां स्वधर्मयुग्भक्तिमतां सदैव ।। ६५
इति श्री सत्संङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पुराणश्रवणोत्सवे विशेषतः श्रीमद्बागवतमाहाग्म्यनिरूपणनामा तृतीयोऽध्यायः ।। ३ ।।