अष्टाविंशोऽध्यायः

सुव्रत उवाच -


अथ तत्र वसन् पुर्यां नारायणमुनिर्नृप ! । सर्वत्र कृष्णसेवायाः प्रवृत्तिं कर्तुमैहत ।। १ ।।

लेख्यार्चाश्चेत्तदा तु स्यात्कृष्णस्य प्रतिमानवम् । ईक्षार्चादिप्रवृत्तिर्वै कारयेय ततोऽत्र ताः ।। २

इत्थं विचार्य भक्तं स्वं नारायणजिदाह्वयम् । जीर्णदुर्गात्समानाय्य त्वष्टारं तमुवाच सः ।। ३

मूर्तिचित्रेऽतिदक्षोऽसि मयात्राऽकारितोऽस्यतः । कृष्णस्य प्रतिमामुद्रां कुरु त्वं मम चानघ ! ।। ४

इत्युक्तः स तथेत्याह निपुणो मूर्तिकर्मणि । चकार मुद्राद्वितयं दर्शनीयं मनोहरम् ।। ५

एका मुद्रा कृता तेन वृन्दावनविहारिणः । कृष्णस्य राधया जुष्टा तेन चोपाश्रितोत्तमा ।। ६

नारायणमुनेस्तस्य भक्तिधर्मान्विताऽपरा । मुद्रां तेन कृता ते द्वे दृा तुष्टोऽभवद्धरिः ।। ७

नरनारायणस्याथ मुद्रां हरिरचीकरत् । मासद्वयेन तेनैतत्कृतं मुद्रात्रयं नृप ! ।। ८

तस्मै ददौ ततः स्वामी विपुलं द्रविणं तथा । वासांसि बहुमूल्यानि हैमे च वलये नृप ! ।। ९

आधारानन्दमुनिना ततस्ताभिरचित्रयत् । मुद्राभिः काकुदेष्वेव प्रतिमाः स सहस्रशः ।। १०

रामप्रतापेच्छारामौ हरेरथ सहोदरौ । यावज्जीवं स्थातुकामावास्तां तस्यैव सन्निधौ ।। ११

नन्दरामं च गोपालं ज्येष्ठावेतौ सुतौ ततः । हर्याज्ञाया पुरं गन्तुं स्वीयमादिशतः स्म तौ ।। १२

तदा तावूचतुः स्वीयौ पितरौ प्रति भूपते ! । गमिष्यामो वयं कृत्वा वसन्तोत्सवदर्शनम् ।। १३

प्राप्ताथ माघमासस्य धवला पञ्चमी तदा । हरिश्चकार कृष्णस्य वसन्तोत्सवदर्सनम् ।। १४

तत्र देशान्तरेभ्योऽस्य शिष्या वासन्तिकोत्सवे । त्यागिनो गृहिणश्चापि समाजग्मुश्च योषितः ।। १५

उपचारैर्बहुविधैः कैसरेरंशुकैर्हरिः । श्रीराधासहितं कृष्णं समानर्च यथाविधि ।। १६

महानिवेदनं कृत्वा महानीराजनं ततः । नानारङ्गैर्गुलालैश्च चिक्रीड स्वाश्रितैः सह ।। १७

तर्पयित्वा ततः सर्वान्मुनीन्विप्रांश्च भूरिशः । प्रचुराज्यसितैर्भोज्यैर्बुभुजेऽथ स्वयं हरिः ।। १८

अथापरो तत्राभूत्सभा विततमण्डपे । उपाविशन्मुनीन्द्रोऽसौ तत्र स्वामी महासने ।। १९

निषेदुस्तस्य पुरतस्त्यागिनो निर्मलान्तराः । वैदिकाः शास्त्रिणो विप्राः पुराणज्ञाश्च भूरिशः ।। २०

बृहद्व्राता वर्णिनश्च गृहिणश्च सहस्रशः ।यथोचितं निषेदुस्ते वीक्षमाणास्तदाननम् ।। २१

अयोध्यावासिनस्तस्य भ्रातृभ्रातृसुतादयः । सम्बन्धिनो निषेदुश्च तदासनसमीपतः ।। २२

तारागणैः परिवृतश्चन्द्रमा इव स स्वकैः । बभौ शिष्यैरभिवृतस्तत्र सत्सदसीश्वरः ।। २३

अथावलोकयन् दृष्टया स कारुण्यसुधार्द्रया । भक्तानानन्दयन्नूचे सर्वशास्त्ररहस्यवित् ।। २४


श्री नारायणमुनिरुवाच - 

औद्धवे सम्प्रदाये ये वैष्णवाः पुरुषा भुवि । भवेयुस्तैस्तु भो भक्ताः ! कर्यं तीर्थनिषेवणम् ।। २५

प्रायशो भगवद्बक्तास्तीर्थेष्वेव मिलन्ति हि । रामकृष्णादिमूर्तीनां दर्शनं चैषु जायते ।। २६

मार्कण्डेयेन धौम्येन लोमशप्रमुखैस्तथा । सेव्यन्ते ब्रह्मऋषिभिस्तीर्थानि परमादरात् ।। २७

राजर्षिभिर्ध्रूर्मनिष्ठैर्युधिष्ठिरमुखैरपि । सेवितान्यत्र भूयांसि तीर्थानि प्रीतये हरेः ।। २८

अतोऽत्र भगवद्बक्तोर्मच्छिष्यैः पुरुषैः सदा । भक्तया तीर्थानि सेव्यानि गङ्गादीनि स्वशक्तितः ।। २९

स्नानं दानं हरेः पूजां विप्रवैष्णवतर्पणम् । तीर्थेषु शक्तया कुर्युर्ये मुच्येरंस्तेऽखिलैनसः ।। ३०

तीर्थानामपि सर्वेषां देशेऽस्मिंस्तीर्थमुत्तमम् । श्री द्वारिकापुरीसंज्ञां वर्तते वाञ्छितार्थदम् ।। ३१

अत्र श्री रुक्मिणीकान्तो नित्यमेव हि वर्तते ।त्वष्ट्रा विरचिते रम्ये कनकोत्तममन्दिरे ।। ३२

हृत्वा यदुकुलं यर्हि प्रभासेऽन्तर्दधेऽच्युतः । तदा कृष्णालयं त्यक्त्वा समुद्रोऽप्लावयत्पुरीम् ।। ३३

संहृत्य स्वकुलं तत्र जनादृश्यः स ईश्वरः । तन्निजं मन्दिरं सद्यः प्राप्त आस्ते हिताय नः ।। ३४

अतो मुक्तिपुरीमेतां पुरीं द्वारावतीं विदुः । नैतादृशं परं तीर्थे श्रेयस्कृद्धि कलौ युगे ।। ३५

तद्यात्रातः प्रकर्तव्या गृहिभिस्त्यागिभिस्तथा । तत्रत्यश्च विधिः कार्यः स्वाधिकारानुसारतः ।। ३६

गृहस्थानां विशेषेण पुण्यक्षेत्रेषु सद्व्यः । कर्तव्यो विहितो भक्ताः ! सतां शुश्रूषणं तथा ।। ३७

इत्युक्त्वा सकलान्भक्तान्सद्गुरुः स ततो निजान् । सम्बन्धिनश्चालुलोके कोसलान् गन्तुमुद्यतान् ।। ३८

ज्येष्ठौ द्वौ भ्रातृपुत्रौ च मातुलेयमुवाच सः । कृत्वैव द्वारिकायात्रां यूयं यात स्वकं पुरम् ।। ३९

अवश्यमेव कर्तव्या यात्रैषा तूद्धवाश्रितैः । कर्तव्यं दर्शनं तत्र श्रीमतो द्वारिकापतेः ।। ४०

स्रातव्यं गोमतीतोये दानं देयं स्वशक्तितः । कृष्णायुधैः कारणीयं निजबाहुद्वयाङ्कनम् ।। ४१

तत्रत्या ब्राह्मणाः सन्तो भोजनीयाश्च शक्तितः । आज्ञावाक्यामिति श्रुत्वा हरेस्तेऽथ तमब्रुवन् ।। ४२

गमिष्यामो वयं सत्यं स्वामिन् ! द्वारावतीं पुरीम् । तैर्थिकं च विधिं तत्र करिष्यामः स्वशक्तितः ।। ४३

किन्तु विद्मो वयं नैव दूरदेशागता हरे ! । तद्वर्त्म च निवासार्हान् पथि ग्रामान् पुराणि वा ।। ४४

यदि तद्विद्बवेत्तर्हि साकं तेन तवाज्ञाया । यात्रां वयं कुशस्थल्याः कर्तुमद्य व्रजेम वै ।। ४५

इति तद्वाक्यमाकर्ण्य स स्वामी सर्ववित्तदा । सदःस्थितेषु भक्तेषु तादृशं मुनिमौहत ।। ४६

सच्चिदानन्दनामानमथ तं वीक्ष्य सोऽब्रवीत् । समाधिनिष्ठं निर्भीकमार्षभं भरतं यथा ।। ४७

साधो ! त्वं कृष्णभक्तोऽसि पूज्योऽसीह सतामपि । एतन्मार्गाद्यभिज्ञोऽसि तदेतान् द्वारिकां नय ।। ४८

अन्येऽपि सन्ति सन्तोऽत्र नैके यात्रां चिकीर्षवः । शीतकाले व्यतीते ते तत्रायास्यन्ति निश्चितम् ।। ४९

अयोध्यावासिभिः साकं गन्तुमद्य त्वमर्हसि । वत्सरेऽस्मिन् यत इमे प्रेष्याः सन्ति निजान् गृहान् । ५०

कृत्वा श्रीद्वारिकायात्रां कारयित्वा च सत्वरम् । इहायाहि महाबुद्धे ! त्वमेतान् सुखयन् पथि ।। ५१

यदेच्छा वासुदेवस्य भविष्यति तदा मुने ! । अहमप्यागमिष्यामि साकमेतैर्हि साधुभिः ।। ५२

इत्युक्तः स महायोगी हरिणा तन्निदेशकृत् । बद्धाञ्जलिपुटो नत्वा विनयेन तमूचिवान् ।। ५३

आज्ञां ते पालयिष्यामि यथोक्तां प्रीतये तव । पाथेयादि गृहीत्वैव यान्तु सज्जा भवन्त्विमे ।। ५४

इत्युक्तस्तेन स स्वामी मयरामाभिधं द्विजम् । यात्रामुहूर्तमेतेषां पश्येत्याहाग्रतः स्थितम् ।। ५५

ततः स ब्राह्मणो वृद्धो दीर्घं पञ्चाङ्गपत्रकम् । सद्यो निष्कासयामास शिरःस्थस्थूलवेष्टनात् ।। ५६

यात्रार्हं तत्र लग्नं स दृा चंद्रबलं तथा । मुहूर्तोऽस्ति शुभः स्वामिन्नवम्यामित्युवाच तम् ।। ५७

ततः श्री हरिणादिष्टाः स्वस्वस्थानं ययुर्जनाः । शिरसादाय तद्वाक्यं स्वयं स्वावासमागमत् ।। ५८

ततो भगवताज्ञाप्तास्ते शुक्लनवमीदिने । सज्जा बभूवुस्तं नत्वा स्मरन्तो द्वारिकापतिम् ।। ५९

दत्त्वा स तेभ्योऽपि धनं च वाहाननांसि पङ्गांश्च सहेतिपाणीन् ।
प्रस्थापयामास शुभे मुहूर्ते तान् द्वारिकां भूमिपते ! मुनीशः ।। ६० ।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वृत्तालयमाहात्म्ये चित्रप्रतिमाविधापनेन्दरामादिद्वारिकाप्रेषणनिरूपणनामा अष्टाविंशोऽध्यायः ।। २८ ।।