सुव्रत उवाच -
एकादश्यां निर्जलायां वृत्तलयपुरौकसः । कुबेरप्रमुखा भक्तास्तत्राऽयंस्तद्दिदृक्षवः ।। १
विधाय दर्शनं तस्य लेभिरे ते परं सुखम् । सम्भावयामास च तानुत्तमश्च यथोचितम् ।। २
एकादश्युत्त्सवे वृत्ते द्वादश्यां कृतपारणम् । सुखासीनं हरिं नत्वा ते प्राञ्जल्य ऊचिरे ।। ३
अस्मद्विज्ञापनां स्वामिन् ! शृणु त्वं भक्तवत्सलः । यन्निवेदयितुं सर्वे वयमत्र समागताः ।। ४
मन्दिरं कारयास्माकं पुरे कृष्णस्य सुन्दरम् । सर्वेषामपि पौराणां भवत्येष मनोरथः ।। ५
यावत्यपेक्षिता भूमिस्तदर्थे तव तावती । प्रदत्ताऽस्माभिरद्यैवेत्यवगच्छ न संशयः ।। ६
धनादिना च शुश्रूषां करिष्यामो वयं हरे ! । अस्मन्मनोरथं ह्येतं पूर्णं कर्तुं त्वमर्हसि ।। ७
इति तैः प्रार्थितो भक्तैः प्रसन्नौ हरिराह तान् । एवमेव करिष्यामि भक्ता ! यूयं मम स्थ यत् ।। ८
इत्युक्त्वा तांस्ततः प्राहाक्षरानन्दमुनिं हरिः । वृत्तालपुरं गच्छ सहैतैः सस्वमण्डलः ।। ९
स देशोऽस्ति मम प्रेष्ठो वृन्दावनमिवानघ ! । अतस्त्वं कारयेस्तत्र कृष्णमन्दिरमुत्तमम् ।। १०
जाते हि मन्दिरे तस्मिन्नहमेत्य शुभे क्षणे । रुकिमण्या सहितं कृष्णं स्थापयिष्यामि निश्चितम् ।। ११
इत्युक्तः स तथेत्याह मुनिस्तत्कार्यनैपुणः । प्रसन्नाश्च बभूवुस्ते भक्ताः पौरास्तदा नृप ! ।। १२
स्ननयात्रावधि स्थित्वा तत्र ते मुनिना सह । ततो जग्मुः स्वनगरमाज्ञाप्ता हरिणाखिलाः ।। १३
पञ्चमेऽहनि ते प्रापुः पुरं तदथ तं मुनिम् । सुस्थाने वासयामासुः पौराः पर्यचरंश्च तम् ।। १४
मन्दिरापेक्षितां भूमिं विशालां ते ततो मुदा । कृष्णार्पणं ददुः सर्वे हरिसम्प्रीणनोत्सुकाः ।। १५
आह्वाय्य शिल्पिनो दक्षान् स मुनिर्वटपत्तनात् । मन्दिरं कारयामास विशालं च मनोहरम् ।। १६
तत्कार्ये निरता आसन् पौरास्तदनुवर्तिनः । वत्सरेण सपादेन निष्पन्नं मन्दिरं त्वभूत् ।। १७
ततो देवप्रतिष्ठार्थमानेतुं दुर्गपत्तनात् । हरिं पौरास्तु जूषाख्यं प्रैषयन्भक्तमुत्तमम् ।। १८
हरिश्चाथाक्षरानन्दं प्रेष्य वृत्तालयं नृप ! । सर्वोपनिषदः श्रोतुं सभाष्या उद्यतोऽभवत् ।। १९
आनयित्वा सभाष्यास्ता रथयात्रा दिने स्वयम् । समाप्त उत्सवे श्रोतुं प्रारम्भन्निजाश्रमे ।। २०
आश्विने शुक्लपक्षेऽसौ कोजागरदिने च ताः । समाप्य तोषयामास भूरिद्रव्येण वाचकम् ।। २१
ब्राह्मणान्भोजयामास तद्दिने च सहस्रशः । दक्षिणां च ददौ तेभ्यो नारायणमुनिर्मुदा ।। २२
कार्तिकस्ननमारेभे तस्मिन्नेवाह्नि सानुगः । अन्नकूटोत्सवं चक्रे महान्तं तत्र च प्रभुः ।। २३
परेऽह्नि जूष आगत्य तं प्रणम्य कृताञ्जलिः । प्राह वृत्तालये स्वामिन्मन्दिरं जातमुत्तमम् ।। २४
तत्रागत्य प्रतिष्ठां त्वं श्रीकृष्णस्य कुरु प्रभो ! । त्वदागमं प्रतीक्षन्ते पौराः सर्वेऽपि मानवाः ।। २५
इति तद्वचनं श्रुत्वा चक्रे जिगमिषां हरिः । ततः कृष्णप्रतिष्ठायाः पप्रच्छ गणकं क्षणम् ।। २६
ऊर्जस्य शुक्लद्वादश्यां दत्तस्तेन च तत्क्षणः । ततः स्वान्श्वोऽस्ति गन्तव्यं सज्जाः स्यातेत्यजिज्ञापत् २७
आहूयाथोत्तमं प्राह सकुटुम्बो भवानपि । वृत्तालयं समायातु निर्गन्तव्यं श्व एव च ।। २८
श्वोस्ति भ्रातृद्वितीयात्र गृहिभिर्भगिनीगृहे । भोक्तव्यं च धनं वासः स्वस्रे देयमिति स्थितिः ।। २९
यमो यमुनयात्र प्राग्भोजितस्तेन सापि च । मानिता धनवस्त्रद्यैः प्रवृत्तैषा ततो भुवि ।। ३०
त्वं च सङ्गव एव श्वो भुक्त्वा पाञ्चालिकागृहे । चतसृभ्योऽपि स्वसृभ्यो दद्या वासोधनं पृथक् ।। ३१
ततस्ताभिः सहैव त्वं सज्जः स्याश्च सभार्यकः । इत्युक्तः स तथेत्युक्त्वा तत्तथैवाकरोन्नृप ! ।। ३२
पूर्वाह्व एवाथ हरिरामध्याह्नात्क्रिया निजाः । कृत्वा भुक्त्वा द्वितीयायां मध्याह्ने निर्यतौ ततः ।। ३३
भक्तग्रामेषु निवसन् पञ्चम्यां प्रातरेव सः । प्राप वृत्तालयं स्वामी हयारूढः ससोदरः ।। ३४
वादित्रनादैरभ्येत्य नीत उत्कैर्निजैः पुरम् । स्वावासं तु हरिश्चक्रे रथकारस्य वेश्मनि ।। ३५
सोदरौ सान्वयौ स्वस्य सकुटुम्बं तथोत्तमम् । मुनीन् पग्दान् पार्षदांश्च यथार्हमुदतारयत् ।। ३६
पौराः शुश्रूषणं चक्रुः सानुगस्य हरेर्मुदा । तन्मन्दिरमुपागत्य सर्वतोऽसौ व्यलोकयत् ।। ३७
संलग्नं शोभनं तत्र पूर्वास्यं मन्दिरत्रयम् । मण्डपं धर्मशालां च दृा तुष्टोऽभवद्धरिः ।। ३८
शिल्पिमुख्याय तर्ह्येव सोऽनर्घ्ये वाससी ददौ । प्रशशंसाक्षरानन्दं भक्तान्नागरिकांस्तथा ।। ३९
उदुम्बरपुराद्विप्रान् वैदिकान्वैष्णवांश्च सः । हरिशर्ममुखान् सद्यो दूतैराजूहवन्नृप ! ।। ४०
देशान्तरेभ्यस्तत्राऽयन्नरा नार्यश्च यूथशः । मण्डलानि मुनीनां च तदुत्सवदिदृक्षवः ।। ४१
हरिर्विधिज्ञाविप्रोक्तानुपहारानसाधयत् । सर्वान्विष्णुप्रतिष्ठार्हांस्तथा सर्पिसितादिकान् ।। ४२
प्रतिष्ठाविधिवेत्तारो विप्राः कुण्डं च मण्डपम् ।पीठानि देवतानां च यथाशास्त्रमकारयन् ।। ४३
विधिं कृष्णप्रतिष्ठायाः स्वस्तिवाचनपूर्वकम् । अकारयन् हरिं विप्रा वासरद्वितयेन ते ।। ४४
द्वादश्यां स्थापयामास मध्यमे मन्दिरे हरिः । रुक्मिण्या सहितं कृष्णं चक्रे तस्यार्चनं महत् ।। ४५
तत उत्तरतस्तस्मान्मन्दिरे मूर्तिमात्मनः । उपेतां भक्तिधर्माभ्यां भक्तप्रीत्या अतिष्ठिपत् ।। ४६
समर्चनं विधायास्यास्ततो दक्षिणमन्दिरे । राधया सहितं कृष्णं स्थापयित्वा समार्चयत् ।। ४७
तदन्तिकेऽपि स स्वस्य मूर्तिमस्थापयच्छुमाम् । निजप्रीत्यै ततस्तां च पूजयामास सत्पतिः ।। ४८
गीतिकानां च वाद्यानां घोषस्तत्र महानभूत् । वेदघोषेण विप्राणां मिश्रोऽसौ व्यानशे दिशः ।। ४९
महानीराजनं कृत्वा मूर्तीस्ताः स पृथक् पृथक् । निर्निमेषस्थिराक्षिभ्यां पश्यंस्तस्थौ घटीद्वयम् ।। ५०
तदानीं ता बभुर्भूप ! मूर्तयो भूरितेजसः । ता दृा विस्मयं प्रापुर्जनाः सर्वे तदीक्षकाः ।। ५१
पूर्णाहुतिं ततो हुत्वा ऋत्विग्भ्यो दक्षिणां ददौ । अन्येभ्यश्चापि विप्रेभ्यो भूयसीं धर्मविद्धरिः ।। ५२
उच्चासनस्थितोऽथाऽह जनानूर्ध्वैकदोः स च । शृण्वन्तु सर्वेऽपि जनाः ! सादरं वचनं मम ।। ५३
मध्यमे मन्दिरे ह्येष लक्ष्मीनारायणो मया । स्थापितोऽस्तीति जानीत द्वारिकाधीश्वरः स्वयम् ।। ५४
दक्षिणे मन्दिरे त्वत्र श्रीकृष्णो राधया सह । वृन्दावनविहार्येष मया सुस्थापितोऽस्ति हि ।। ५५
तदन्तिके तु मे मूर्तिरस्ति स्वीयप्रसत्तये । धर्मभक्तियुता चास्ति मन्दिरे तूत्तरे मम ।। ५६
लक्ष्मीनारायणादीनां स्वरूपाणां तु दर्शनम् । प्रत्यहं ये करिष्यन्ति ये मोक्ष्यन्त्येव संसृतेः ।। ५७
पौर्णमास्यां पौर्णमास्यां ये च ग्रामान्तरादपि । एत्यैषां दर्शनं भक्तया करिष्यन्त्यत्र मानवाः ।। ५८
सर्वे मनोरथास्तेषां सिद्धिमेष्यन्ति निश्चितम् । भुक्तिं तथेप्सितां मुक्तिं प्राप्स्यन्त्येषां प्रसादतः ।। ५९
श्रीकृष्णस्यास्य पुरतो जपं होमं च ये जनाः ।पुरश्चर्यां करिष्यन्ति ते प्राप्स्यन्तीप्सितं फलम् ।। ६०
यस्तु श्रीद्वारिकाधीशो लक्ष्मीनारायणः स हि । भेदोऽत्र नैव विज्ञोयः सत्यं हि वचनं मम ।। ६१
संशयोऽत्रापि यच्चिते सम्भवेत्तमपि स्वयम् । कालेनाल्पेन भगवानेष एवापनेष्यति ।। ६२
सुव्रत उवाच -
इत्युक्त्वा स जनान् धार्मिस्तूष्णमासीन्नराधिप ! । तेऽपि सर्वे वचस्तस्य जगृहुः शिरसा मुदा ।। ६३
अभोजयद्धरिर्विप्रांस्तद्दिनात्पूर्णिमावधि । तेभ्यश्च दक्षिणां प्रादाद्विद्वद्बयस्तु विशेषतः ।। ६४
साधूंश्च तर्पयामास भोज्यैर्नानाविधैरपि । प्रत्यहं स्वयमेवासौ मुहुः संपरिवेषयन् ।। ६५
कृष्णसेवोत्सवादीनां व्यवस्थां स यथोचितम् । विधाय प्रतिपद्येव चक्रे जिगमिषां ततः ।। ६६
नाथजित्प्रमुखा भक्तास्तावद्वटपुरौकसः । तमेत्य प्रार्थयामासुर्नत्वा प्राञ्जलयः प्रभुम् ।। ६७
भगवन्नगरेऽस्माकं बहवो मतवादिनः । विवदन्ते शास्त्रवादैरस्माभिर्नृपसंसदि ।। ६८
प्रत्यक्षभगवत्प्राप्त्या श्रेय आत्यन्तिकं भवेत् । इत्यस्माकं मतं त्वार्षैर्वचनैर्दूषयन्ति ते ।। ६९
अत आर्षैर्वचोभिस्तत्पक्षखण्डनपाटवम् । काञ्चिन्मुनिं पुरेऽस्माकं त्वं प्रेषयितुमर्हसि ।। ७०
नास्माकं संशयः कोऽपि तद्वाक्यैर्हृदि जायते । किन्तु तद्दर्पशमनं स्यादितीप्सितमस्ति नः ।। ७१
इति तैः प्रार्थितः स्वामी तत्कार्यैकोद्यमः सदा । मुक्तानन्दमुनिं प्रोचे विद्वांसं स्वाग्रतः स्थितम् ।। ७२
एतैर्वटपुरं गच्छ सह त्वं मुनिसत्तम ! । तत्रास्ति धार्मिको राजा सिंहजिन्नीतिशास्त्रवित् ।। ७३
न्याय्यमेव स पक्षं हि ग्रहीष्यति न चेतरम् । तस्मान्न्याय्यैः शास्त्रवाक्यैर्दद्या वादिभ्य उत्तरम् ।। ७४
धर्मो जयति नाधर्म इत्यस्ति निश्चयः सताम् । अतस्त्वं धर्मविग्दच्छ धर्मं स्थापय तत्र च ।। ७५
इत्युक्तः सोऽतिहृष्टस्तं प्रणम्याऽह प्रभोऽद्य हि । तत्र गत्वा स्थापयामि सद्धर्मे त्वत्प्रसादतः ।। ७६
इत्युक्त्वां तं प्रणम्यासौ जगाम वटपत्तनम् । पौरैः सह द्वितीयेऽह्नि प्राप्य तत्रावसत्सुखम् ।। ७७
हरिरथ निजदर्शनागतान्स्वान्निजनिजदेशगमाय नृन्विसृज्य ।
प्रतिपदि सहितो निजानुयातैर्नृपवर ! दुर्गपुरं ततो जगाम ।। ७८ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वृत्तालयमाहात्म्ये श्री लक्ष्मीनारायणाप्रतिष्ठानिरूपणनामासप्तविंशोऽध्यायः ।। २७ ।।