सुव्रत उवाच -
मार्गे व्रजन्तस्त्वरितं ते कृष्णेक्षासमुत्सुकाः । माघकृष्णप्रतिपदि गोमतीं प्रतिपेदिरे ।। १
गुग्गुल्याख्यास्तु तत्रत्या धनमात्रप्रिया द्विजाः । स्नानं तत्र ददुर्नैतान् वित्तग्रहणमन्तरा ।। २
तदा तु गृहिणो दत्त्वा द्रव्यं तेभ्यस्तदीप्सितम् । नन्दरामदयश्चक्रुर्गोमत्यां स्नानमादरात् ।। ३
निष्किञ्चिनस्य तीर्थे स्यात्प्रतिबन्धो न कुत्रचित् । इति ते सच्चिदानन्दमपृा स्नानमाचरन् ।। ४
स गोमतीं प्राप्य मुनिव्ररजति स्म शनैः शनैः । कृष्णक्रीडास्थानवीक्षास्मृततन्मूर्तिलीनहृत् ।। ५
तं त्यागिराजमपरिग्रहमात्मनिष्ठं यान्तं गजेन्द्रमिव विस्मृतदेहभावम् ।
निष्किञ्चनं मुनिमपि क्षितिदत्तपिण्डं ध्वा इव क्षितिपतेऽर्थिजनाः प्रवव्रुः ।। ६
संकृष्यमाणवसनोऽपि यदा स किञ्चिन्न क्षोभमाप शिशुकैस्तरुणैश्च वृद्धैः ।
तं तर्हि केचिदविदन् कपटोपधर्ममुन्मत्तमेव कतिचित्कतिचिच्च मत्तम् ।। ७
हित्वा तं ते ततस्तूर्णं स्नतोऽयोध्यानिवासिनः । तान् दृाऽभ्यापतन् दूरात्तैर्थिका दक्षिणार्थिनः ।। ८
अशक्तः सोऽथ चलितुं निषसाद तदाध्वनि । अवस्थात्रयमुल्लङ्घय समाधिं ब्रह्मणि ह्यगात् ।। ९
स्नत्वा ते कोसला दत्त्वा विप्रेभ्यो दक्षिणादि च । साधोस्तस्यान्तिकं तूर्णमागत्य ददृशुश्च तम् ।। १०
समाधिस्थं तमालक्ष्य तत्स्वरूपविदो हि ते । क्षणं विचिन्त्य तं मार्गादुत्तोल्यान्यत्र सन्न्यधुः ।। ११
गोपालो नन्दरामाख्यं भ्रातरं तमथाब्रवीत् । अतः परं किं विधेयमस्माभिस्तीर्थचारिभिः ।। १२
तदा तु मानसारामः प्राहैनं साधुमध्वनि । वयं कथं नु नेष्यामो हित्वा गच्छेम वा कथम् ।। १३
तस्मादिहैव स्थातव्यमस्माभिरिति भाति मे । गोपालस्तं तदा प्राह साधुमेनमवैम्यहम् ।। १४
महान्समाधिनिष्ठोऽयं स्थितिरस्यास्ति भूयसी । क्वचिद्दिनानां त्रितयं पञ्चकं दशकं च वा ।। १५
समाधौ तिष्ठति क्वापि दिनानि दश पञ्च च । इत्थं समाधेर्नियमो नास्त्यस्येत्येव वेद्म्यहम् ।। १६
नन्दरामस्तदोवाच यात्रां कृत्वा वयं द्रुतम् । अष्टभिर्नवभिर्वाऽत्र ह्यायास्यामः पुनर्दिनैः ।। १७
तीर्थेषु नास्ति साधूनां चिन्ता कुत्रापि भूतले । तीर्थमेव गृहं यस्मात्तेषां प्राहुः पुरातनाः ।। १८
इति तद्वाक्यमाकर्ण्य तथेत्युक्त्वा च तावुभौ । उषित्वा तद्दिने तत्र परेद्युः प्रययुस्ततः ।। १९
धनमारावणग्रामे दत्त्वा ते तप्तमुद्रिकाः । गृहीत्वा प्रययुः शीघ्रं शङ्खोद्धारं हरेः प्रियम् ।। २०
तैर्थिकेभ्यो धनं दत्त्वा तत्र श्रीद्वारिकापतेः । चक्रुस्ते दर्शनं भक्तया तत्पूजां च स्वशक्तितः ।। २१
स्ववित्तस्यानुसारेण तैर्थिकं सकलं विधिम् । कुर्वन्तो न्यवसंस्तत्र ते दिनानां तु पञ्चकम् ।। २२
ततस्तमेव हृदये चिन्तयन्तो दिवानिशम् । सन्तं तूर्णमुपाजग्मुर्गोमतीं कोसलद्विजाः ।। २३
अथासौ सच्चिदानन्दो मुनिः कोसलवासिषु । शङ्खोद्धारं गतेष्वेव तद्दिने व्युत्थितोऽभवत् ।। २४
विदित्वा तान् गतान्सर्वान् गोमतीं स्नतुमभ्यगात् । स्नतुं न दत्तं तत्रत्यैर्द्रव्याभावाद्द्विजादिभिः ।। २५
अधनं चास्पृशन्तं स्त्रीः स्वामिशिष्यमवेत्य तम् । कोऽप्यन्नमपि न प्रादादीर्ष्यया तैर्थिकः पुमान् ।। २६
अनादृतशरीरश्च प्रत्यग्वृत्तिरसावपि । आहारार्थं मुनिर्नान्नं तत्रायाचत कञ्चन ।। २७
ततः स गोमतीतीरे दिनत्रयमुपोषितः । तस्थौ तथापि न स्नतुं दत्तं तैर्निर्दयात्मभिः ।। २८
ततः स प्रययौ जानन् हरेरिच्छां हि तादृशीम् । जितक्रोधो जिताहारः प्रापदारावणं नृप ! ।। २९
तप्तमुद्राप्तये तत्र समन्तान्निर्धनाञ्जनान् । क्षुधार्तान् रुवतो वीक्ष्य तन्नामान्वर्थमप्यवैत् ।। ३०
द्व्यहोपवासान्कतिचित्स तत्र त्र्यहोपवासान्कतिचिच्च पुंसः ।
कांश्चिच्च पञ्चाहनिरन्नदेहानपश्यदेकान्षडहोपवासान् ।। ३१
वृद्धांश्च बालान् रुदतश्च दीनान् क्षुत्क्षामतुन्दांश्च विवर्णवक्त्रान् ।
स्त्रीश्च क्षुधा पृष्ठविलग्नतुन्दाः श्वासावशेषाः पतिता विचेष्टाः ।। ३२
मार्गे वने तस्करलुन्टितस्वान् क्षुत्क्षीणदेहान्कतिचिच्च विप्रान् ।
साधूंश्च वित्ताप्तय आर्द्यमानान् स तप्तमुद्राधिकृतैर्लुलोके ।। ३३
उपोषणास्पष्टविलम्बिवाचः प्रकुर्वतोऽलं शपथांश्च भूयः ।
स निर्धनानप्यतिगालिदानैर्व्यचष्ट चान्यैरपि मर्त्स्यमानान् ।। ३४
कांश्चिच्च साधून्म्रियमाणदेहान्क्षुदग्निदग्धानवगत्य निःस्वान् ।
रुषाऽत्तमुद्रैरतिदाह्यमानान् दृा स योगी दयया चकम्पे ।। ३५
ततः स तत्र विचरंस्तप्तमुद्राप्रदान्तिकम् । गत्वाऽब्रवीत्कृष्णभक्ताः ! कुरुताद्याङ्कनं मम ।। ३६
हसंस्तदाब्रवीत्कश्चिदङ्कयतामृषभो ह्ययम् । अन्यः प्राह तदा धूर्ता आयान्त्येतादृशाः कुतः ।। ३७
केचित्तं साधुमवदन् धनं दत्त्वाङ्कितो भव । धनं नारीं च न वयं स्पृशाम इति सोऽब्रवीत् ।। ३८
त ऊचुस्तव कन्थायां रूप्यमुद्रा भवन्ति वै । तदा स तु ददौ कन्थां ते व्यचिन्वंश्च तां ततः ।। ३९
अदृा तत्र ते वित्तं दूरे तां चिक्षिपुर्नराः । तदाह चारणः कश्चित्कौपीनेऽस्य भवेद्धनम् ।। ४०
रक्षन्ति प्रायशस्तत्र सन्तो वित्तं जटास्वपि । कोपीनात्सीवितं ह्यस्तन्मया निष्कासितं सतः ।। ४१
निष्कास्यमाने कौपीने तैः स साधुरुवाच तान् । स्वामिनारायणीयानां कौपीने तन्न सम्भेवत् ।। ४२
क्रोधात्तदोचुः श्रुत्वा तां स्वामिनारायणाभिधाम् । लक्षशो रूपकाः सन्ति त्वद्गुरोरन्तिके किल ।। ४३
गत्वाऽनय भृशं वित्तं यदि ते धार्यमङ्कनम् । त्वां तु नैवाङ्कयिष्यामो ह्यगृहीत्वेप्सितं धनम् ।। ४४
गच्छ गच्छाऽश्वितो दूरमित्युक्तः स तु योगिराट् । उपाविशत्तदोपेत्य दीर्घां लङ्घनवेदिकाम् ।। ४५
अद्य श्वो वा परश्वो वा तप्तमुद्राङ्कनं मम । एते कर्तार इत्येव तत्र निश्चित्य सोऽवसत् ।। ४६
लङ्घमानान् जनान्दीनानार्तनादांश्च कुर्वतः । पश्यंस्तद्ग्रामनैर्घृण्यं क्रूरेभ्योऽप्यधिकं ह्यवैत् ।। ४७
ददाति तत्र यो वित्तं तप्तमुद्रां स एव हि । प्राप्नोतीतीक्षमाणोऽसावेतदद्बुतमैक्षत ।। ४८
एकः कश्चन दीर्घधूसरजटागुम्फोल्लसन्मस्तकः शोणव्यात्तकराललोचनयुगव्यालक्ष्यभङ्गामदः
भस्मोद्धूलनमञ्जनाचलनिभे गात्रे दधत्तुङ्गहृत् खंखाख्यश्चिपिटं करेण च दधत्कार्ष्णायसं सन्नगात् ४९
आक्रोशन्नतिदीर्घघर्घररवैः श्रीद्वारिकाधीश्वरं मौञ्जीं लिङ्गपटीं च लोहरचितं कटयां दधच्छृङ्खलम् ।
तिर्यक्प्रेक्षणभीषितार्भकगणस्तूर्णक्रमः श्मश्रुलस्तत्रैत्याह स निर्भयोऽङ्कयत मामद्येति मुद्राप्रदान् ।।५०
निर्भयं भाषमाणं तं दूरं गच्छति वादिनः । अभर्त्सयन्नाजभृत्या न चचाल तथापि सः ।। ५१
स्वाननादृत्य तिष्ठन्तमङ्कथमानजनान्तरे । क्रोधरक्तेक्षणा दध्रुर्बलिष्ठा राजपुरुषाः ।। ५२
बलित्वाद्दुर्धरोऽप्यन्यैर्धृत्वा स प्रसभं च तैः । तूर्णे निष्कासितो दूरे मुष्टिकूर्परताडनैः ।। ५३
बहून् पराभावयितुं बलिष्ठोऽपि न शक्नुवन् । स तान्प्राहास्म्यहं साधुत्यागी चाप्यपरिग्रहः ।। ५४
तप्तमुद्रार्थमायातं निष्कासयथ मां कुतः । त ऊचुर्द्रविणं दत्त्वा गृह्यतां तप्तमुद्रिकाः ।। ५५
स प्राह मत्समीपे तु द्रव्यं नास्त्येव किञ्चन । लोहशृङ्खलमेकं हि कटिलम्बि तु वर्तते ।। ५६
जटाभारं तस्य कश्चिदकृक्षच्चारणः शनैः । तावदेका हेममुद्रा निपपात ततो भुवि ।। ५७
तावत्ते चारणाद्यास्तं वल्गमाना इतस्ततः । पातयामासुरुन्मत्तास्तज्जटां व्यकिरन्भुवि ।। ५८
चतस्रोऽन्या हेममुद्रा जटाया निःसृताः पुनः । ता राजकीया जगृहुर्मुमुचुस्तं ततश्च ते ।। ५९
मृतप्रायः सोऽपि खङ्खो न गृहीत्वैव मुद्रिकाः । स्वस्थानं शनकैः प्रागात् शपंस्तांस्तैर्थिकान्मुहुः ।। ६०
एतत्सर्वे स तु मुनिरदृष्टचरमद्बुतम् । दृा वित्तैकसाध्यं तन्मेने कृष्णायुधाङ्कनम् ।। ६१
हसन्तश्चारणाः केचिन्मुनिमूचुर्धनेप्सवः । साधो ! साधुसमीपे स्याद्रव्यं नैवात्र संशयः ।। ६२
प्रत्यक्षमेव भवता दृष्टमेभिर्भटैः सतः । धनं निष्कासितमिति कर्तारस्त्वां वयं तथा ।। ६३
स उवाच तदा साधुर्नास्ति शीर्ष्णि जटा मम । कन्थां तु कश्चिच्चौरोऽपि नाग्रहीज्जीर्णचीवराम् ।। ६४
नवीनमेकं कौपीनं ममास्ति द्वादशाङ्गुलम् । तस्मिन् गृहीते मुद्राश्चेद्दास्यथाद्यैव नीयताम् ।। ६५
इत्युक्ताः प्रहसन्तस्ते ययुरन्यत्र चारणाः । सोऽपि तस्थौ निराहारो निर्भयः स स्मरन् हरिम् ।। ६६
स्वां व्यथां गणयन्नैव स तूपोष्य दिनत्रयम् । परार्तिमक्षमो द्रष्टुं शङ्खोद्धारं ततो ययौ ।। ६७
न साधवोऽन्यस्य रुजं विलोकितुं क्वचिन्नरेशात्र तु शक्नुवन्ति हि ।
तदीयमुक्तं नवनीतकोमलं यतः पुराणे हृदयं दयामृतम् ।। ६८ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वृत्तालयमाहात्म्ये आरावणग्रामे तप्तमुद्राप्रदनिर्दयत्वनिरूपणनामा एकोनत्रिंशोऽध्यायः ।। २९ ।।