राजोवाच -
श्रीमद्बागवतस्यापि श्रवणस्य विधिं प्रभो । पुरश्चर्याप्रकारं च विधिं दानस्य मे वद ।। १
त्वमेवैतद्यथावद्वै वेत्सि सर्वमशेषतः । अतः शुश्रूषवे मह्यं वक्तुमर्हसि तत्त्वतः ।। २
सुव्रत उवाच -
इति भूपतिना पृष्टः स पुराणमुनिस्तदा । श्रीमद्बागवतस्योचे श्रवणादिविधिं च तम् ।। ३
श्रीनारायणमुनिरुवाच -
शृणु राजन्प्रवक्ष्यामि श्रीमद्बागवतस्य ते । श्रवणादिविधिं सम्यक् स्ववाञ्छितफलप्रदम् ।। ४
पुराणानि द्विधा सन्ति लघूनि च महान्ति च । लघून्युपपुराणानि पुराणानि महान्ति च ।। ५
महापुराणान्यकरोत्स्वयं व्यासो दशाष्ट च । अन्ये तूपपुराणानि चक्रुस्तावन्ति चर्षयः ।। ६
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । मार्कण्डेयं नारदीयमाज्ञोयं च भविष्यकम् ।। ७
लैङ्गं च ब्रह्मवैवर्ते वाराहन स्कान्दवामने । कौर्मे मात्स्यं गारुडं च ब्रह्माण्डं चाथ भूपते ! ।। ८
महापुराणसंज्ञानि प्रागक्तान्यष्टदशेति हि । नामान्युपपुराणानां कथयाप्रोथ तेऽनघ ! ।। ९
सानत्कुमारं नान्दं च नारसिंहं च कापिलम् । दौर्वाससं नारदीयं शैवधर्मे च मानवम् ।। १०
ब्रह्माण्डाख्यं चौशनसं वारुणं कालिकाह्वयम् । वासिष्ठलिङ्गं वासिष्ठं तथा माहेश्वराभिधम् ।। ११
पाराशरं साम्बसौरे इत्यष्टादश भूपते ! । मारीचभार्गवादीनि सन्त्यन्यान्यपि कानिचित् ।। १२
इतिहास इति प्रोक्तं यन्महाभारतं तु तत् । रामायणं तु काव्याख्यं कथितं मुनिसत्तमैः ।। १३
एतेषां च सवेदानां सारो भागवताभिधम् । महापुराणं कथितं भवरोगरसायनम् ।। १४
नदीनां तु यथा गङ्गा देवानामच्युतो यथा । वैष्णवानां यथा शम्भुः पुराणानामिदं तथा ।। १५
सर्ववेदपुराणेभ्यः श्रेष्ठत्वेऽस्य तु कारणम् । कथयामि च ते राजन्रुचिस्तत्रास्ति ते यतः ।। १६
यदाऽसृज्जागदिदं ब्रह्मा लोकपितामहः । तदानीं श्रेयसे नणां वेदं प्रावर्तयत्स तु ।। १७
एक एव पुरा वेदः कृतादावभवद्युगे । अधीयते स्म सार्थं तं समग्रमपि सद्धियः ।। १८
द्वापारान्ते त्वल्पधियो बभूवुः कालवेगतः । तं नाध्येतुं नराः शेकुर्बोद्धुमर्थे च तस्य ते ।। १९
नारायणावतारोऽभूत्तदा द्वैपायनो मुनिः । वेदार्थबोधनेनैव श्रेयसेऽयतताऽत्मनाम् ।। २०
वेदमेकं चतुर्धैव व्यभजत्स महामुनिः । चक्रे दोद्धुं तदर्थे च पुराणैः सह भारतम् ।। २१
चतुर्णामपि वर्णानामाश्रमाणां च सर्वशः । धर्मार्थकाममोक्षांश्च तत्र सोऽवर्णयत्स्फुटम् ।। २२
आत्यन्तिकश्रेयसे च धर्मानेकान्तिनामपि । क्वचित्क्वचित्प्रसङ्गेन वर्णयामास तत्र सः ।। २३
ऋग्वेदाचार्यमकरोत्ततः पैलमृषिं मुनिः । यजुर्वेदस्य चाचार्यं स वैशंपायनं मुनिम् ।। २४
सामवेदस्य चाचार्यं चकार स तु जैमिनिम् । अथर्ववेदाचार्यं च सुमन्तुमकरोदृषिम् ।। २५
इतिहासपुराणानामाचार्ये रोमहर्षणम् । स बादरायणश्चके हितायैव नृणामृषिः ।। २६
सरस्वतीनदीतीरे शम्याप्रासाभिधाश्रमे । इत्थं कृत्वापि स मुनिर्नैवातुष्यन्निजान्तरे ।। २७
तस्यासन्तोषहेतुं ते ब्रवीमि नृपते ? शृणु । निःश्रेयसाय लोकानां तस्य जन्मास्ति भूतले ।। २८
तस्य हेतुस्तु सद्धर्मो ज्ञानं वैराग्यमेव च । माहात्म्यज्ञानयुग्भक्तिर्भूम्नश्चेति चतुष्टयम् ।। २९
स तु तेनाल्पको ह्येव वर्णितोऽप्यतिविस्तृतैः । मिश्रत्वाद्धर्मकामार्थैर्बौद्धुं शक्यो न तत्त्वतः ।। ३०
स्वर्गादिफलदेष्वेव ततः कर्मसु मानवाः । सक्ता आसन्बहुविधैर्वाक्यैस्तत्प्रतिपादकैः ।। ३१
तदा तु तस्य श्रेयोर्था पुराणादिकृतिर्मुनेः । आसीदेवाकृतप्राया तत्फलानुदयात्किल ।। ३२
तदान्तर्यामिणा साक्षाद्वासुदेवेन तद्धृदि । अपूर्णकामता प्रैरि तया तापो महानभूत् ।। ३३
तदुत्थया शुचा तस्य ज्ञानं सङ्कुचितं ह्यभूत् । अतः शान्तिं स न प्राप ग्रन्थं कर्तुं न चाशकत् ।। ३४
ततो दयालुर्भगवान्नारायण ऋषीश्वरः । नारदं प्रैषयत्तस्मै निपुणं परबोधने ।। ३५
विचारेणापि तापस्य हेतोरनुपलम्भनात् । शोचन्तं तमुपेयाय नारदः सर्वदुःखहा ।। ३६
व्यासेन पूजयित्वाऽथ स्वासन्तोषस्य कारणम् । सम्पृष्टः स मुनिः प्रोचे सर्वज्ञो भगवत्प्रियः ।। ३७
नारद उवाच -
यदर्थमवतारस्ते सम्यक् तन्न त्वया कृतम् । अपूर्णकामता तस्माद्धृदये तव वर्तते ।। ३८
आत्यन्तिकश्रेयसे त्वं जनानां रचयानध ! । त्वत्कृतग्रन्थसर्वस्वं पुराणं केवलं रसम् ।। ३९
यशः श्रीवासुदेवस्य तद्बक्तानां च तत्त्वतः । तत्र वर्णयतः शान्तिर्भविष्यति तवान्तरे ।। ४०
श्रीमद्बागवतं नाम पुराणं रचयाधुना । तेन निःश्रेयसं नृणां त्वत्सन्तोषश्च सेत्स्यति ।। ४१
आज्ञा नारायणस्येत्थं भवतीत्युपदिश्य तम् । जगाम नारदः सोऽथ तद्वयधित्सत्समाधिना ।। ४२
वेदान्स्मृतीश्चेतिहासान्पुराणानि च सर्वशः । सूत्राणि काव्यान्यामथ्य बुद्धया तत्सारमाददे ।। ४३
स्वानुभूतिसहायेन तेन भागवताभिधम् । स चकार महायोगी पुराणं मुक्तवाञ्छितम् ।। ४४
क्षीराब्धावोषधीः सर्वा मथित्वा मन्दराद्रिणा । यथोदपादयद्विष्णुः पीयूषं स तथैव तत् ।। ४५
अन्तर्हिते भूमिप ! वासुदेवे भुवस्तलादाश्रय एतदासीत् ।
सहान्वयस्यापि निराश्रयस्य धर्मस्य लोकेषु पुराणमेव ।। ४६
इति श्री सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पुराणश्रवणोत्सवे सहेतुकभागवतोत्पत्तिनिरूपणनामा द्वितीयोऽध्यायः ।। २ ।।